🪷 Mahābhārata · Sabhā-Parva · Chapter 28
The Book of the Assembly Hall · Parva 2 · 55 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 55 Shlokas
MBh 2.28.1
वैशंपायन उवाच
तथैव सहदेवोऽपि धर्मराजेन पूजितः
महत्या सेनया सार्धं प्रययौ दक्षिणां दिशम्
MBh 2.28.2
स शूरसेनान्कार्त्स्न्येन पूर्वमेवाजयत्प्रभुः
मत्स्यराजं च कौरव्यो वशे चक्रे बलाद्बली
MBh 2.28.3
अधिराजाधिपं चैव दन्तवक्रं महाहवे
जिगाय करदं चैव स्वराज्ये संन्यवेशयत्
MBh 2.28.4
सुकुमारं वशे चक्रे सुमित्रं च नराधिपम्
तथैवापरमत्स्यांश्च व्यजयत्स पटच्चरान्
MBh 2.28.5
निषादभूमिं गोशृङ्गं पर्वतप्रवरं तथा
तरसा व्यजयद्धीमाञ्श्रेणिमन्तं च पार्थिवम्
MBh 2.28.6
नवराष्ट्रं विनिर्जित्य कुन्तिभोजमुपाद्रवत्
प्रीतिपूर्वं च तस्यासौ प्रतिजग्राह शासनम्
MBh 2.28.7
ततश्चर्मण्वतीकूले जम्भकस्यात्मजं नृपम्
ददर्श वासुदेवेन शेषितं पूर्ववैरिणा
MBh 2.28.8
चक्रे तत्र स संग्रामं सह भोजेन भारत
स तमाजौ विनिर्जित्य दक्षिणाभिमुखो ययौ
MBh 2.28.9
करांस्तेभ्य उपादाय रत्नानि विविधानि च
ततस्तैरेव सहितो नर्मदामभितो ययौ
MBh 2.28.10
विन्दानुविन्दावावन्त्यौ सैन्येन महता वृतौ
जिगाय समरे वीरावाश्विनेयः प्रतापवान्
MBh 2.28.11
ततो रत्नान्युपादाय पुरीं माहिष्मतीं ययौ
तत्र नीलेन राज्ञा स चक्रे युद्धं नरर्षभः
MBh 2.28.12
पाण्डवः परवीरघ्नः सहदेवः प्रतापवान्
ततोऽस्य सुमहद्युद्धमासीद्भीरुभयंकरम्
MBh 2.28.13
सैन्यक्षयकरं चैव प्राणानां संशयाय च
चक्रे तस्य हि साहाय्यं भगवान्हव्यवाहनः
MBh 2.28.14
ततो हया रथा नागाः पुरुषाः कवचानि च
प्रदीप्तानि व्यदृश्यन्त सहदेवबले तदा
MBh 2.28.15
ततः सुसंभ्रान्तमना बभूव कुरुनन्दनः
नोत्तरं प्रतिवक्तुं च शक्तोऽभूज्जनमेजय
MBh 2.28.16
जनमेजय उवाच
किमर्थं भगवानग्निः प्रत्यमित्रोऽभवद्युधि
सहदेवस्य यज्ञार्थं घटमानस्य वै द्विज
MBh 2.28.17
वैशंपायन उवाच
तत्र माहिष्मतीवासी भगवान्हव्यवाहनः
श्रूयते निगृहीतो वै पुरस्तात्पारदारिकः
MBh 2.28.18
नीलस्य राज्ञः पूर्वेषामुपनीतश्च सोऽभवत्
तदा ब्राह्मणरूपेण चरमाणो यदृच्छया
MBh 2.28.19
तं तु राजा यथाशास्त्रमन्वशाद्धार्मिकस्तदा
प्रजज्वाल ततः कोपाद्भगवान्हव्यवाहनः
MBh 2.28.20
तं दृष्ट्वा विस्मितो राजा जगाम शिरसा कविम्
चक्रे प्रसादं च तदा तस्य राज्ञो विभावसुः
MBh 2.28.21
वरेण छन्दयामास तं नृपं स्विष्टकृत्तमः
अभयं च स जग्राह स्वसैन्ये वै महीपतिः
MBh 2.28.22
ततः प्रभृति ये केचिदज्ञानात्तां पुरीं नृपाः
जिगीषन्ति बलाद्राजंस्ते दह्यन्तीह वह्निना
MBh 2.28.23
तस्यां पुर्यां तदा चैव माहिष्मत्यां कुरूद्वह
बभूवुरनभिग्राह्या योषितश्छन्दतः किल
MBh 2.28.24
एवमग्निर्वरं प्रादात्स्त्रीणामप्रतिवारणे
स्वैरिण्यस्तत्र नार्यो हि यथेष्टं प्रचरन्त्युत
MBh 2.28.25
वर्जयन्ति च राजानस्तद्राष्ट्रं पुरुषोत्तम
भयादग्नेर्महाराज तदा प्रभृति सर्वदा
MBh 2.28.26
सहदेवस्तु धर्मात्मा सैन्यं दृष्ट्वा भयार्दितम्
परीतमग्निना राजन्नाकम्पत यथा गिरिः
MBh 2.28.27
उपस्पृश्य शुचिर्भूत्वा सोऽब्रवीत्पावकं ततः
त्वदर्थोऽयं समारम्भः कृष्णवर्त्मन्नमोऽस्तु ते
MBh 2.28.28
मुखं त्वमसि देवानां यज्ञस्त्वमसि पावक
पावनात्पावकश्चासि वहनाद्धव्यवाहनः
MBh 2.28.29
वेदास्त्वदर्थं जाताश्च जातवेदास्ततो ह्यसि
यज्ञविघ्नमिमं कर्तुं नार्हस्त्वं हव्यवाहन
MBh 2.28.30
एवमुक्त्वा तु माद्रेयः कुशैरास्तीर्य मेदिनीम्
विधिवत्पुरुषव्याघ्रः पावकं प्रत्युपाविशत्
MBh 2.28.31
प्रमुखे सर्वसैन्यस्य भीतोद्विग्नस्य भारत
न चैनमत्यगाद्वह्निर्वेलामिव महोदधिः
MBh 2.28.32
तमभ्येत्य शनैर्वह्निरुवाच कुरुनन्दनम्
सहदेवं नृणां देवं सान्त्वपूर्वमिदं वचः
MBh 2.28.33
उत्तिष्ठोत्तिष्ठ कौरव्य जिज्ञासेयं कृता मया
वेद्मि सर्वमभिप्रायं तव धर्मसुतस्य च
MBh 2.28.34
मया तु रक्षितव्येयं पुरी भरतसत्तम
यावद्राज्ञोऽस्य नीलस्य कुलवंशधरा इति
ईप्सितं तु करिष्यामि मनसस्तव पाण्डव
MBh 2.28.35
तत उत्थाय हृष्टात्मा प्राञ्जलिः शिरसानतः
पूजयामास माद्रेयः पावकं पुरुषर्षभः
MBh 2.28.36
पावके विनिवृत्ते तु नीलो राजाभ्ययात्तदा
सत्कारेण नरव्याघ्रं सहदेवं युधां पतिम्
MBh 2.28.37
प्रतिगृह्य च तां पूजां करे च विनिवेश्य तम्
माद्रीसुतस्ततः प्रायाद्विजयी दक्षिणां दिशम्
MBh 2.28.38
त्रैपुरं स वशे कृत्वा राजानममितौजसम्
निजग्राह महाबाहुस्तरसा पोतनेश्वरम्
MBh 2.28.39
आहृतिं कौशिकाचार्यं यत्नेन महता ततः
वशे चक्रे महाबाहुः सुराष्ट्राधिपतिं तथा
MBh 2.28.40
सुराष्ट्रविषयस्थश्च प्रेषयामास रुक्मिणे
राज्ञे भोजकटस्थाय महामात्राय धीमते
MBh 2.28.41
भीष्मकाय स धर्मात्मा साक्षादिन्द्रसखाय वै
स चास्य ससुतो राजन्प्रतिजग्राह शासनम्
MBh 2.28.42
प्रीतिपूर्वं महाबाहुर्वासुदेवमवेक्ष्य च
ततः स रत्नान्यादाय पुनः प्रायाद्युधां पतिः
MBh 2.28.43
ततः शूर्पारकं चैव गणं चोपकृताह्वयम्
वशे चक्रे महातेजा दण्डकांश्च महाबलः
MBh 2.28.44
सागरद्वीपवासांश्च नृपतीन्म्लेच्छयोनिजान्
निषादान्पुरुषादांश्च कर्णप्रावरणानपि
MBh 2.28.45
ये च कालमुखा नाम नरा राक्षसयोनयः
कृत्स्नं कोल्लगिरिं चैव मुरचीपत्तनं तथा
MBh 2.28.46
द्वीपं ताम्राह्वयं चैव पर्वतं रामकं तथा
तिमिंगिलं च नृपतिं वशे चक्रे महामतिः
MBh 2.28.47
एकपादांश्च पुरुषान्केवलान्वनवासिनः
नगरीं संजयन्तीं च पिच्छण्डं करहाटकम्
दूतैरेव वशे चक्रे करं चैनानदापयत्
MBh 2.28.48
पाण्ड्यांश्च द्रविडांश्चैव सहितांश्चोड्रकेरलैः
अन्ध्रांस्तलवनांश्चैव कलिङ्गानोष्ट्रकर्णिकान्
MBh 2.28.49
अन्ताखीं चैव रोमां च यवनानां पुरं तथा
दूतैरेव वशे चक्रे करं चैनानदापयत्
MBh 2.28.50
भरुकच्छं गतो धीमान्दूतान्माद्रवतीसुतः
प्रेषयामास राजेन्द्र पौलस्त्याय महात्मने
विभीषणाय धर्मात्मा प्रीतिपूर्वमरिंदमः
MBh 2.28.51
स चास्य प्रतिजग्राह शासनं प्रीतिपूर्वकम्
तच्च कालकृतं धीमानन्वमन्यत स प्रभुः
MBh 2.28.52
ततः संप्रेषयामास रत्नानि विविधानि च
चन्दनागुरुमुख्यानि दिव्यान्याभरणानि च
MBh 2.28.53
वासांसि च महार्हाणि मणींश्चैव महाधनान्
न्यवर्तत ततो धीमान्सहदेवः प्रतापवान्
MBh 2.28.54
एवं निर्जित्य तरसा सान्त्वेन विजयेन च
करदान्पार्थिवान्कृत्वा प्रत्यागच्छदरिंदमः
MBh 2.28.55
धर्मराजाय तत्सर्वं निवेद्य भरतर्षभ
कृतकर्मा सुखं राजन्नुवास जनमेजय
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Sabhā-Parva chapter-index (72 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Sabhā-Parva Ch 27
- Next chapter · Sabhā-Parva Ch 29 →
Sources and Connected Readings
Continue from these 55 source-pinned Devanāgarī addresses to Sabhā-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 2.28local chapter route · Sabhā-ParvaSabhā-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷