🪷 Mahābhārata · Sabhā-Parva · Chapter 27

The Book of the Assembly Hall · Parva 2 · 28 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 28 Shlokas

MBh 2.27.1
वैशंपायन उवाच ततः कुमारविषये श्रेणिमन्तमथाजयत् कोसलाधिपतिं चैव बृहद्बलमरिंदमः
MBh 2.27.2
अयोध्यायां तु धर्मज्ञं दीर्घप्रज्ञं महाबलम् अजयत्पाण्डवश्रेष्ठो नातितीव्रेण कर्मणा
MBh 2.27.3
ततो गोपालकच्छं च सोत्तमानपि चोत्तरान् मल्लानामधिपं चैव पार्थिवं व्यजयत्प्रभुः
MBh 2.27.4
ततो हिमवतः पार्श्वे समभ्येत्य जरद्गवम् सर्वमल्पेन कालेन देशं चक्रे वशे बली
MBh 2.27.5
एवं बहुविधान्देशान्विजित्य पुरुषर्षभः उन्नाटमभितो जिग्ये कुक्षिमन्तं च पर्वतम् पाण्डवः सुमहावीर्यो बलेन बलिनां वरः
MBh 2.27.6
स काशिराजं समरे सुबन्धुमनिवर्तिनम् वशे चक्रे महाबाहुर्भीमो भीमपराक्रमः
MBh 2.27.7
ततः सुपार्श्वमभितस्तथा राजपतिं क्रथम् युध्यमानं बलात्संख्ये विजिग्ये पाण्डवर्षभः
MBh 2.27.8
ततो मत्स्यान्महातेजा मलयांश्च महाबलान् अनवद्यान्गयांश्चैव पशुभूमिं च सर्वशः
MBh 2.27.9
निवृत्य च महाबाहुर्मदर्वीकं महीधरम् सोपदेशं विनिर्जित्य प्रययावुत्तरामुखः वत्सभूमिं च कौन्तेयो विजिग्ये बलवान्बलात्
MBh 2.27.10
भर्गाणामधिपं चैव निषादाधिपतिं तथा विजिग्ये भूमिपालांश्च मणिमत्प्रमुखान्बहून्
MBh 2.27.11
ततो दक्षिणमल्लांश्च भोगवन्तं च पाण्डवः तरसैवाजयद्भीमो नातितीव्रेण कर्मणा
MBh 2.27.12
शर्मकान्वर्मकांश्चैव सान्त्वेनैवाजयत्प्रभुः वैदेहकं च राजानं जनकं जगतीपतिम् विजिग्ये पुरुषव्याघ्रो नातितीव्रेण कर्मणा
MBh 2.27.13
वैदेहस्थस्तु कौन्तेय इन्द्रपर्वतमन्तिकात् किरातानामधिपतीन्व्यजयत्सप्त पाण्डवः
MBh 2.27.14
ततः सुह्मान्प्राच्यसुह्मान्समक्षांश्चैव वीर्यवान् विजित्य युधि कौन्तेयो मागधानुपयाद्बली
MBh 2.27.15
दण्डं च दण्डधारं च विजित्य पृथिवीपतीन् तैरेव सहितः सर्वैर्गिरिव्रजमुपाद्रवत्
MBh 2.27.16
जारासंधिं सान्त्वयित्वा करे च विनिवेश्य ह तैरेव सहितो राजन्कर्णमभ्यद्रवद्बली
MBh 2.27.17
स कम्पयन्निव महीं बलेन चतुरङ्गिणा युयुधे पाण्डवश्रेष्ठः कर्णेनामित्रघातिना
MBh 2.27.18
स कर्णं युधि निर्जित्य वशे कृत्वा च भारत ततो विजिग्ये बलवान्राज्ञः पर्वतवासिनः
MBh 2.27.19
अथ मोदागिरिं चैव राजानं बलवत्तरम् पाण्डवो बाहुवीर्येण निजघान महामृधे
MBh 2.27.20
ततः पौण्ड्राधिपं वीरं वासुदेवं महाबलम् कौशिकीकच्छनिलयं राजानं च महौजसम्
MBh 2.27.21
उभौ बलवृतौ वीरावुभौ तीव्रपराक्रमौ निर्जित्याजौ महाराज वङ्गराजमुपाद्रवत्
MBh 2.27.22
समुद्रसेनं निर्जित्य चन्द्रसेनं च पार्थिवम् ताम्रलिप्तं च राजानं काचं वङ्गाधिपं तथा
MBh 2.27.23
सुह्मानामधिपं चैव ये च सागरवासिनः सर्वान्म्लेच्छगणांश्चैव विजिग्ये भरतर्षभः
MBh 2.27.24
एवं बहुविधान्देशान्विजित्य पवनात्मजः वसु तेभ्य उपादाय लौहित्यमगमद्बली
MBh 2.27.25
स सर्वान्म्लेच्छनृपतीन्सागरद्वीपवासिनः करमाहारयामास रत्नानि विविधानि च
MBh 2.27.26
चन्दनागुरुवस्त्राणि मणिमुक्तमनुत्तमम् काञ्चनं रजतं वज्रं विद्रुमं च महाधनम्
MBh 2.27.27
स कोटिशतसंख्येन धनेन महता तदा अभ्यवर्षदमेयात्मा धनवर्षेण पाण्डवम्
MBh 2.27.28
इन्द्रप्रस्थमथागम्य भीमो भीमपराक्रमः निवेदयामास तदा धर्मराजाय तद्धनम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 28 source-pinned Devanāgarī addresses to Sabhā-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 2.27local chapter route · Sabhā-ParvaSabhā-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷