🪷 Mahābhārata · Karṇa-Parva · Chapter 8

The Book of Karṇa · Parva 8 · 45 shlokas in canonical Devanāgarī Sanskrit

Mahābhārata Detail Source-Anchor Spine

This chapter page keeps the local Devanāgarī chapter tied to its Parva, the Mahābhārata master route, any exact Gītā cross-anchor, and the wider Vyāsa source spine.

MBh 8.8local chapter route · Karṇa-ParvaKarṇa-Parvaparent Parva chapter index/mahabharatamaster index for all 18 Parvas and 73,821 ślokasBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

The Devanāgarī Yathārtha · 45 Shlokas

MBh 8.8.1
[स] ते सेने ऽनयॊन्यम आसाद्य परहृष्टाश्वनरद्विपे बृहत्यौ संप्रजह्राते देवासुरचमूपमे
MBh 8.8.2
ततॊ गजा रथाश चाश्वाः पत्तयश च महाहवे संप्रहारं परं चक्रुर देव पाप्म परणाशनम
MBh 8.8.3
पूर्णचन्द्रार्क पद्मानां कान्ति तविड गन्धतः समैः उत्तमाङ्गैर नृसिंहानां नृसिंहास तस्तरुर महीम
MBh 8.8.4
अर्धचन्द्रैस तथा भल्लैः कषुरप्रैर असि पट्टिशैः परश्वधैश चाप्य अकृन्तन्न उत्तमाङ्गानि युध्यताम
MBh 8.8.5
वयायतायत बाहूनां वयायतायत बाहुभिः वयायता बाहवः पेतुश छिन्नमुष्ट्य आयुधाङ्गदाः
MBh 8.8.6
तैः सफुरद्भिर मही भाति रक्ताङ्गुलि तलैस तदा गरुड परहतैर उग्रैः पञ्चास्यैर इव पन्नगैः
MBh 8.8.7
हयस्यन्दन नागेभ्यः पेतुर वीरा दविषद धताः विमानेभ्यॊ यथा कषीणे पुण्ये सवर्गसदस तथा
MBh 8.8.8
गदाभिर अन्यैर गुर्वीभिः परिघैर मुसलैर अपि पॊथिताः शतशः पेतुर वीरा वीरतरै रणे
MBh 8.8.9
रथा रथैर विनिहता मत्ता मत्तैर दविपैर दविपाः सादिनः सादिभिश चैव तस्मिन परमसंकुले
MBh 8.8.10
रथा वररथैर नागैर अश्वारॊहाश च पत्तिभिः अश्वारॊहैः पदाताश च निहता युधि शेरते
MBh 8.8.11
रथाश्वपत्तयॊ नागै रथैर नागाश च पत्तयः रथपत्तिद्विपाश चाश्वैर नृभिश चाश्वरथद्विपाः
MBh 8.8.12
रथाश्वेभ नराणां च नराश्वेभ रथैः कृतम पाणिपादैश च शस्त्रैश च रथैश च कदनं महत
MBh 8.8.13
तथा तस्मिन बले शूरैर वध्यमाने हते ऽपि च अस्मान अभ्यागमन पार्था वृकॊदर पुरॊगमाः
MBh 8.8.14
धृष्टद्युम्नः शिखण्डी च दरौपदेयाः परभद्रकाः सात्यकिश चेकितानश च दरविडैः सैनिकैः सह
MBh 8.8.15
भृता वित्तेन महता पाण्ड्याश चौड्राः स केरलाः वयूढॊरस्का दीर्घभुजाः परांशवः परियदर्शनाः
MBh 8.8.16
आपीडिनॊ रक्तदन्ता मत्तमातङ्गविक्रमाः नाना विराग वसना गन्धचूर्णावचूर्णिताः
MBh 8.8.17
बद्धासयः पाशहस्ता वारणप्रतिवारणाः समानमृत्यवॊ राजन्न अनीकस्थाः परस्परम
MBh 8.8.18
कलापिनश चापहस्ता दीर्घकेशाः परियाहवाः पत्तयः सात्यकेर अन्ध्रा घॊररूपपराक्रमाः
MBh 8.8.19
अथापरे पुनः शूराश चेदिपाञ्चालकेकयाः करूषाः कॊसलाः काश्या मागधाश चापि दुद्रुवुः
MBh 8.8.20
तेषां रथाश च नागाश च परवराश चापि पत्तयः नानाविध रवैर हृष्टा नृत्यन्ति च हसन्ति च
MBh 8.8.21
तस्य सैन्यस्य महतॊ महामात्रवरैर वृतः मध्यं वृकॊदरॊ ऽभयागात तवदीयं नागधूर गतः
MBh 8.8.22
स नागप्रवरॊ ऽतयुग्रॊ विधिवत कल्पितॊ बभौ उदयाद्र्य अग्र्यभवनं यथाभ्युदित भास्करम
MBh 8.8.23
तस्यायसं वर्म वरं वररत्नविभूषितम तारॊद्भासस्य नभसः शारदस्य समत्विषम
MBh 8.8.24
स तॊमरप्रासकरश चारु मौलिः सवलंकृतः चरन मध्यंदिनार्काभस तेजसा वयदहद रिपून
MBh 8.8.25
तं दृष्ट्वा दविरदं दूरात कषेमधूर्तिर दविपस्थितः आह्वयानॊ ऽभिदुद्राव परमनाः परमनस्तरम
MBh 8.8.26
तयॊः समभवद युद्धं दविपयॊर उग्ररूपयॊः यदृच्छया दरुमवतॊर महापर्वतयॊर इव
MBh 8.8.27
संसक्तनागौ तौ वीरौ तॊमरैर इतरेतरम बलवत सूर्यरश्म्य आभैर भित्त्वा भित्त्वा विनेदतुः
MBh 8.8.28
वयपसृत्य तु नागाभ्यां मडलानि विचेरतुः परगृह्य चैव धनुषी जघ्नतुर वै परस्परम
MBh 8.8.29
कष्वेडितास्फॊटित रवैर बाणशब्दैश च सर्वशः तौ जनान हर्षयित्वा च सिंहनादान परचक्रतुः
MBh 8.8.30
समुद्यतकराभ्यां तौ दविपाभ्यां कृतिनाव उभौ वातॊद्धूत पताकाभ्यां युयुधाते महाबलौ
MBh 8.8.31
ताव अन्यॊन्यस्य धनुषी छित्त्वान्यॊन्यं विनेदतुः शक्तितॊमर वर्षेण परावृण मेघाव इवाम्बुभिः
MBh 8.8.32
कषेमधूर्तिस तदा भीमं तॊमरेण सतनान्तरे निर्बिभेद तु वेगेन षड्भिश चाप्य अपरैर नदन
MBh 8.8.33
स भीमसेनः शुशुभे तॊमरैर अङ्गमाश्रितैः करॊधदीप्तवपुर मेघैः सप्त सप्तिर इवांशुमान
MBh 8.8.34
ततॊ भास्करवर्णाभम अञ्जॊ गतिमय समयम ससर्ज तॊमरं भीमः परत्यमित्राय यत्नवान
MBh 8.8.35
ततः कुलूताधिपतिश चापम आयम्य सायकैः दशभिस तॊमरं छित्त्वा शक्त्या विव्याध पाण्डवम
MBh 8.8.36
अथ कार्मुकम आदाय महाजलद निस्वनम रिपॊर अभ्यर्दयन नागम उन्मदः पाण्डवः शरैः
MBh 8.8.37
स शरौघार्दितॊ नागॊ भीमसेनेन संयुगे निगृह्यमाणॊ नातिष्ठद वातध्वस्त इवाम्बुदः
MBh 8.8.38
ताम अभ्यधावद दविरदं भीमसेनस्य नागराट महावातेरितं मेघं वातॊद्धूत इवाम्बुदः
MBh 8.8.39
संनिवर्त्यात्मनॊ नागं कषेमधूर्तिः परयत्नतः विव्याधाभिद्रुतं बाणैर भीमसेनं स कुञ्जरम
MBh 8.8.40
ततः साधु विसृष्टेन कषुरेण पुरुषर्षभः छित्त्वा शरासनं शत्रॊर नागम आमित्रम आर्दयत
MBh 8.8.41
ततः खजा कया भीमं कषेमधूर्तिः पराभिनत जघान चास्य दविरदं नाराचैः सर्वमर्मसु
MBh 8.8.42
पुरा नागस्य पतनाद अवप्लुत्य सथितॊ महीम भीमसेनॊ रिपॊर नागं गदया समपॊथयत
MBh 8.8.43
तस्मात परमथितान नागात कषेमधूर्तिम अवद्रुतम उद्यतासिम उपायान्तं गदयाहन वृकॊदरः
MBh 8.8.44
स पपात हतः सासिर वयसुः सवम अभितॊ दविपम वज्रप्ररुग्णम अचलं सिंहॊ वज्रहतॊ यथा
MBh 8.8.45
निहतं नृपतिं दृष्ट्वा कुलूतानां यशस्करम पराद्रवद वयथिता सेना तवदीया भरतर्षभ

🪷 The Honest Framing

This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.

Navigation

🪷 जय व्यास भगवान् 🪷