🪷 Mahābhārata · Karṇa-Parva · Chapter 55

The Book of Karṇa · Parva 8 · 73 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 73 Shlokas

MBh 8.55.1
संजय उवाच श्रुत्वा च रथनिर्घोषं सिंहनादं च संयुगे अर्जुनः प्राह गोविन्दं शीघ्रं चोदय वाजिनः
MBh 8.55.2
अर्जुनस्य वचः श्रुत्वा गोविन्दोऽर्जुनमब्रवीत् एष गच्छामि सुक्षिप्रं यत्र भीमो व्यवस्थितः
MBh 8.55.3
आयान्तमश्वैर्हिमशङ्खवर्णैः; सुवर्णमुक्तामणिजालनद्धैः जम्भं जिघांसुं प्रगृहीतवज्रं; जयाय देवेन्द्रमिवोग्रमन्युम्
MBh 8.55.4
रथाश्वमातङ्गपदातिसंघा; बाणस्वनैर्नेमिखुरस्वनैश्च संनादयन्तो वसुधां दिशश्च; क्रुद्धा नृसिंहा जयमभ्युदीयुः
MBh 8.55.5
तेषां च पार्थस्य महत्तदासी;द्देहासुपाप्मक्षपणं सुयुद्धम् त्रैलोक्यहेतोरसुरैर्यथासी;द्देवस्य विष्णोर्जयतां वरस्य
MBh 8.55.6
तैरस्तमुच्चावचमायुधौघ;मेकः प्रचिच्छेद किरीटमाली क्षुरार्धचन्द्रैर्निशितैश्च बाणैः; शिरांसि तेषां बहुधा च बाहून्
MBh 8.55.7
छत्राणि वालव्यजनानि केतू;नश्वान्रथान्पत्तिगणान्द्विपांश्च ते पेतुरुर्व्यां बहुधा विरूपा; वातप्रभग्नानि यथा वनानि
MBh 8.55.8
सुवर्णजालावतता महागजाः; सवैजयन्तीध्वजयोधकल्पिताः सुवर्णपुङ्खैरिषुभिः समाचिता;श्चकाशिरे प्रज्वलिता यथाचलाः
MBh 8.55.9
विदार्य नागांश्च रथांश्च वाजिनः; शरोत्तमैर्वासववज्रसंनिभैः द्रुतं ययौ कर्णजिघांसया तथा; यथा मरुत्वान्बलभेदने पुरा
MBh 8.55.10
ततः स पुरुषव्याघ्रः सूतसैन्यमरिंदम प्रविवेश महाबाहुर्मकरः सागरं यथा
MBh 8.55.11
तं दृष्ट्वा तावका राजन्रथपत्तिसमन्विताः गजाश्वसादिबहुलाः पाण्डवं समुपाद्रवन्
MBh 8.55.12
तत्राभिद्रवतां पार्थमारावः सुमहानभूत् सागरस्येव मत्तस्य यथा स्यात्सलिलस्वनः
MBh 8.55.13
ते तु तं पुरुषव्याघ्रं व्याघ्रा इव महारथाः अभ्यद्रवन्त संग्रामे त्यक्त्वा प्राणकृतं भयम्
MBh 8.55.14
तेषामापततां तत्र शरवर्षाणि मुञ्चताम् अर्जुनो व्यधमत्सैन्यं महावातो घनानिव
MBh 8.55.15
तेऽर्जुनं सहिता भूत्वा रथवंशैः प्रहारिणः अभियाय महेष्वासा विव्यधुर्निशितैः शरैः
MBh 8.55.16
ततोऽर्जुनः सहस्राणि रथवारणवाजिनाम् प्रेषयामास विशिखैर्यमस्य सदनं प्रति
MBh 8.55.17
ते वध्यमानाः समरे पार्थचापच्युतैः शरैः तत्र तत्र स्म लीयन्ते भये जाते महारथाः
MBh 8.55.18
तेषां चतुःशतान्वीरान्यतमानान्महारथान् अर्जुनो निशितैर्बाणैरनयद्यमसादनम्
MBh 8.55.19
ते वध्यमानाः समरे नानालिङ्गैः शितैः शरैः अर्जुनं समभित्यज्य दुद्रुवुर्वै दिशो भयात्
MBh 8.55.20
तेषां शब्दो महानासीद्द्रवतां वाहिनीमुखे महौघस्येव भद्रं ते गिरिमासाद्य दीर्यतः
MBh 8.55.21
तां तु सेनां भृशं विद्ध्वा द्रावयित्वार्जुनः शरैः प्रायादभिमुखः पार्थः सूतानीकानि मारिष
MBh 8.55.22
तस्य शब्दो महानासीत्परानभिमुखस्य वै गरुडस्येव पततः पन्नगार्थे यथा पुरा
MBh 8.55.23
तं तु शब्दमभिश्रुत्य भीमसेनो महाबलः बभूव परमप्रीतः पार्थदर्शनलालसः
MBh 8.55.24
श्रुत्वैव पार्थमायान्तं भीमसेनः प्रतापवान् त्यक्त्वा प्राणान्महाराज सेनां तव ममर्द ह
MBh 8.55.25
स वायुवेगप्रतिमो वायुवेगसमो जवे वायुवद्व्यचरद्भीमो वायुपुत्रः प्रतापवान्
MBh 8.55.26
तेनार्द्यमाना राजेन्द्र सेना तव विशां पते व्यभ्राम्यत महाराज भिन्ना नौरिव सागरे
MBh 8.55.27
तां तु सेनां तदा भीमो दर्शयन्पाणिलाघवम् शरैरवचकर्तोग्रैः प्रेषयिष्यन्यमक्षयम्
MBh 8.55.28
तत्र भारत भीमस्य बलं दृष्ट्वातिमानुषम् व्यत्रस्यन्त रणे योधाः कालस्येव युगक्षये
MBh 8.55.29
तथार्दितान्भीमबलान्भीमसेनेन भारत दृष्ट्वा दुर्योधनो राजा इदं वचनमब्रवीत्
MBh 8.55.30
सैनिकान्स महेष्वासो योधांश्च भरतर्षभ समादिशद्रणे सर्वान्हत भीममिति स्म ह तस्मिन्हते हतं मन्ये सर्वसैन्यमशेषतः
MBh 8.55.31
प्रतिगृह्य च तामाज्ञां तव पुत्रस्य पार्थिवाः भीमं प्रच्छादयामासुः शरवर्षैः समन्ततः
MBh 8.55.32
गजाश्च बहुला राजन्नराश्च जयगृद्धिनः रथा हयाश्च राजेन्द्र परिवव्रुर्वृकोदरम्
MBh 8.55.33
स तैः परिवृतः शूरैः शूरो राजन्समन्ततः शुशुभे भरतश्रेष्ठ नक्षत्रैरिव चन्द्रमाः
MBh 8.55.34
स रराज तथा संख्ये दर्शनीयो नरोत्तमः निर्विशेषं महाराज यथा हि विजयस्तथा
MBh 8.55.35
तत्र ते पार्थिवाः सर्वे शरवृष्टीः समासृजन् क्रोधरक्तेक्षणाः क्रूरा हन्तुकामा वृकोदरम्
MBh 8.55.36
स विदार्य महासेनां शरैः संनतपर्वभिः निश्चक्राम रणाद्भीमो मत्स्यो जालादिवाम्भसि
MBh 8.55.37
हत्वा दश सहस्राणि गजानामनिवर्तिनाम् नृणां शतसहस्रे द्वे द्वे शते चैव भारत
MBh 8.55.38
पञ्च चाश्वसहस्राणि रथानां शतमेव च हत्वा प्रास्यन्दयद्भीमो नदीं शोणितकर्दमाम्
MBh 8.55.39
शोणितोदां रथावर्तां हस्तिग्राहसमाकुलाम् नरमीनामश्वनक्रां केशशैवलशाद्वलाम्
MBh 8.55.40
संछिन्नभुजनागेन्द्रां बहुरत्नापहारिणीम् ऊरुग्राहां मज्जपङ्कां शीर्षोपलसमाकुलाम्
MBh 8.55.41
धनुष्काशां शरावापां गदापरिघकेतनाम् योधव्रातवतीं संख्ये वहन्तीं यमसादनम्
MBh 8.55.42
क्षणेन पुरुषव्याघ्रः प्रावर्तयत निम्नगाम् यथा वैतरणीमुग्रां दुस्तरामकृतात्मभिः
MBh 8.55.43
यतो यतः पाण्डवेयः प्रवृत्तो रथसत्तमः ततस्ततोऽपातयत योधाञ्शतसहस्रशः
MBh 8.55.44
एवं दृष्ट्वा कृतं कर्म भीमसेनेन संयुगे दुर्योधनो महाराज शकुनिं वाक्यमब्रवीत्
MBh 8.55.45
जय मातुल संग्रामे भीमसेनं महाबलम् अस्मिञ्जिते जितं मन्ये पाण्डवेयं महाबलम्
MBh 8.55.46
ततः प्रायान्महाराज सौबलेयः प्रतापवान् रणाय महते युक्तो भ्रातृभिः परिवारितः
MBh 8.55.47
स समासाद्य संग्रामे भीमं भीमपराक्रमम् वारयामास तं वीरो वेलेव मकरालयम् स न्यवर्तत तं भीमो वार्यमाणः शितैः शरैः
MBh 8.55.48
शकुनिस्तस्य राजेन्द्र वामे पार्श्वे स्तनान्तरे प्रेषयामास नाराचान्रुक्मपुङ्खाञ्शिलाशितान्
MBh 8.55.49
वर्म भित्त्वा तु सौवर्णं बाणास्तस्य महात्मनः न्यमज्जन्त महाराज कङ्कबर्हिणवाससः
MBh 8.55.50
सोऽतिविद्धो रणे भीमः शरं हेमविभूषितम् प्रेषयामास सहसा सौबलं प्रति भारत
MBh 8.55.51
तमायान्तं शरं घोरं शकुनिः शत्रुतापनः चिच्छेद शतधा राजन्कृतहस्तो महाबलः
MBh 8.55.52
तस्मिन्निपतिते भूमौ भीमः क्रुद्धो विशां पते धनुश्चिच्छेद भल्लेन सौबलस्य हसन्निव
MBh 8.55.53
तदपास्य धनुश्छिन्नं सौबलेयः प्रतापवान् अन्यदादत्त वेगेन धनुर्भल्लांश्च षोडश
MBh 8.55.54
तैस्तस्य तु महाराज भल्लैः संनतपर्वभिः चतुर्भिः सारथिं ह्यार्च्छद्भीमं पञ्चभिरेव च
MBh 8.55.55
ध्वजमेकेन चिच्छेद छत्रं द्वाभ्यां विशां पते चतुर्भिश्चतुरो वाहान्विव्याध सुबलात्मजः
MBh 8.55.56
ततः क्रुद्धो महाराज भीमसेनः प्रतापवान् शक्तिं चिक्षेप समरे रुक्मदण्डामयस्मयीम्
MBh 8.55.57
सा भीमभुजनिर्मुक्ता नागजिह्वेव चञ्चला निपपात रथे तूर्णं सौबलस्य महात्मनः
MBh 8.55.58
ततस्तामेव संगृह्य शक्तिं कनकभूषणाम् भीमसेनाय चिक्षेप क्रुद्धरूपो विशां पते
MBh 8.55.59
सा निर्भिद्य भुजं सव्यं पाण्डवस्य महात्मनः पपात च ततो भूमौ यथा विद्युन्नभश्च्युता
MBh 8.55.60
अथोत्क्रुष्टं महाराज धार्तराष्ट्रैः समन्ततः न तु तं ममृषे भीमः सिंहनादं तरस्विनाम्
MBh 8.55.61
स संगृह्य धनुः सज्यं त्वरमाणो महारथः मुहूर्तादिव राजेन्द्र छादयामास सायकैः सौबलस्य बलं संख्ये त्यक्त्वात्मानं महाबलः
MBh 8.55.62
तस्याश्वांश्चतुरो हत्वा सूतं चैव विशां पते ध्वजं चिच्छेद भल्लेन त्वरमाणः पराक्रमी
MBh 8.55.63
हताश्वं रथमुत्सृज्य त्वरमाणो नरोत्तमः तस्थौ विस्फारयंश्चापं क्रोधरक्तेक्षणः श्वसन् शरैश्च बहुधा राजन्भीममार्च्छत्समन्ततः
MBh 8.55.64
प्रतिहत्य तु वेगेन भीमसेनः प्रतापवान् धनुश्चिच्छेद संक्रुद्धो विव्याध च शितैः शरैः
MBh 8.55.65
सोऽतिविद्धो बलवता शत्रुणा शत्रुकर्शनः निपपात ततो भूमौ किंचित्प्राणो नराधिप
MBh 8.55.66
ततस्तं विह्वलं ज्ञात्वा पुत्रस्तव विशां पते अपोवाह रथेनाजौ भीमसेनस्य पश्यतः
MBh 8.55.67
रथस्थे तु नरव्याघ्रे धार्तराष्ट्राः पराङ्मुखाः प्रदुद्रुवुर्दिशो भीता भीमाज्जाते महाभये
MBh 8.55.68
सौबले निर्जिते राजन्भीमसेनेन धन्विना भयेन महता भग्नः पुत्रो दुर्योधनस्तव अपायाज्जवनैरश्वैः सापेक्षो मातुलं प्रति
MBh 8.55.69
पराङ्मुखं तु राजानं दृष्ट्वा सैन्यानि भारत विप्रजग्मुः समुत्सृज्य द्वैरथानि समन्ततः
MBh 8.55.70
तान्दृष्ट्वातिरथान्सर्वान्धार्तराष्ट्रान्पराङ्मुखान् जवेनाभ्यपतद्भीमः किरञ्शरशतान्बहून्
MBh 8.55.71
ते वध्यमाना भीमेन धार्तराष्ट्राः पराङ्मुखाः कर्णमासाद्य समरे स्थिता राजन्समन्ततः स हि तेषां महावीर्यो द्वीपोऽभूत्सुमहाबलः
MBh 8.55.72
भिन्ननौका यथा राजन्द्वीपमासाद्य निर्वृताः भवन्ति पुरुषव्याघ्र नाविकाः कालपर्यये
MBh 8.55.73
तथा कर्णं समासाद्य तावका भरतर्षभ समाश्वस्ताः स्थिता राजन्संप्रहृष्टाः परस्परम् समाजग्मुश्च युद्धाय मृत्युं कृत्वा निवर्तनम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 73 source-pinned Devanāgarī addresses to Karṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 8.55local chapter route · Karṇa-ParvaKarṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷