🪷 Mahābhārata · Karṇa-Parva · Chapter 54
The Book of Karṇa · Parva 8 · 29 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 29 Shlokas
MBh 8.54.1
संजय उवाच
अथ त्विदानीं तुमुले विमर्दे; द्विषद्भिरेको बहुभिः समावृतः
महाभये सारथिमित्युवाच; भीमश्चमूं वारयन्धार्तराष्ट्रीम्
त्वं सारथे याहि जवेन वाहै;र्नयाम्येतान्धार्तराष्ट्रान्यमाय
MBh 8.54.2
संचोदितो भीमसेनेन चैवं; स सारथिः पुत्रबलं त्वदीयम्
प्रायात्ततः सारथिरुग्रवेगो; यतो भीमस्तद्बलं गन्तुमैच्छत्
MBh 8.54.3
ततोऽपरे नागरथाश्वपत्तिभिः; प्रत्युद्ययुः कुरवस्तं समन्तात्
भीमस्य वाहाग्र्यमुदारवेगं; समन्ततो बाणगणैर्निजघ्नुः
MBh 8.54.4
ततः शरानापततो महात्मा; चिच्छेद बाणैस्तपनीयपुङ्खैः
ते वै निपेतुस्तपनीयपुङ्खा; द्विधा त्रिधा भीमशरैर्निकृत्ताः
MBh 8.54.5
ततो राजन्नागरथाश्वयूनां; भीमाहतानां तव राजमध्ये
घोरो निनादः प्रबभौ नरेन्द्र; वज्राहतानामिव पर्वतानाम्
MBh 8.54.6
ते वध्यमानाश्च नरेन्द्रमुख्या; निर्भिन्ना वै भीमसेनप्रवेकैः
भीमं समन्तात्समरेऽध्यरोह;न्वृक्षं शकुन्ता इव पुष्पहेतोः
MBh 8.54.7
ततोऽभिपातं तव सैन्यमध्ये; प्रादुश्चक्रे वेगमिवात्तवेगः
यथान्तकाले क्षपयन्दिधक्षु;र्भूतान्तकृत्काल इवात्तदण्डः
MBh 8.54.8
तस्यातिवेगस्य रणेऽतिवेगं; नाशक्नुवन्धारयितुं त्वदीयाः
व्यात्ताननस्यापततो यथैव; कालस्य काले हरतः प्रजा वै
MBh 8.54.9
ततो बलं भारत भारतानां; प्रदह्यमानं समरे महात्मन्
भीतं दिशोऽकीर्यत भीमनुन्नं; महानिलेनाभ्रगणो यथैव
MBh 8.54.10
ततो धीमान्सारथिमब्रवीद्बली; स भीमसेनः पुनरेव हृष्टः
सूताभिजानीहि परान्स्वकान्वा; रथान्ध्वजांश्चापततः समेतान्
युध्यन्नहं नाभिजानामि किंचि;न्मा सैन्यं स्वं छादयिष्ये पृषत्कैः
MBh 8.54.11
अरीन्विशोकाभिनिरीक्ष्य सर्वतो; मनस्तु चिन्ता प्रदुनोति मे भृशम्
राजातुरो नागमद्यत्किरीटी; बहूनि दुःखान्यभिजातोऽस्मि सूत
MBh 8.54.12
एतद्दुःखं सारथे धर्मराजो; यन्मां हित्वा यातवाञ्शत्रुमध्ये
नैनं जीवन्नापि जानाम्यजीव;न्बीभत्सुं वा तन्ममाद्यातिदुःखम्
MBh 8.54.13
सोऽहं द्विषत्सैन्यमुदग्रकल्पं; विनाशयिष्ये परमप्रतीतः
एतान्निहत्याजिमध्ये समेता;न्प्रीतो भविष्यामि सह त्वयाद्य
MBh 8.54.14
सर्वांस्तूणीरान्मार्गणान्वान्ववेक्ष्य; किं शिष्टं स्यात्सायकानां रथे मे
का वा जातिः किं प्रमाणं च तेषां; ज्ञात्वा व्यक्तं तन्ममाचक्ष्व सूत
MBh 8.54.15
विशोक उवाच
षण्मार्गणानामयुतानि वीर; क्षुराश्च भल्लाश्च तथायुताख्याः
नाराचानां द्वे सहस्रे तु वीर; त्रीण्येव च प्रदराणां च पार्थ
MBh 8.54.16
अस्त्यायुधं पाण्डवेयावशिष्टं; न यद्वहेच्छकटं षड्गवीयम्
एतद्विद्वन्मुञ्च सहस्रशोऽपि; गदासिबाहुद्रविणं च तेऽस्ति
MBh 8.54.17
भीम उवाच
सूताद्येमं पश्य भीमप्रमुक्तैः; संभिन्दद्भिः पार्थिवानाशुवेगैः
उग्रैर्बाणैराहवं घोररूपं; नष्टादित्यं मृत्युलोकेन तुल्यम्
MBh 8.54.18
अद्यैव तद्विदितं पार्थिवानां; भविष्यति आकुमारं च सूत
निमग्नो वा समरे भीमसेन; एकः कुरून्वा समरे विजेता
MBh 8.54.19
सर्वे संख्ये कुरवो निष्पतन्तु; मां वा लोकाः कीर्तयन्त्वाकुमारम्
सर्वानेकस्तानहं पातयिष्ये; ते वा सर्वे भीमसेनं तुदन्तु
MBh 8.54.20
आशास्तारः कर्म चाप्युत्तमं वा; तन्मे देवाः केवलं साधयन्तु
आयात्विहाद्यार्जुनः शत्रुघाती; शक्रस्तूर्णं यज्ञ इवोपहूतः
MBh 8.54.21
ईक्षस्वैतां भारतीं दीर्यमाणा;मेते कस्माद्विद्रवन्ते नरेन्द्राः
व्यक्तं धीमान्सव्यसाची नराग्र्यः; सैन्यं ह्येतच्छादयत्याशु बाणैः
MBh 8.54.22
पश्य ध्वजांश्च द्रवतो विशोक; नागान्हयान्पत्तिसंघांश्च संख्ये
रथान्विशीर्णाञ्शरशक्तिताडिता;न्पश्यस्वैतान्रथिनश्चैव सूत
MBh 8.54.23
आपूर्यते कौरवी चाप्यभीक्ष्णं; सेना ह्यसौ सुभृशं हन्यमाना
धनंजयस्याशनितुल्यवेगै;र्ग्रस्ता शरैर्बर्हिसुवर्णवाजैः
MBh 8.54.24
एते द्रवन्ति स्म रथाश्वनागाः; पदातिसंघानवमर्दयन्तः
संमुह्यमानाः कौरवाः सर्व एव; द्रवन्ति नागा इव दावभीताः
हाहाकृताश्चैव रणे विशोक; मुञ्चन्ति नादान्विपुलान्गजेन्द्राः
MBh 8.54.25
विशोक उवाच
सर्वे कामाः पाण्डव ते समृद्धाः; कपिध्वजो दृश्यते हस्तिसैन्ये
नीलाद्धनाद्विद्युतमुच्चरन्तीं; तथापश्यं विस्फुरद्वै धनुस्तत्
MBh 8.54.26
कपिर्ह्यसौ वीक्ष्यते सर्वतो वै; ध्वजाग्रमारुह्य धनंजयस्य
दिवाकराभो मणिरेष दिव्यो; विभ्राजते चैव किरीटसंस्थः
MBh 8.54.27
पार्श्वे भीमं पाण्डुराभ्रप्रकाशं; पश्येमं त्वं देवदत्तं सुघोषम्
अभीशुहस्तस्य जनार्दनस्य; विगाहमानस्य चमूं परेषाम्
MBh 8.54.28
रविप्रभं वज्रनाभं क्षुरान्तं; पार्श्वे स्थितं पश्य जनार्दनस्य
चक्रं यशो वर्धयत्केशवस्य; सदार्चितं यदुभिः पश्य वीर
MBh 8.54.29
भीम उवाच
ददामि ते ग्रामवरांश्चतुर्दश; प्रियाख्याने सारथे सुप्रसन्नः
दसीशतं चापि रथांश्च विंशतिं; यदर्जुनं वेदयसे विशोक
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Karṇa-Parva chapter-index (69 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Karṇa-Parva Ch 53
- Next chapter · Karṇa-Parva Ch 55 →
Sources and Connected Readings
Continue from these 29 source-pinned Devanāgarī addresses to Karṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 8.54local chapter route · Karṇa-ParvaKarṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷