🪷 Mahābhārata · Karṇa-Parva · Chapter 5
The Book of Karṇa · Parva 8 · 110 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 110 Shlokas
MBh 8.5.1
जनमेजय उवाच
श्रुत्वा कर्णं हतं युद्धे पुत्रांश्चैवापलायिनः
नरेन्द्रः किंचिदाश्वस्तो द्विजश्रेष्ठ किमब्रवीत्
MBh 8.5.2
प्राप्तवान्परमं दुःखं पुत्रव्यसनजं महत्
तस्मिन्यदुक्तवान्काले तन्ममाचक्ष्व पृच्छतः
MBh 8.5.3
वैशंपायन उवाच
श्रुत्वा कर्णस्य निधनमश्रद्धेयमिवाद्भुतम्
भूतसंमोहनं भीमं मेरोः पर्यसनं यथा
MBh 8.5.4
चित्तमोहमिवायुक्तं भार्गवस्य महामतेः
पराजयमिवेन्द्रस्य द्विषद्भ्यो भीमकर्मणः
MBh 8.5.5
दिवः प्रपतनं भानोरुर्व्यामिव महाद्युतेः
संशोषणमिवाचिन्त्यं समुद्रस्याक्षयाम्भसः
MBh 8.5.6
महीवियद्दिगीशानां सर्वनाशमिवाद्भुतम्
कर्मणोरिव वैफल्यमुभयोः पुण्यपापयोः
MBh 8.5.7
संचिन्त्य निपुणं बुद्ध्या धृतराष्ट्रो जनेश्वरः
नेदमस्तीति संचिन्त्य कर्णस्य निधनं प्रति
MBh 8.5.8
प्राणिनामेतदात्मत्वात्स्यादपीति विनाशनम्
शोकाग्निना दह्यमानो धम्यमान इवाशयः
MBh 8.5.9
विध्वस्तात्मा श्वसन्दीनो हा हेत्युक्त्वा सुदुःखितः
विललाप महाराज धृतराष्ट्रोऽम्बिकासुतः
MBh 8.5.10
धृतराष्ट्र उवाच
संजयाधिरथो वीरः सिंहद्विरदविक्रमः
वृषमप्रतिमस्कन्धो वृषभाक्षगतिस्वनः
MBh 8.5.11
वृषभो वृषभस्येव यो युद्धे न निवर्तते
शत्रोरपि महेन्द्रस्य वज्रसंहननो युवा
MBh 8.5.12
यस्य ज्यातलशब्देन शरवृष्टिरवेण च
रथाश्वनरमातङ्गा नावतिष्ठन्ति संयुगे
MBh 8.5.13
यमाश्रित्य महाबाहुं द्विषत्संघघ्नमच्युतम्
दुर्योधनोऽकरोद्वैरं पाण्डुपुत्रैर्महाबलैः
MBh 8.5.14
स कथं रथिनां श्रेष्ठः कर्णः पार्थेन संयुगे
निहतः पुरुषव्याघ्रः प्रसह्यासह्यविक्रमः
MBh 8.5.15
यो नामन्यत वै नित्यमच्युतं न धनंजयम्
न वृष्णीनपि तानन्यान्स्वबाहुबलमाश्रितः
MBh 8.5.16
शार्ङ्गगाण्डीवधन्वानौ सहितावपराजितौ
अहं दिव्याद्रथादेकः पातयिष्यामि संयुगे
MBh 8.5.17
इति यः सततं मन्दमवोचल्लोभमोहितम्
दुर्योधनमपादीनं राज्यकामुकमातुरम्
MBh 8.5.18
यश्चाजैषीदतिबलानमित्रानपि दुर्जयान्
गान्धारान्मद्रकान्मत्स्यांस्त्रिगर्तांस्तङ्गणाञ्शकान्
MBh 8.5.19
पाञ्चालांश्च विदेहांश्च कुणिन्दान्काशिकोसलान्
सुह्मानङ्गांश्च पुण्ड्रांश्च निषादान्वङ्गकीचकान्
MBh 8.5.20
वत्सान्कलिङ्गांस्तरलानश्मकानृषिकांस्तथा
यो जित्वा समरे वीरश्चक्रे बलिभृतः पुरा
MBh 8.5.21
उच्चैःश्रवा वरोऽश्वानां राज्ञां वैश्रवणो वरः
वरो महेन्द्रो देवानां कर्णः प्रहरतां वरः
MBh 8.5.22
यं लब्ध्वा मागधो राजा सान्त्वमानार्थगौरवैः
अरौत्सीत्पार्थिवं क्षत्रमृते कौरवयादवान्
MBh 8.5.23
तं श्रुत्वा निहतं कर्णं द्वैरथे सव्यसाचिना
शोकार्णवे निमग्नोऽहमप्लवः सागरे यथा
MBh 8.5.24
ईदृशैर्यद्यहं दुःखैर्न विनश्यामि संजय
वज्राद्दृढतरं मन्ये हृदयं मम दुर्भिदम्
MBh 8.5.25
ज्ञातिसंबन्धिमित्राणामिमं श्रुत्वा पराजयम्
को मदन्यः पुमाँल्लोके न जह्यात्सूत जीवितम्
MBh 8.5.26
विषमग्निं प्रपातं वा पर्वताग्रादहं वृणे
न हि शक्ष्यामि दुःखानि सोढुं कष्टानि संजय
MBh 8.5.27
संजय उवाच
श्रिया कुलेन यशसा तपसा च श्रुतेन च
त्वामद्य सन्तो मन्यन्ते ययातिमिव नाहुषम्
MBh 8.5.28
श्रुते महर्षिप्रतिमः कृतकृत्योऽसि पार्थिव
पर्यवस्थापयात्मानं मा विषादे मनः कृथाः
MBh 8.5.29
धृतराष्ट्र उवाच
दैवमेव परं मन्ये धिक्पौरुषमनर्थकम्
यत्र रामप्रतीकाशः कर्णोऽहन्यत संयुगे
MBh 8.5.30
हत्वा युधिष्ठिरानीकं पाञ्चालानां रथव्रजान्
प्रताप्य शरवर्षेण दिशः सर्वा महारथः
MBh 8.5.31
मोहयित्वा रणे पार्थान्वज्रहस्त इवासुरान्
स कथं निहतः शेते वातरुग्ण इव द्रुमः
MBh 8.5.32
शोकस्यान्तं न पश्यामि समुद्रस्येव विप्लुकाः
चिन्ता मे वर्धते तीव्रा मुमूर्षा चापि जायते
MBh 8.5.33
कर्णस्य निधनं श्रुत्वा विजयं फल्गुनस्य च
अश्रद्धेयमहं मन्ये वधं कर्णस्य संजय
MBh 8.5.34
वज्रसारमयं नूनं हृदयं सुदृढं मम
यच्छ्रुत्वा पुरुषव्याघ्रं हतं कर्णं न दीर्यते
MBh 8.5.35
आयुर्नूनं सुदीर्घं मे विहितं दैवतैः पुरा
यत्र कर्णं हतं श्रुत्वा जीवामीह सुदुःखितः
MBh 8.5.36
धिग्जीवितमिदं मेऽद्य सुहृद्धीनस्य संजय
अद्य चाहं दशामेतां गतः संजय गर्हिताम्
कृपणं वर्तयिष्यामि शोच्यः सर्वस्य मन्दधीः
MBh 8.5.37
अहमेव पुरा भूत्वा सर्वलोकस्य सत्कृतः
परिभूतः कथं सूत पुनः शक्ष्यामि जीवितुम्
दुःखात्सुदुःखं व्यसनं प्राप्तवानस्मि संजय
MBh 8.5.38
तस्माद्भीष्मवधे चैव द्रोणस्य च महात्मनः
नात्र शेषं प्रपश्यामि सूतपुत्रे हते युधि
MBh 8.5.39
स हि पारं महानासीत्पुत्राणां मम संजय
युद्धे विनिहतः शूरो विसृजन्सायकान्बहून्
MBh 8.5.40
को हि मे जीवितेनार्थस्तमृते पुरुषर्षभम्
रथादतिरथो नूनमपतत्सायकार्दितः
MBh 8.5.41
पर्वतस्येव शिखरं वज्रपातविदारितम्
शयीत पृथिवीं नूनं शोभयन्रुधिरोक्षितः
मातङ्ग इव मत्तेन मातङ्गेन निपातितः
MBh 8.5.42
यद्बलं धार्तराष्ट्राणां पाण्डवानां यतो भयम्
सोऽर्जुनेन हतः कर्णः प्रतिमानं धनुष्मताम्
MBh 8.5.43
स हि वीरो महेष्वासः पुत्राणामभयंकरः
शेते विनिहतो वीरः शक्रेणेव यथा बलः
MBh 8.5.44
पङ्गोरिवाध्वगमनं दरिद्रस्येव कामितम्
दुर्योधनस्य चाकूतं तृषितस्येव पिप्लुकाः
MBh 8.5.45
अन्यथा चिन्तितं कार्यमन्यथा तत्तु जायते
अहो नु बलवद्दैवं कालश्च दुरतिक्रमः
MBh 8.5.46
पलायमानः कृपणं दीनात्मा दीनपौरुषः
कच्चिन्न निहतः सूत पुत्रो दुःशासनो मम
MBh 8.5.47
कच्चिन्न नीचाचरितं कृतवांस्तात संयुगे
कच्चिन्न निहतः शूरो यथा न क्षत्रिया हताः
MBh 8.5.48
युधिष्ठिरस्य वचनं मा युद्धमिति सर्वदा
दुर्योधनो नाभ्यगृह्णान्मूढः पथ्यमिवौषधम्
MBh 8.5.49
शरतल्पे शयानेन भीष्मेण सुमहात्मना
पानीयं याचितः पार्थः सोऽविध्यन्मेदिनीतलम्
MBh 8.5.50
जलस्य धारां विहितां दृष्ट्वा तां पाण्डवेन ह
अब्रवीत्स महाबाहुस्तात संशाम्य पाण्डवैः
MBh 8.5.51
प्रशमाद्धि भवेच्छान्तिर्मदन्तं युद्धमस्तु च
भ्रातृभावेन पृथिवीं भुङ्क्ष्व पाण्डुसुतैः सह
MBh 8.5.52
अकुर्वन्वचनं तस्य नूनं शोचति मे सुतः
तदिदं समनुप्राप्तं वचनं दीर्घदर्शिनः
MBh 8.5.53
अहं तु निहतामात्यो हतपुत्रश्च संजय
द्यूततः कृच्छ्रमापन्नो लूनपक्ष इव द्विजः
MBh 8.5.54
यथा हि शकुनिं गृह्य छित्त्वा पक्षौ च संजय
विसर्जयन्ति संहृष्टाः क्रीडमानाः कुमारकाः
MBh 8.5.55
छिन्नपक्षतया तस्य गमनं नोपपद्यते
तथाहमपि संप्राप्तो लूनपक्ष इव द्विजः
MBh 8.5.56
क्षीणः सर्वार्थहीनश्च निर्बन्धुर्ज्ञातिवर्जितः
कां दिशं प्रतिपत्स्यामि दीनः शत्रुवशं गतः
MBh 8.5.57
दुर्योधनस्य वृद्ध्यर्थं पृथिवीं योऽजयत्प्रभुः
स जितः पाण्डवैः शूरैः समर्थैर्वीर्यशालिभिः
MBh 8.5.58
तस्मिन्हते महेष्वासे कर्णे युधि किरीटिना
के वीराः पर्यवर्तन्त तन्ममाचक्ष्व संजय
MBh 8.5.59
कच्चिन्नैकः परित्यक्तः पाण्डवैर्निहतो रणे
उक्तं त्वया पुरा वीर यथा वीरा निपातिताः
MBh 8.5.60
भीष्ममप्रतियुध्यन्तं शिखण्डी सायकोत्तमैः
पातयामास समरे सर्वशस्त्रभृतां वरम्
MBh 8.5.61
तथा द्रौपदिना द्रोणो न्यस्तसर्वायुधो युधि
युक्तयोगो महेष्वासः शरैर्बहुभिराचितः
निहतः खड्गमुद्यम्य धृष्टद्युम्नेन संजय
MBh 8.5.62
अन्तरेण हतावेतौ छलेन च विशेषतः
अश्रौषमहमेतद्वै भीष्मद्रोणौ निपातितौ
MBh 8.5.63
भीष्मद्रोणौ हि समरे न हन्याद्वज्रभृत्स्वयम्
न्यायेन युध्यमानौ हि तद्वै सत्यं ब्रवीमि ते
MBh 8.5.64
कर्णं त्वस्यन्तमस्त्राणि दिव्यानि च बहूनि च
कथमिन्द्रोपमं वीरं मृत्युर्युद्धे समस्पृशत्
MBh 8.5.65
यस्य विद्युत्प्रभां शक्तिं दिव्यां कनकभूषणाम्
प्रायच्छद्द्विषतां हन्त्रीं कुण्डलाभ्यां पुरंदरः
MBh 8.5.66
यस्य सर्पमुखो दिव्यः शरः कनकभूषणः
अशेत निहतः पत्री चन्दनेष्वरिसूदनः
MBh 8.5.67
भीष्मद्रोणमुखान्वीरान्योऽवमन्य महारथान्
जामदग्न्यान्महाघोरं ब्राह्ममस्त्रमशिक्षत
MBh 8.5.68
यश्च द्रोणमुखान्दृष्ट्वा विमुखानर्दिताञ्शरैः
सौभद्रस्य महाबाहुर्व्यधमत्कार्मुकं शरैः
MBh 8.5.69
यश्च नागायुतप्राणं वातरंहसमच्युतम्
विरथं भ्रातरं कृत्वा भीमसेनमुपाहसत्
MBh 8.5.70
सहदेवं च निर्जित्य शरैः संनतपर्वभिः
कृपया विरथं कृत्वा नाहनद्धर्मवित्तया
MBh 8.5.71
यश्च मायासहस्राणि ध्वंसयित्वा रणोत्कटम्
घटोत्कचं राक्षसेन्द्रं शक्रशक्त्याभिजघ्निवान्
MBh 8.5.72
एतानि दिवसान्यस्य युद्धे भीतो धनंजयः
नागमद्द्वैरथं वीरः स कथं निहतो रणे
MBh 8.5.73
रथसङ्गो न चेत्तस्य धनुर्वा न व्यशीर्यत
न चेदस्त्राणि निर्णेशुः स कथं निहतः परैः
MBh 8.5.74
को हि शक्तो रणे कर्णं विधुन्वानं महद्धनुः
विमुञ्चन्तं शरान्घोरान्दिव्यान्यस्त्राणि चाहवे
जेतुं पुरुषशार्दूलं शार्दूलमिव वेगितम्
MBh 8.5.75
ध्रुवं तस्य धनुश्छिन्नं रथो वापि गतो महीम्
अस्त्राणि वा प्रनष्टानि यथा शंससि मे हतम्
न ह्यन्यदनुपश्यामि कारणं तस्य नाशने
MBh 8.5.76
न हन्यामर्जुनं यावत्तावत्पादौ न धावये
इति यस्य महाघोरं व्रतमासीन्महात्मनः
MBh 8.5.77
यस्य भीतो वने नित्यं धर्मराजो युधिष्ठिरः
त्रयोदश समा निद्रां न लेभे पुरुषर्षभः
MBh 8.5.78
यस्य वीर्यवतो वीर्यं समाश्रित्य महात्मनः
मम पुत्रः सभां भार्यां पाण्डूनां नीतवान्बलात्
MBh 8.5.79
तत्र चापि सभामध्ये पाण्डवानां च पश्यताम्
दासभार्येति पाञ्चालीमब्रवीत्कुरुसंसदि
MBh 8.5.80
यश्च गाण्डीवमुक्तानां स्पर्शमुग्रमचिन्तयन्
अपतिर्ह्यसि कृष्णेति ब्रुवन्पार्थानवैक्षत
MBh 8.5.81
यस्य नासीद्भयं पार्थैः सपुत्रैः सजनार्दनैः
स्वबाहुबलमाश्रित्य मुहूर्तमपि संजय
MBh 8.5.82
तस्य नाहं वधं मन्ये देवैरपि सवासवैः
प्रतीपमुपधावद्भिः किं पुनस्तात पाण्डवैः
MBh 8.5.83
न हि ज्यां स्पृशमानस्य तलत्रे चापि गृह्णतः
पुमानाधिरथेः कश्चित्प्रमुखे स्थातुमर्हति
MBh 8.5.84
अपि स्यान्मेदिनी हीना सोमसूर्यप्रभांशुभिः
न वधः पुरुषेन्द्रस्य समरेष्वपलायिनः
MBh 8.5.85
यदि मन्दः सहायेन भ्रात्रा दुःशासनेन च
वासुदेवस्य दुर्बुद्धिः प्रत्याख्यानमरोचयत्
MBh 8.5.86
स नूनमृषभस्कन्धं दृष्ट्वा कर्णं निपातितम्
दुःशासनं च निहतं मन्ये शोचति पुत्रकः
MBh 8.5.87
हतं वैकर्तनं श्रुत्वा द्वैरथे सव्यसाचिना
जयतः पाण्डवान्दृष्ट्वा किं स्विद्दुर्योधनोऽब्रवीत्
MBh 8.5.88
दुर्मर्षणं हतं श्रुत्वा वृषसेनं च संयुगे
प्रभग्नं च बलं दृष्ट्वा वध्यमानं महारथैः
MBh 8.5.89
पराङ्मुखांस्तथा राज्ञः पलायनपरायणान्
विद्रुतान्रथिनो दृष्ट्वा मन्ये शोचति पुत्रकः
MBh 8.5.90
अनेयश्चाभिमानेन बालबुद्धिरमर्षणः
हतोत्साहं बलं दृष्ट्वा किं स्विद्दुर्योधनोऽब्रवीत्
MBh 8.5.91
भ्रातरं निहतं दृष्ट्वा भीमसेनेन संयुगे
रुधिरं पीयमानेन किं स्विद्दुर्योधनोऽब्रवीत्
MBh 8.5.92
सह गान्धारराजेन सभायां यदभाषत
कर्णोऽर्जुनं रणे हन्ता हते तस्मिन्किमब्रवीत्
MBh 8.5.93
द्यूतं कृत्वा पुरा हृष्टो वञ्चयित्वा च पाण्डवान्
शकुनिः सौबलस्तात हते कर्णे किमब्रवीत्
MBh 8.5.94
कृतवर्मा महेष्वासः सात्वतानां महारथः
कर्णं विनिहतं दृष्ट्वा हार्दिक्यः किमभाषत
MBh 8.5.95
ब्राह्मणाः क्षत्रिया वैश्या यस्य शिक्षामुपासते
धनुर्वेदं चिकीर्षन्तो द्रोणपुत्रस्य धीमतः
MBh 8.5.96
युवा रूपेण संपन्नो दर्शनीयो महायशाः
अश्वत्थामा हते कर्णे किमभाषत संजय
MBh 8.5.97
आचार्यत्वं धनुर्वेदे गतः परमतत्त्ववित्
कृपः शारद्वतस्तात हते कर्णे किमब्रवीत्
MBh 8.5.98
मद्रराजो महेष्वासः शल्यः समितिशोभनः
दिष्टं तेन हि तत्सर्वं यथा कर्णो निपातितः
MBh 8.5.99
ये च केचन राजानः पृथिव्यां योद्धुमागताः
वैकर्तनं हतं दृष्ट्वा किमभाषन्त संजय
MBh 8.5.100
कर्णे तु निहते वीरे रथव्याघ्रे नरर्षभे
किं वो मुखमनीकानामासीत्संजय भागशः
MBh 8.5.101
मद्रराजः कथं शल्यो नियुक्तो रथिनां वरः
वैकर्तनस्य सारथ्ये तन्ममाचक्ष्व संजय
MBh 8.5.102
केऽरक्षन्दक्षिणं चक्रं सूतपुत्रस्य संयुगे
वामं चक्रं ररक्षुर्वा के वा वीरस्य पृष्ठतः
MBh 8.5.103
के कर्णं वाजहुः शूराः के क्षुद्राः प्राद्रवन्भयात्
कथं च वः समेतानां हतः कर्णो महारथः
MBh 8.5.104
पाण्डवाश्च कथं शूराः प्रत्युदीयुर्महारथम्
सृजन्तं शरवर्षाणि वारिधारा इवाम्बुदम्
MBh 8.5.105
स च सर्पमुखो दिव्यो महेषुप्रवरस्तदा
व्यर्थः कथं समभवत्तन्ममाचक्ष्व संजय
MBh 8.5.106
मामकस्यास्य सैन्यस्य हृतोत्सेधस्य संजय
अवशेषं न पश्यामि ककुदे मृदिते सति
MBh 8.5.107
तौ हि वीरौ महेष्वासौ मदर्थे कुरुसत्तमौ
भीष्मद्रोणौ हतौ श्रुत्वा को न्वर्थो जीवितेन मे
MBh 8.5.108
न मृष्यामि च राधेयं हतमाहवशोभिनम्
यस्य बाह्वोर्बलं तुल्यं कुञ्जराणां शतं शतम्
MBh 8.5.109
द्रोणे हते च यद्वृत्तं कौरवाणां परैः सह
संग्रामे नरवीराणां तन्ममाचक्ष्व संजय
MBh 8.5.110
यथा च कर्णः कौन्तेयैः सह युद्धमयोजयत्
यथा च द्विषतां हन्ता रणे शान्तस्तदुच्यताम्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Karṇa-Parva chapter-index (69 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Karṇa-Parva Ch 4
- Next chapter · Karṇa-Parva Ch 6 →
Sources and Connected Readings
Continue from these 110 source-pinned Devanāgarī addresses to Karṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 8.5local chapter route · Karṇa-ParvaKarṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷