🪷 Mahābhārata · Karṇa-Parva · Chapter 4
The Book of Karṇa · Parva 8 · 108 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 108 Shlokas
MBh 8.4.1
वैशंपायन उवाच
एतच्छ्रुत्वा महाराज धृतराष्ट्रोऽम्बिकासुतः
अब्रवीत्संजयं सूतं शोकव्याकुलचेतनः
MBh 8.4.2
दुष्प्रणीतेन मे तात मनसाभिप्लुतात्मनः
हतं वैकर्तनं श्रुत्वा शोको मर्माणि कृन्तति
MBh 8.4.3
कृतास्त्रपरमाः शल्ये दुःखपारं तितीर्षवः
कुरूणां सृञ्जयानां च के नु जीवन्ति के मृताः
MBh 8.4.4
संजय उवाच
हतः शांतनवो राजन्दुराधर्षः प्रतापवान्
हत्वा पाण्डवयोधानामर्बुदं दशभिर्दिनैः
MBh 8.4.5
ततो द्रोणो महेष्वासः पाञ्चालानां रथव्रजान्
निहत्य युधि दुर्धर्षः पश्चाद्रुक्मरथो हतः
MBh 8.4.6
हतशिष्टस्य भीष्मेण द्रोणेन च महात्मना
अर्धं निहत्य सैन्यस्य कर्णो वैकर्तनो हतः
MBh 8.4.7
विविंशतिर्महाराज राजपुत्रो महाबलः
आनर्तयोधाञ्शतशो निहत्य निहतो रणे
MBh 8.4.8
अथ पुत्रो विकर्णस्ते क्षत्रव्रतमनुस्मरन्
क्षीणवाहायुधः शूरः स्थितोऽभिमुखतः परान्
MBh 8.4.9
घोररूपान्परिक्लेशान्दुर्योधनकृतान्बहून्
प्रतिज्ञां स्मरता चैव भीमसेनेन पातितः
MBh 8.4.10
विन्दानुविन्दावावन्त्यौ राजपुत्रौ महाबलौ
कृत्वा नसुकरं कर्म गतौ वैवस्वतक्षयम्
MBh 8.4.11
सिन्धुराष्ट्रमुखानीह दश राष्ट्राणि यस्य वै
वशे तिष्ठन्ति वीरस्य यः स्थितस्तव शासने
MBh 8.4.12
अक्षौहिणीर्दशैकां च निर्जित्य निशितैः शरैः
अर्जुनेन हतो राजन्महावीर्यो जयद्रथः
MBh 8.4.13
तथा दुर्योधनसुतस्तरस्वी युद्धदुर्मदः
वर्तमानः पितुः शास्त्रे सौभद्रेण निपातितः
MBh 8.4.14
तथा दौःशासनिर्वीरो बाहुशाली रणोत्कटः
द्रौपदेयेन विक्रम्य गमितो यमसादनम्
MBh 8.4.15
किरातानामधिपतिः सागरानूपवासिनाम्
देवराजस्य धर्मात्मा प्रियो बहुमतः सखा
MBh 8.4.16
भगदत्तो महीपालः क्षत्रधर्मरतः सदा
धनंजयेन विक्रम्य गमितो यमसादनम्
MBh 8.4.17
तथा कौरवदायादः सौमदत्तिर्महायशाः
हतो भूरिश्रवा राजञ्शूरः सात्यकिना युधि
MBh 8.4.18
श्रुतायुरपि चाम्बष्ठः क्षत्रियाणां धनुर्धरः
चरन्नभीतवत्संख्ये निहतः सव्यसाचिना
MBh 8.4.19
तव पुत्रः सदा संख्ये कृतास्त्रो युद्धदुर्मदः
दुःशासनो महाराज भीमसेनेन पातितः
MBh 8.4.20
यस्य राजन्गजानीकं बहुसाहस्रमद्भुतम्
सुदक्षिणः स संग्रामे निहतः सव्यसाचिना
MBh 8.4.21
कोसलानामधिपतिर्हत्वा बहुशतान्परान्
सौभद्रेण हि विक्रम्य गमितो यमसादनम्
MBh 8.4.22
बहुशो योधयित्वा च भीमसेनं महारथः
चित्रसेनस्तव सुतो भीमसेनेन पातितः
MBh 8.4.23
मद्रराजात्मजः शूरः परेषां भयवर्धनः
असिचर्मधरः श्रीमान्सौभद्रेण निपातितः
MBh 8.4.24
समः कर्णस्य समरे यः स कर्णस्य पश्यतः
वृषसेनो महातेजाः शीघ्रास्त्रः कृतनिश्चयः
MBh 8.4.25
अभिमन्योर्वधं स्मृत्वा प्रतिज्ञामपि चात्मनः
धनंजयेन विक्रम्य गमितो यमसादनम्
MBh 8.4.26
नित्यप्रसक्तवैरो यः पाण्डवैः पृथिवीपतिः
विश्राव्य वैरं पार्थेन श्रुतायुः स निपातितः
MBh 8.4.27
शल्यपुत्रस्तु विक्रान्तः सहदेवेन मारिष
हतो रुक्मरथो राजन्भ्राता मातुलजो युधि
MBh 8.4.28
राजा भगीरथो वृद्धो बृहत्क्षत्रश्च केकयः
पराक्रमन्तौ विक्रान्तौ निहतौ वीर्यवत्तरौ
MBh 8.4.29
भगदत्तसुतो राजन्कृतप्रज्ञो महाबलः
श्येनवच्चरता संख्ये नकुलेन निपातितः
MBh 8.4.30
पितामहस्तव तथा बाह्लिकः सह बाह्लिकैः
भीमसेनेन विक्रम्य गमितो यमसादनम्
MBh 8.4.31
जयत्सेनस्तथा राजञ्जारासंधिर्महाबलः
मागधो निहतः संख्ये सौभद्रेण महात्मना
MBh 8.4.32
पुत्रस्ते दुर्मुखो राजन्दुःसहश्च महारथः
गदया भीमसेनेन निहतौ शूरमानिनौ
MBh 8.4.33
दुर्मर्षणो दुर्विषहो दुर्जयश्च महारथः
कृत्वा नसुकरं कर्म गता वैवस्वतक्षयम्
MBh 8.4.34
सचिवो वृषवर्मा ते सूतः परमवीर्यवान्
भीमसेनेन विक्रम्य गमितो यमसादनम्
MBh 8.4.35
नागायुतबलो राजा नागायुतबलो महान्
सगणः पाण्डुपुत्रेण निहतः सव्यसाचिना
MBh 8.4.36
वसातयो महाराज द्विसाहस्राः प्रहारिणः
शूरसेनाश्च विक्रान्ताः सर्वे युधि निपातिताः
MBh 8.4.37
अभीषाहाः कवचिनः प्रहरन्तो मदोत्कटाः
शिबयश्च रथोदाराः कलिङ्गसहिता हताः
MBh 8.4.38
गोकुले नित्यसंवृद्धा युद्धे परमकोविदाः
श्रेणयो बहुसाहस्राः संशप्तकगणाश्च ये
ते सर्वे पार्थमासाद्य गता वैवस्वतक्षयम्
MBh 8.4.39
स्यालौ तव महाराज राजानौ वृषकाचलौ
त्वदर्थे संपराक्रान्तौ निहतौ सव्यसाचिना
MBh 8.4.40
उग्रकर्मा महेष्वासो नामतः कर्मतस्तथा
शाल्वराजो महाराज भीमसेनेन पातितः
MBh 8.4.41
ओघवांश्च महाराज बृहन्तः सहितो रणे
पराक्रमन्तौ मित्रार्थे गतौ वैवस्वतक्षयम्
MBh 8.4.42
तथैव रथिनां श्रेष्ठः क्षेमधूर्तिर्विशां पते
निहतो गदया राजन्भीमसेनेन संयुगे
MBh 8.4.43
तथा राजा महेष्वासो जलसंधो महाबलः
सुमहत्कदनं कृत्वा हतः सात्यकिना रणे
MBh 8.4.44
अलायुधो राक्षसेन्द्रः खरबन्धुरयानगः
घटोत्कचेन विक्रम्य गमितो यमसादनम्
MBh 8.4.45
राधेयाः सूतपुत्राश्च भ्रातरश्च महारथाः
केकयाः सर्वशश्चापि निहताः सव्यसाचिना
MBh 8.4.46
मालवा मद्रकाश्चैव द्रविडाश्चोग्रविक्रमाः
यौधेयाश्च ललित्थाश्च क्षुद्रकाश्चाप्युशीनराः
MBh 8.4.47
मावेल्लकास्तुण्डिकेराः सावित्रीपुत्रकाञ्चलाः
प्राच्योदीच्याः प्रतीच्याश्च दाक्षिणात्याश्च मारिष
MBh 8.4.48
पत्तीनां निहताः संघा हयानामयुतानि च
रथव्रजाश्च निहता हताश्च वरवारणाः
MBh 8.4.49
सध्वजाः सायुधाः शूराः सवर्माम्बरभूषणाः
कालेन महता यत्ताः कुले ये च विवर्धिताः
MBh 8.4.50
ते हताः समरे राजन्पार्थेनाक्लिष्टकर्मणा
अन्ये तथामितबलाः परस्परवधैषिणः
MBh 8.4.51
एते चान्ये च बहवो राजानः सगणा रणे
हताः सहस्रशो राजन्यन्मां त्वं परिपृच्छसि
एवमेष क्षयो वृत्तः कर्णार्जुनसमागमे
MBh 8.4.52
महेन्द्रेण यथा वृत्रो यथा रामेण रावणः
यथा कृष्णेन निहतो मुरो रणनिपातितः
कार्तवीर्यश्च रामेण भार्गवेण हतो यथा
MBh 8.4.53
सज्ञातिबान्धवः शूरः समरे युद्धदुर्मदः
रणे कृत्वा महायुद्धं घोरं त्रैलोक्यविश्रुतम्
MBh 8.4.54
तथार्जुनेन निहतो द्वैरथे युद्धदुर्मदः
सामात्यबान्धवो राजन्कर्णः प्रहरतां वरः
MBh 8.4.55
जयाशा धार्तराष्ट्राणां वैरस्य च मुखं यतः
तीर्णं तत्पाण्डवै राजन्यत्पुरा नावबुध्यसे
MBh 8.4.56
उच्यमानो महाराज बन्धुभिर्हितकाङ्क्षिभिः
तदिदं समनुप्राप्तं व्यसनं त्वां महात्ययम्
MBh 8.4.57
पुत्राणां राज्यकामानां त्वया राजन्हितैषिणा
अहितानीव चीर्णानि तेषां ते फलमागतम्
MBh 8.4.58
धृतराष्ट्र उवाच
आख्याता मामकास्तात निहता युधि पाण्डवैः
निहतान्पाण्डवेयानां मामकैर्ब्रूहि संजय
MBh 8.4.59
संजय उवाच
कुन्तयो युधि विक्रान्ता महासत्त्वा महाबलाः
सानुबन्धाः सहामात्या भीष्मेण युधि पातिताः
MBh 8.4.60
समः किरीटिना संख्ये वीर्येण च बलेन च
सत्यजित्सत्यसंधेन द्रोणेन निहतो रणे
MBh 8.4.61
तथा विराटद्रुपदौ वृद्धौ सहसुतौ नृपौ
पराक्रमन्तौ मित्रार्थे द्रोणेन निहतौ रणे
MBh 8.4.62
यो बाल एव समरे संमितः सव्यसाचिना
केशवेन च दुर्धर्षो बलदेवेन चाभिभूः
MBh 8.4.63
स एष कदनं कृत्वा महद्रणविशारदः
परिवार्य महामात्रैः षड्भिः परमकै रथैः
अशक्नुवद्भिर्बीभत्सुमभिमन्युर्निपातितः
MBh 8.4.64
तं कृतं विरथं वीरं क्षत्रधर्मे व्यवस्थितम्
दौःशासनिर्महाराज सौभद्रं हतवान्रणे
MBh 8.4.65
बृहन्तस्तु महेष्वासः कृतास्त्रो युद्धदुर्मदः
दुःशासनेन विक्रम्य गमितो यमसादनम्
MBh 8.4.66
मणिमान्दण्डधारश्च राजानौ युद्धदुर्मदौ
पराक्रमन्तौ मित्रार्थे द्रोणेन विनिपातितौ
MBh 8.4.67
अंशुमान्भोजराजस्तु सहसैन्यो महारथः
भारद्वाजेन विक्रम्य गमितो यमसादनम्
MBh 8.4.68
चित्रायुधश्चित्रयोधी कृत्वा तौ कदनं महत्
चित्रमार्गेण विक्रम्य कर्णेन निहतौ युधि
MBh 8.4.69
वृकोदरसमो युद्धे दृढः केकयजो युधि
केकयेनैव विक्रम्य भ्रात्रा भ्राता निपातितः
MBh 8.4.70
जनमेजयो गदायोधी पार्वतीयः प्रतापवान्
दुर्मुखेन महाराज तव पुत्रेण पातितः
MBh 8.4.71
रोचमानौ नरव्याघ्रौ रोचमानौ ग्रहाविव
द्रोणेन युगपद्राजन्दिवं संप्रेषितौ शरैः
MBh 8.4.72
नृपाश्च प्रतियुध्यन्तः पराक्रान्ता विशां पते
कृत्वा नसुकरं कर्म गता वैवस्वतक्षयम्
MBh 8.4.73
पुरुजित्कुन्तिभोजश्च मातुलः सव्यसाचिनः
संग्रामनिर्जिताँल्लोकान्गमितो द्रोणसायकैः
MBh 8.4.74
अभिभूः काशिराजश्च काशिकैर्बहुभिर्वृतः
वसुदानस्य पुत्रेण न्यासितो देहमाहवे
MBh 8.4.75
अमितौजा युधामन्युरुत्तमौजाश्च वीर्यवान्
निहत्य शतशः शूरान्परैर्विनिहतौ रणे
MBh 8.4.76
क्षत्रधर्मा च पाञ्चाल्यः क्षत्रवर्मा च मारिष
द्रोणेन परमेष्वासौ गमितौ यमसादनम्
MBh 8.4.77
शिखण्डितनयो युद्धे क्षत्रदेवो युधां पतिः
लक्ष्मणेन हतो राजंस्तव पौत्रेण भारत
MBh 8.4.78
सुचित्रश्चित्रधर्मा च पितापुत्रौ महारथौ
प्रचरन्तौ महावीर्यौ द्रोणेन निहतौ रणे
MBh 8.4.79
वार्धक्षेमिर्महाराज कृत्वा कदनमाहवे
बाह्लिकेन महाराज कौरवेण निपातितः
MBh 8.4.80
धृष्टकेतुर्महाराज चेदीनां प्रवरो रथः
कृत्वा नसुकरं कर्म गतो वैवस्वतक्षयम्
MBh 8.4.81
तथा सत्यधृतिस्तात कृत्वा कदनमाहवे
पाण्डवार्थे पराक्रान्तो गमितो यमसादनम्
MBh 8.4.82
पुत्रस्तु शिशुपालस्य सुकेतुः पृथिवीपते
निहत्य शात्रवान्संख्ये द्रोणेन निहतो युधि
MBh 8.4.83
तथा सत्यधृतिर्वीरो मदिराश्वश्च वीर्यवान्
सूर्यदत्तश्च विक्रान्तो निहतो द्रोणसायकैः
MBh 8.4.84
श्रेणिमांश्च महाराज युध्यमानः पराक्रमी
कृत्वा नसुकरं कर्म गतो वैवस्वतक्षयम्
MBh 8.4.85
तथैव युधि विक्रान्तो मागधः परवीरहा
भीष्मेण निहतो राजन्युध्यमानः पराक्रमी
MBh 8.4.86
वसुदानश्च कदनं कुर्वाणोऽतीव संयुगे
भारद्वाजेन विक्रम्य गमितो यमसादनम्
MBh 8.4.87
एते चान्ये च बहवः पाण्डवानां महारथाः
हता द्रोणेन विक्रम्य यन्मां त्वं परिपृच्छसि
MBh 8.4.88
धृतराष्ट्र उवाच
हतप्रवीरे सैन्येऽस्मिन्मामके वदतां वर
अहताञ्शंस मे सूत येऽत्र जीवन्ति केचन
MBh 8.4.89
एतेषु निहतेष्वद्य ये त्वया परिकीर्तिताः
अहतान्मन्यसे यांस्त्वं तेऽपि स्वर्गजितो मताः
MBh 8.4.90
संजय उवाच
यस्मिन्महास्त्राणि समर्पितानि; चित्राणि शुभ्राणि चतुर्विधानि
दिव्यानि राजन्निहितानि चैव; द्रोणेन वीरद्विजसत्तमेन
MBh 8.4.91
महारथः कृतिमान्क्षिप्रहस्तो; दृढायुधो दृढमुष्टिर्दृढेषुः
स वीर्यवान्द्रोणपुत्रस्तरस्वी; व्यवस्थितो योद्धुकामस्त्वदर्थे
MBh 8.4.92
आनर्तवासी हृदिकात्मजोऽसौ; महारथः सात्वतानां वरिष्ठः
स्वयं भोजः कृतवर्मा कृतास्त्रो; व्यवस्थितो योद्धुकामस्त्वदर्थे
MBh 8.4.93
शारद्वतो गौतमश्चापि राज;न्महाबलो बहुचित्रास्त्रयोधी
धनुश्चित्रं सुमहद्भारसाहं; व्यवस्थितो योत्स्यमानः प्रगृह्य
MBh 8.4.94
आर्तायनिः समरे दुष्प्रकम्प्यः; सेनाग्रणीः प्रथमस्तावकानाम्
स्वस्रेयांस्तान्पाण्डवेयान्विसृज्य; सत्यां वाचं तां चिकीर्षुस्तरस्वी
MBh 8.4.95
तेजोवधं सूतपुत्रस्य संख्ये; प्रतिश्रुत्वाजातशत्रोः पुरस्तात्
दुराधर्षः शक्रसमानवीर्यः; शल्यः स्थितो योद्धुकामस्त्वदर्थे
MBh 8.4.96
आजानेयैः सैन्धवैः पार्वतीयै;र्नदीजकाम्बोजवनायुबाह्लिकैः
गान्धारराजः स्वबलेन युक्तो; व्यवस्थितो योद्धुकामस्त्वदर्थे
MBh 8.4.97
तथा सुतस्ते ज्वलनार्कवर्णं; रथं समास्थाय कुरुप्रवीर
व्यवस्थितः कुरुमित्रो नरेन्द्र; व्यभ्रे सूर्यो भ्राजमानो यथा वै
MBh 8.4.98
दुर्योधनो नागकुलस्य मध्ये; महावीर्यः सह सैन्यप्रवीरैः
रथेन जाम्बूनदभूषणेन; व्यवस्थितः समरे योद्धुकामः
MBh 8.4.99
स राजमध्ये पुरुषप्रवीरो; रराज जाम्बूनदचित्रवर्मा
पद्मप्रभो वह्निरिवाल्पधूमो; मेघान्तरे सूर्य इव प्रकाशः
MBh 8.4.100
तथा सुषेणोऽप्यसिचर्मपाणि;स्तवात्मजः सत्यसेनश्च वीरः
व्यवस्थितौ चित्रसेनेन सार्धं; हृष्टात्मानौ समरे योद्धुकामौ
MBh 8.4.101
ह्रीनिषेधा भरता राजपुत्रा;श्चित्रायुधः श्रुतकर्मा जयश्च
शलश्च सत्यव्रतदुःशलौ च; व्यवस्थिता बलिनो योद्धुकामाः
MBh 8.4.102
कैतव्यानामधिपः शूरमानी; रणे रणे शत्रुहा राजपुत्रः
पत्री हयी नागरथप्रयायी; व्यवस्थितो योद्धुकामस्त्वदर्थे
MBh 8.4.103
वीरः श्रुतायुश्च श्रुतायुधश्च; चित्राङ्गदश्चित्रवर्मा स वीरः
व्यवस्थिता ये तु सैन्ये नराग्र्याः; प्रहारिणो मानिनः सत्यसंधाः
MBh 8.4.104
कर्णात्मजः सत्यसेनो महात्मा; व्यवस्थितः समरे योद्धुकामः
अथापरौ कर्णसुतौ वरार्हौ; व्यवस्थितौ लघुहस्तौ नरेन्द्र
बलं महद्दुर्भिदमल्पधैर्यैः; समाश्रितौ योत्स्यमानौ त्वदर्थे
MBh 8.4.105
एतैश्च मुख्यैरपरैश्च राज;न्योधप्रवीरैरमितप्रभावैः
व्यवस्थितो नागकुलस्य मध्ये; यथा महेन्द्रः कुरुराजो जयाय
MBh 8.4.106
धृतराष्ट्र उवाच
आख्याता जीवमाना ये परेभ्योऽन्ये यथातथम्
इतीदमभिगच्छामि व्यक्तमर्थाभिपत्तितः
MBh 8.4.107
वैशंपायन उवाच
एवं ब्रुवन्नेव तदा धृतराष्ट्रोऽम्बिकासुतः
हतप्रवीरं विध्वस्तं किंचिच्छेषं स्वकं बलम्
श्रुत्वा व्यामोहमगमच्छोकव्याकुलितेन्द्रियः
MBh 8.4.108
मुह्यमानोऽब्रवीच्चापि मुहूर्तं तिष्ठ संजय
व्याकुलं मे मनस्तात श्रुत्वा सुमहदप्रियम्
नष्टचित्तस्ततः सोऽथ बभूव जगतीपतिः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Karṇa-Parva chapter-index (69 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Karṇa-Parva Ch 3
- Next chapter · Karṇa-Parva Ch 5 →
Sources and Connected Readings
Continue from these 108 source-pinned Devanāgarī addresses to Karṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 8.4local chapter route · Karṇa-ParvaKarṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷