🪷 Mahābhārata · Karṇa-Parva · Chapter 43
The Book of Karṇa · Parva 8 · 78 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 78 Shlokas
MBh 8.43.1
संजय उवाच
एतस्मिन्नन्तरे कृष्णः पार्थं वचनमब्रवीत्
दर्शयन्निव कौन्तेयं धर्मराजं युधिष्ठिरम्
MBh 8.43.2
एष पाण्डव ते भ्राता धार्तराष्ट्रैर्महाबलैः
जिघांसुभिर्महेष्वासैर्द्रुतं पार्थानुसर्यते
MBh 8.43.3
तथानुयान्ति संरब्धाः पाञ्चाला युद्धदुर्मदाः
युधिष्ठिरं महात्मानं परीप्सन्तो महाजवाः
MBh 8.43.4
एष दुर्योधनः पार्थ रथानीकेन दंशितः
राजा सर्वस्य लोकस्य राजानमनुधावति
MBh 8.43.5
जिघांसुः पुरुषव्याघ्रं भ्रातृभिः सहितो बली
आशीविषसमस्पर्शैः सर्वयुद्धविशारदैः
MBh 8.43.6
एते जिघृक्षवो यान्ति द्विपाश्वरथपत्तयः
युधिष्ठिरं धार्तराष्ट्रा रत्नोत्तममिवार्थिनः
MBh 8.43.7
पश्य सात्वतभीमाभ्यां निरुद्धाधिष्ठितः प्रभुः
जिहीर्षवोऽमृतं दैत्याः शक्राग्निभ्यामिवावशाः
MBh 8.43.8
एते बहुत्वात्त्वरिताः पुनर्गच्छन्ति पाण्डवम्
समुद्रमिव वार्योघाः प्रावृट्काले महारथाः
MBh 8.43.9
नदन्तः सिंहनादांश्च धमन्तश्चापि वारिजान्
बलवन्तो महेष्वासा विधुन्वन्तो धनूंषि च
MBh 8.43.10
मृत्योर्मुखगतं मन्ये कुन्तीपुत्रं युधिष्ठिरम्
हुतमग्नौ च भद्रं ते दुर्योधनवशं गतम्
MBh 8.43.11
यथायुक्तमनीकं हि धार्तराष्ट्रस्य पाण्डव
नास्य शक्रोऽपि मुच्येत संप्राप्तो बाणगोचरम्
MBh 8.43.12
दुर्योधनस्य शूरस्य द्रौणेः शारद्वतस्य च
कर्णस्य चेषुवेगो वै पर्वतानपि दारयेत्
MBh 8.43.13
दुर्योधनस्य शूरस्य शरौघाञ्शीघ्रमस्यतः
संक्रुद्धस्यान्तकस्येव को वेगं संसहेद्रणे
MBh 8.43.14
कर्णेन च कृतो राजा विमुखः शत्रुतापनः
बलवाँल्लघुहस्तश्च कृती युद्धविशारदः
MBh 8.43.15
राधेयः पाण्डवश्रेष्ठं शक्तः पीडयितुं रणे
सहितो धृतराष्ट्रस्य पुत्रैः शूरो महात्मभिः
MBh 8.43.16
तस्यैवं युध्यमानस्य संग्रामे संयतात्मनः
अन्यैरपि च पार्थस्य हृतं वर्म महारथैः
MBh 8.43.17
उपवासकृशो राजा भृशं भरतसत्तम
ब्राह्मे बले स्थितो ह्येष न क्षत्रेऽतिबले विभो
MBh 8.43.18
न जीवति महाराजो मन्ये पार्थ युधिष्ठिरः
यद्भीमसेनः सहते सिंहनादममर्षणः
MBh 8.43.19
नर्दतां धार्तराष्ट्राणां पुनः पुनररिंदम
धमतां च महाशङ्खान्संग्रामे जितकाशिनाम्
MBh 8.43.20
युधिष्ठिरं पाण्डवेयं हतेति भरतर्षभ
संचोदयत्यसौ कर्णो धार्तराष्ट्रान्महाबलान्
MBh 8.43.21
स्थूणाकर्णेन्द्रजालेन पार्थ पाशुपतेन च
प्रच्छादयन्तो राजानमनुयान्ति महारथाः
आतुरो मे मतो राजा संनिषेव्यश्च भारत
MBh 8.43.22
यथैनमनुवर्तन्ते पाञ्चालाः सह पाण्डवैः
त्वरमाणास्त्वराकाले सर्वशस्त्रभृतां वराः
मज्जन्तमिव पाताले बलिनोऽप्युज्जिहीर्षवः
MBh 8.43.23
न केतुर्दृश्यते राज्ञः कर्णेन निहतः शरैः
पश्यतोर्यमयोः पार्थ सात्यकेश्च शिखण्डिनः
MBh 8.43.24
धृष्टद्युम्नस्य भीमस्य शतानीकस्य वा विभो
पाञ्चालानां च सर्वेषां चेदीनां चैव भारत
MBh 8.43.25
एष कर्णो रणे पार्थ पाण्डवानामनीकिनीम्
शरैर्विध्वंसयति वै नलिनीमिव कुञ्जरः
MBh 8.43.26
एते द्रवन्ति रथिनस्त्वदीयाः पाण्डुनन्दन
पश्य पश्य यथा पार्थ गच्छन्त्येते महारथाः
MBh 8.43.27
एते भारत मातङ्गाः कर्णेनाभिहता रणे
आर्तनादान्विकुर्वाणा विद्रवन्ति दिशो दश
MBh 8.43.28
रथानां द्रवतां वृन्दं पश्य पार्थ समन्ततः
द्राव्यमाणं रणे चैव कर्णेनामित्रकर्शिना
MBh 8.43.29
हस्तिकक्ष्यां रणे पश्य चरन्तीं तत्र तत्र ह
रथस्थं सूतपुत्रस्य केतुं केतुमतां वर
MBh 8.43.30
असौ धावति राधेयो भीमसेनरथं प्रति
किरञ्शरशतानीव विनिघ्नंस्तव वाहिनीम्
MBh 8.43.31
एतान्पश्य च पाञ्चालान्द्राव्यमाणान्महात्मना
शक्रेणेव यथा दैत्यान्हन्यमानान्महाहवे
MBh 8.43.32
एष कर्णो रणे जित्वा पाञ्चालान्पाण्डुसृञ्जयान्
दिशो विप्रेक्षते सर्वास्त्वदर्थमिति मे मतिः
MBh 8.43.33
पश्य पार्थ धनुः श्रेष्ठं विकर्षन्साधु शोभते
शत्रूञ्जित्वा यथा शक्रो देवसंघैः समावृतः
MBh 8.43.34
एते नदन्ति कौरव्या दृष्ट्वा कर्णस्य विक्रमम्
त्रासयन्तो रणे पार्थान्सृञ्जयांश्च सहस्रशः
MBh 8.43.35
एष सर्वात्मना पाण्डूंस्त्रासयित्वा महारणे
अभिभाषति राधेयः सर्वसैन्यानि मानदः
MBh 8.43.36
अभिद्रवत गच्छध्वं द्रुतं द्रवत कौरवाः
यथा जीवन्न वः कश्चिन्मुच्यते युधि सृञ्जयः
MBh 8.43.37
तथा कुरुत संयत्ता वयं यास्याम पृष्ठतः
एवमुक्त्वा ययावेष पृष्ठतो विकिरञ्शरैः
MBh 8.43.38
पश्य कर्णं रणे पार्थ श्वेतच्छविविराजितम्
उदयं पर्वतं यद्वच्छोभयन्वै दिवाकरः
MBh 8.43.39
पूर्णचन्द्रनिकाशेन मूर्ध्नि छत्रेण भारत
ध्रियमाणेन समरे तथा शतशलाकिना
MBh 8.43.40
एष त्वां प्रेक्षते कर्णः सकटाक्षो विशां पते
उत्तमं यत्नमास्थाय ध्रुवमेष्यति संयुगे
MBh 8.43.41
पश्य ह्येनं महाबाहो विधुन्वानं महद्धनुः
शरांश्चाशीविषाकारान्विसृजन्तं महाबलम्
MBh 8.43.42
असौ निवृत्तो राधेयो दृश्यते वानरध्वज
वधाय चात्मनोऽभ्येति दीपस्य शलभो यथा
MBh 8.43.43
कर्णमेकाकिनं दृष्ट्वा रथानीकेन भारत
रिरक्षिषुः सुसंयत्तो धार्तराष्ट्रोऽभिवर्तते
MBh 8.43.44
सार्वैः सहैभिर्दुष्टात्मा वध्य एष प्रयत्नतः
त्वया यशश्च राज्यं च सुखं चोत्तममिच्छता
MBh 8.43.45
आत्मानं च कृतात्मानं समीक्ष्य भरतर्षभ
कृतागसं च राधेयं धर्मात्मनि युधिष्ठिरे
MBh 8.43.46
प्रतिपद्यस्व राधेयं प्राप्तकालमनन्तरम्
आर्यां युद्धे मतिं कृत्वा प्रत्येहि रथयूथपम्
MBh 8.43.47
पञ्च ह्येतानि मुख्यानां रथानां रथसत्तम
शतान्यायान्ति वेगेन बलिनां भीमतेजसाम्
MBh 8.43.48
पञ्च नागसहस्राणि द्विगुणा वाजिनस्तथा
अभिसंहत्य कौन्तेय पदातिप्रयुतानि च
अन्योन्यरक्षितं वीर बलं त्वामभिवर्तते
MBh 8.43.49
सूतपुत्रे महेष्वासे दर्शयात्मानमात्मना
उत्तमं यत्नमास्थाय प्रत्येहि भरतर्षभ
MBh 8.43.50
असौ कर्णः सुसंरब्धः पाञ्चालानभिधावति
केतुमस्य हि पश्यामि धृष्टद्युम्नरथं प्रति
समुच्छेत्स्यति पाञ्चालानिति मन्ये परंतप
MBh 8.43.51
आचक्षे ते प्रियं पार्थ तदेवं भरतर्षभ
राजा जीवति कौरव्यो धर्मपुत्रो युधिष्ठिरः
MBh 8.43.52
असौ भीमो महाबाहुः संनिवृत्तश्चमूमुखे
वृतः सृञ्जयसैन्येन सात्यकेन च भारत
MBh 8.43.53
वध्यन्त एते समरे कौरवा निशितैः शरैः
भीमसेनेन कौन्तेय पाञ्चालैश्च महात्मभिः
MBh 8.43.54
सेना हि धार्तराष्ट्रस्य विमुखा चाभवद्रणात्
विप्रधावति वेगेन भीमस्य निहता शरैः
MBh 8.43.55
विपन्नसस्येव मही रुधिरेण समुक्षिता
भारती भरतश्रेष्ठ सेना कृपणदर्शना
MBh 8.43.56
निवृत्तं पश्य कौन्तेय भीमसेनं युधां पतिम्
आशीविषमिव क्रुद्धं तस्माद्द्रवति वाहिनी
MBh 8.43.57
पीतरक्तासितसितास्ताराचन्द्रार्कमण्डिताः
पताका विप्रकीर्यन्ते छत्राण्येतानि चार्जुन
MBh 8.43.58
सौवर्णा राजताश्चैव तैजसाश्च पृथग्विधाः
केतवो विनिपात्यन्ते हस्त्यश्वं विप्रकीर्यते
MBh 8.43.59
रथेभ्यः प्रपतन्त्येते रथिनो विगतासवः
नानावर्णैर्हता बाणैः पाञ्चालैरपलायिभिः
MBh 8.43.60
निर्मनुष्यान्गजानश्वान्रथांश्चैव धनंजय
समाद्रवन्ति पाञ्चाला धार्तराष्ट्रांस्तरस्विनः
MBh 8.43.61
मृद्नन्ति च नरव्याघ्रा भीमसेनव्यपाश्रयात्
बलं परेषां दुर्धर्षं त्यक्त्वा प्राणानरिंदम
MBh 8.43.62
एते नदन्ति पाञ्चाला धमन्त्यपि च वारिजान्
अभिद्रवन्ति च रणे निघ्नन्तः सायकैः परान्
MBh 8.43.63
पश्य स्वर्गस्य माहात्म्यं पाञ्चाला हि परंतप
धार्तराष्ट्रान्विनिघ्नन्ति क्रुद्धाः सिंहा इव द्विपान्
MBh 8.43.64
सर्वतश्चाभिपन्नैषा धार्तराष्ट्री महाचमूः
पाञ्चालैर्मानसादेत्य हंसैर्गङ्गेव वेगितैः
MBh 8.43.65
सुभृशं च पराक्रान्ताः पाञ्चालानां निवारणे
कृपकर्णादयो वीरा ऋषभाणामिवर्षभाः
MBh 8.43.66
सुनिमग्नांश्च भीमास्त्रैर्धार्तराष्ट्रान्महारथान्
धृष्टद्युम्नमुखा वीरा घ्नन्ति शत्रून्सहस्रशः
विषण्णभूयिष्ठरथा धार्तराष्ट्री महाचमूः
MBh 8.43.67
पश्य भीमेन नाराचैश्छिन्ना नागाः पतन्त्यमी
वज्रिवज्राहतानीव शिखराणि महीभृताम्
MBh 8.43.68
भीमसेनस्य निर्विद्धा बाणैः संनतपर्वभिः
स्वान्यनीकानि मृद्नन्तो द्रवन्त्येते महागजाः
MBh 8.43.69
नाभिजानासि भीमस्य सिंहनादं दुरुत्सहम्
नदतोऽर्जुन संग्रामे वीरस्य जितकाशिनः
MBh 8.43.70
एष नैषादिरभ्येति द्विपमुख्येन पाण्डवम्
जिघांसुस्तोमरैः क्रुद्धो दण्डपाणिरिवान्तकः
MBh 8.43.71
सतोमरावस्य भुजौ छिन्नौ भीमेन गर्जतः
तीक्ष्णैरग्निशिखाप्रख्यैर्नाराचैर्दशभिर्हतः
MBh 8.43.72
हत्वैनं पुनरायाति नागानन्यान्प्रहारिणः
पश्य नीलाम्बुदनिभान्महामात्रैरधिष्ठितान्
शक्तितोमरसंकाशैर्विनिघ्नन्तं वृकोदरम्
MBh 8.43.73
सप्त सप्त च नागांस्तान्वैजयन्तीश्च सध्वजाः
निहत्य निशितैर्बाणैश्छिन्नाः पार्थाग्रजेन ते
दशभिर्दशभिश्चैको नाराचैर्निहतो गजः
MBh 8.43.74
न चासौ धार्तराष्ट्राणां श्रूयते निनदस्तथा
पुरंदरसमे क्रुद्धे निवृत्ते भरतर्षभे
MBh 8.43.75
अक्षौहिण्यस्तथा तिस्रो धार्तराष्ट्रस्य संहताः
क्रुद्धेन नरसिंहेन भीमसेनेन वारिताः
MBh 8.43.76
संजय उवाच
भीमसेनेन तत्कर्म कृतं दृष्ट्वा सुदुष्करम्
अर्जुनो व्यधमच्छिष्टानहितान्निशितैः शरैः
MBh 8.43.77
ते वध्यमानाः समरे संशप्तकगणाः प्रभो
शक्रस्यातिथितां गत्वा विशोका ह्यभवन्मुदा
MBh 8.43.78
पार्थश्च पुरुषव्याघ्रः शरैः संनतपर्वभिः
जघान धार्तराष्ट्रस्य चतुर्विधबलां चमूम्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Karṇa-Parva chapter-index (69 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Karṇa-Parva Ch 42
- Next chapter · Karṇa-Parva Ch 44 →
Sources and Connected Readings
Continue from these 78 source-pinned Devanāgarī addresses to Karṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 8.43local chapter route · Karṇa-ParvaKarṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷