🪷 Mahābhārata · Karṇa-Parva · Chapter 42

The Book of Karṇa · Parva 8 · 57 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 57 Shlokas

MBh 8.42.1
संजय उवाच ततः पुनः समाजग्मुरभीताः कुरुसृञ्जयाः युधिष्ठिरमुखाः पार्था वैकर्तनमुखा वयम्
MBh 8.42.2
ततः प्रववृते भीमः संग्रामो लोमहर्षणः कर्णस्य पाण्डवानां च यमराष्ट्रविवर्धनः
MBh 8.42.3
तस्मिन्प्रवृत्ते संग्रामे तुमुले शोणितोदके संशप्तकेषु शूरेषु किंचिच्छिष्टेषु भारत
MBh 8.42.4
धृष्टद्युम्नो महाराज सहितः सर्वराजभिः कर्णमेवाभिदुद्राव पाण्डवाश्च महारथाः
MBh 8.42.5
आगच्छमानांस्तान्संख्ये प्रहृष्टान्विजयैषिणः दधारैको रणे कर्णो जलौघानिव पर्वतः
MBh 8.42.6
तमासाद्य तु ते कर्णं व्यशीर्यन्त महारथाः यथाचलं समासाद्य जलौघाः सर्वतोदिशम् तयोरासीन्महाराज संग्रामो लोमहर्षणः
MBh 8.42.7
धृष्टद्युम्नस्तु राधेयं शरेण नतपर्वणा ताडयामास संक्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत्
MBh 8.42.8
विजयं तु धनुःश्रेष्ठं विधुन्वानो महारथः पार्षतस्य धनुश्छित्त्वा शरानाशीविषोपमान् ताडयामास संक्रुद्धः पार्षतं नवभिः शरैः
MBh 8.42.9
ते वर्म हेमविकृतं भित्त्वा तस्य महात्मनः शोणिताक्ता व्यराजन्त शक्रगोपा इवानघ
MBh 8.42.10
तदपास्य धनुश्छिन्नं धृष्टद्युम्नो महारथः अन्यद्धनुरुपादाय शरांश्चाशीविषोपमान् कर्णं विव्याध सप्तत्या शरैः संनतपर्वभिः
MBh 8.42.11
तथैव राजन्कर्णोऽपि पार्षतं शत्रुतापनम् द्रोणशत्रुं महेष्वासो विव्याध निशितैः शरैः
MBh 8.42.12
तस्य कर्णो महाराज शरं कनकभूषणम् प्रेषयामास संक्रुद्धो मृत्युदण्डमिवापरम्
MBh 8.42.13
तमापतन्तं सहसा घोररूपं विशां पते चिच्छेद सप्तधा राजञ्शैनेयः कृतहस्तवत्
MBh 8.42.14
दृष्ट्वा विनिहितं बाणं शरैः कर्णो विशां पते सात्यकिं शरवर्षेण समन्तात्पर्यवारयत्
MBh 8.42.15
विव्याध चैनं समरे नाराचैस्तत्र सप्तभिः तं प्रत्यविध्यच्छैनेयः शरैर्हेमविभूषितैः
MBh 8.42.16
ततो युद्धमतीवासीच्चक्षुःश्रोत्रभयावहम् राजन्घोरं च चित्रं च प्रेक्षणीयं समन्ततः
MBh 8.42.17
सर्वेषां तत्र भूतानां लोमहर्षो व्यजायत तद्दृष्ट्वा समरे कर्म कर्णशैनेययोर्नृप
MBh 8.42.18
एतस्मिन्नन्तरे द्रौणिरभ्ययात्सुमहाबलम् पार्षतं शत्रुदमनं शत्रुवीर्यासुनाशनम्
MBh 8.42.19
अभ्यभाषत संक्रुद्धो द्रौणिर्दूरे धनंजये तिष्ठ तिष्ठाद्य ब्रह्मघ्न न मे जीवन्विमोक्ष्यसे
MBh 8.42.20
इत्युक्त्वा सुभृशं वीरः शीघ्रकृन्निशितैः शरैः पार्षतं छादयामास घोररूपैः सुतेजनैः यतमानं परं शक्त्या यतमानो महारथः
MBh 8.42.21
यथा हि समरे द्रौणिः पार्षतं वीक्ष्य मारिष तथा द्रौणिं रणे दृष्ट्वा पार्षतः परवीरहा नातिहृष्टमना भूत्वा मन्यते मृत्युमात्मनः
MBh 8.42.22
द्रौणिस्तु दृष्ट्वा राजेन्द्र धृष्टद्युम्नं रणे स्थितम् क्रोधेन निःश्वसन्वीरः पार्षतं समुपाद्रवत् तावन्योन्यं तु दृष्ट्वैव संरम्भं जग्मतुः परम्
MBh 8.42.23
अथाब्रवीन्महाराज द्रोणपुत्रः प्रतापवान् धृष्टद्युम्नं समीपस्थं त्वरमाणो विशां पते पाञ्चालापसदाद्य त्वां प्रेषयिष्यामि मृत्यवे
MBh 8.42.24
पापं हि यत्त्वया कर्म घ्नता द्रोणं पुरा कृतम् अद्य त्वा पत्स्यते तद्वै यथा ह्यकुशलं तथा
MBh 8.42.25
अरक्ष्यमाणः पार्थेन यदि तिष्ठसि संयुगे नापक्रमसि वा मूढ सत्यमेतद्ब्रवीमि ते
MBh 8.42.26
एवमुक्तः प्रत्युवाच धृष्टद्युम्नः प्रतापवान् प्रतिवाक्यं स एवासिर्मामको दास्यते तव येनैव ते पितुर्दत्तं यतमानस्य संयुगे
MBh 8.42.27
यदि तावन्मया द्रोणो निहतो ब्राह्मणब्रुवः त्वामिदानीं कथं युद्धे न हनिष्यामि विक्रमात्
MBh 8.42.28
एवमुक्त्वा महाराज सेनापतिरमर्षणः निशितेनाथ बाणेन द्रौणिं विव्याध पार्षतः
MBh 8.42.29
ततो द्रौणिः सुसंक्रुद्धः शरैः संनतपर्वभिः प्राच्छादयद्दिशो राजन्धृष्टद्युम्नस्य संयुगे
MBh 8.42.30
नैवान्तरिक्षं न दिशो नैव योधाः समन्ततः दृश्यन्ते वै महाराज शरैश्छन्नाः सहस्रशः
MBh 8.42.31
तथैव पार्षतो राजन्द्रौणिमाहवशोभिनम् शरैः संछादयामास सूतपुत्रस्य पश्यतः
MBh 8.42.32
राधेयोऽपि महाराज पाञ्चालान्सह पाण्डवैः द्रौपदेयान्युधामन्युं सात्यकिं च महारथम् एकः स वारयामास प्रेक्षणीयः समन्ततः
MBh 8.42.33
धृष्टद्युम्नोऽपि समरे द्रौणेश्चिच्छेद कार्मुकम् तदपास्य धनुश्छिन्नमन्यदादत्त कार्मुकम् वेगवत्समरे घोरं शरांश्चाशीविषोपमान्
MBh 8.42.34
स पार्षतस्य राजेन्द्र धनुः शक्तिं गदां ध्वजम् हयान्सूतं रथं चैव निमेषाद्व्यधमच्छरैः
MBh 8.42.35
स छिन्नधन्वा विरथो हताश्वो हतसारथिः खड्गमादत्त विपुलं शतचन्द्रं च भानुमत्
MBh 8.42.36
द्रौणिस्तदपि राजेन्द्र भल्लैः क्षिप्रं महारथः चिच्छेद समरे वीरः क्षिप्रहस्तो दृढायुधः रथादनवरूढस्य तदद्भुतमिवाभवत्
MBh 8.42.37
धृष्टद्युम्नं तु विरथं हताश्वं छिन्नकार्मुकम् शरैश्च बहुधा विद्धमस्त्रैश्च शकलीकृतम् नातरद्भरतश्रेष्ठ यतमानो महारथः
MBh 8.42.38
तस्यान्तमिषुभी राजन्यदा द्रौणिर्न जग्मिवान् अथ त्यक्त्वा धनुर्वीरः पार्षतं त्वरितोऽन्वगात्
MBh 8.42.39
आसीदाद्रवतो राजन्वेगस्तस्य महात्मनः गरुडस्येव पततो जिघृक्षोः पन्नगोत्तमम्
MBh 8.42.40
एतस्मिन्नेव काले तु माधवोऽर्जुनमब्रवीत् पश्य पार्थ यथा द्रौणिः पार्षतस्य वधं प्रति यत्नं करोति विपुलं हन्याच्चैनमसंशयम्
MBh 8.42.41
तं मोचय महाबाहो पार्षतं शत्रुतापनम् द्रौणेरास्यमनुप्राप्तं मृत्योरास्यगतं यथा
MBh 8.42.42
एवमुक्त्वा महाराज वासुदेवः प्रतापवान् प्रैषयत्तत्र तुरगान्यत्र द्रौणिर्व्यवस्थितः
MBh 8.42.43
ते हयाश्चन्द्रसंकाशाः केशवेन प्रचोदिताः पिबन्त इव तद्व्योम जग्मुर्द्रौणिरथं प्रति
MBh 8.42.44
दृष्ट्वायान्तौ महावीर्यावुभौ कृष्णधनंजयौ धृष्टद्युम्नवधे राजंश्चक्रे यत्नं महाबलः
MBh 8.42.45
विकृष्यमाणं दृष्ट्वैव धृष्टद्युम्नं जनेश्वर शरांश्चिक्षेप वै पार्थो द्रौणिं प्रति महाबलः
MBh 8.42.46
ते शरा हेमविकृता गाण्डीवप्रेषिता भृशम् द्रौणिमासाद्य विविशुर्वल्मीकमिव पन्नगाः
MBh 8.42.47
स विध्वस्तैः शरैर्घोरैर्द्रोणपुत्रः प्रतापवान् रथमारुरुहे वीरो धनंजयशरार्दितः प्रगृह्य च धनुः श्रेष्ठं पार्थं विव्याध सायकैः
MBh 8.42.48
एतस्मिन्नन्तरे वीरः सहदेवो जनाधिप अपोवाह रथेनाजौ पार्षतं शत्रुतापनम्
MBh 8.42.49
अर्जुनोऽपि महाराज द्रौणिं विव्याध पत्रिभिः तं द्रोणपुत्रः संक्रुद्धो बाह्वोरुरसि चार्दयत्
MBh 8.42.50
क्रोधितस्तु रणे पार्थो नाराचं कालसंमितम् द्रोणपुत्राय चिक्षेप कालदण्डमिवापरम् स ब्राह्मणस्यांसदेशे निपपात महाद्युतिः
MBh 8.42.51
स विह्वलो महाराज शरवेगेन संयुगे निषसाद रथोपस्थे वैक्लव्यं च परं ययौ
MBh 8.42.52
ततः कर्णो महाराज व्याक्षिपद्विजयं धनुः अर्जुनं समरे क्रुद्धः प्रेक्षमाणो मुहुर्मुहुः द्वैरथं चापि पार्थेन कामयानो महारणे
MBh 8.42.53
तं तु हित्वा हतं वीरं सारथिः शत्रुकर्शनम् अपोवाह रथेनाजौ त्वरमाणो रणाजिरात्
MBh 8.42.54
अथोत्क्रुष्टं महाराज पाञ्चालैर्जितकाशिभिः मोक्षितं पार्षतं दृष्ट्वा द्रोणपुत्रं च पीडितम्
MBh 8.42.55
वादित्राणि च दिव्यानि प्रावाद्यन्त सहस्रशः सिंहनादश्च संजज्ञे दृष्ट्वा घोरं महाद्भुतम्
MBh 8.42.56
एवं कृत्वाब्रवीत्पार्थो वासुदेवं धनंजयः याहि संशप्तकान्कृष्ण कार्यमेतत्परं मम
MBh 8.42.57
ततः प्रयातो दाशार्हः श्रुत्वा पाण्डवभाषितम् रथेनातिपताकेन मनोमारुतरंहसा

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 57 source-pinned Devanāgarī addresses to Karṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 8.42local chapter route · Karṇa-ParvaKarṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷