🪷 Mahābhārata · Karṇa-Parva · Chapter 40
The Book of Karṇa · Parva 8 · 130 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 130 Shlokas
MBh 8.40.1
संजय उवाच
भीमसेनं सपाञ्चाल्यं चेदिकेकयसंवृतम्
वैकर्तनः स्वयं रुद्ध्वा वारयामास सायकैः
MBh 8.40.2
ततस्तु चेदिकारूषान्सृञ्जयांश्च महारथान्
कर्णो जघान संक्रुद्धो भीमसेनस्य पश्यतः
MBh 8.40.3
भीमसेनस्ततः कर्णं विहाय रथसत्तमम्
प्रययौ कौरवं सैन्यं कक्षमग्निरिव ज्वलन्
MBh 8.40.4
सूतपुत्रोऽपि समरे पाञ्चालान्केकयांस्तथा
सृञ्जयांश्च महेष्वासान्निजघान सहस्रशः
MBh 8.40.5
संशप्तकेषु पार्थश्च कौरवेषु वृकोदरः
पाञ्चालेषु तथा कर्णः क्षयं चक्रूर्महारथाः
MBh 8.40.6
ते क्षत्रिया दह्यमानास्त्रिभिस्तैः पावकोपमैः
जग्मुर्विनाशं समरे राजन्दुर्मन्त्रिते तव
MBh 8.40.7
ततो दुर्योधनः क्रुद्धो नकुलं नवभिः शरैः
विव्याध भरतश्रेष्ठ चतुरश्चास्य वाजिनः
MBh 8.40.8
ततः पुनरमेयात्मा तव पुत्रो जनाधिपः
क्षुरेण सहदेवस्य ध्वजं चिच्छेद काञ्चनम्
MBh 8.40.9
नकुलस्तु ततः क्रुद्धस्तव पुत्रं त्रिसप्तभिः
जघान समरे राजन्सहदेवश्च पञ्चभिः
MBh 8.40.10
तावुभौ भरतश्रेष्ठौ श्रेष्ठौ सर्वधनुष्मताम्
विव्याधोरसि संक्रुद्धः पञ्चभिः पञ्चभिः शरैः
MBh 8.40.11
ततोऽपराभ्यां भल्लाभ्यां धनुषी समकृन्तत
यमयोः प्रहसन्राजन्विव्याधैव च सप्तभिः
MBh 8.40.12
तावन्ये धनुषी श्रेष्ठे शक्रचापनिभे शुभे
प्रगृह्य रेजतुः शूरौ देवपुत्रसमौ युधि
MBh 8.40.13
ततस्तौ रभसौ युद्धे भ्रातरौ भ्रातरं नृप
शरैर्ववर्षतुर्घोरैर्महामेघौ यथाचलम्
MBh 8.40.14
ततः क्रुद्धो महाराज तव पुत्रो महारथः
पाण्डुपुत्रौ महेष्वासौ वारयामास पत्रिभिः
MBh 8.40.15
धनुर्मण्डलमेवास्य दृश्यते युधि भारत
सायकाश्चैव दृश्यन्ते निश्चरन्तः समन्ततः
MBh 8.40.16
तस्य सायकसंछन्नौ चकाशेतां च पाण्डवौ
मेघच्छन्नौ यथा व्योम्नि चन्द्रसूर्यौ हतप्रभौ
MBh 8.40.17
ते तु बाणा महाराज हेमपुङ्खाः शिलाशिताः
आच्छादयन्दिशः सर्वाः सूर्यस्येवांशवस्तदा
MBh 8.40.18
बाणभूते ततस्तस्मिन्संछन्ने च नभस्तले
यमाभ्यां ददृशे रूपं कालान्तकयमोपमम्
MBh 8.40.19
पराक्रमं तु तं दृष्ट्वा तव सूनोर्महारथाः
मृत्योरुपान्तिकं प्राप्तौ माद्रीपुत्रौ स्म मेनिरे
MBh 8.40.20
ततः सेनापती राजन्पाण्डवस्य महात्मनः
पार्षतः प्रययौ तत्र यत्र राजा सुयोधनः
MBh 8.40.21
माद्रीपुत्रौ ततः शूरौ व्यतिक्रम्य महारथौ
धृष्टद्युम्नस्तव सुतं ताडयामास सायकैः
MBh 8.40.22
तमविध्यदमेयात्मा तव पुत्रोऽत्यमर्षणः
पाञ्चाल्यं पञ्चविंशत्या प्रहस्य पुरुषर्षभ
MBh 8.40.23
ततः पुनरमेयात्मा पुत्रस्ते पृथिवीपते
विद्ध्वा ननाद पाञ्चाल्यं षष्ट्या पञ्चभिरेव च
MBh 8.40.24
अथास्य सशरं चापं हस्तावापं च मारिष
क्षुरप्रेण सुतीक्ष्णेन राजा चिच्छेद संयुगे
MBh 8.40.25
तदपास्य धनुश्छिन्नं पाञ्चाल्यः शत्रुकर्शनः
अन्यदादत्त वेगेन धनुर्भारसहं नवम्
MBh 8.40.26
प्रज्वलन्निव वेगेन संरम्भाद्रुधिरेक्षणः
अशोभत महेष्वासो धृष्टद्युम्नः कृतव्रणः
MBh 8.40.27
स पञ्चदश नाराचाञ्श्वसतः पन्नगानिव
जिघांसुर्भरतश्रेष्ठं धृष्टद्युम्नो व्यवासृजत्
MBh 8.40.28
ते वर्म हेमविकृतं भित्त्वा राज्ञः शिलाशिताः
विविशुर्वसुधां वेगात्कङ्कबर्हिणवाससः
MBh 8.40.29
सोऽतिविद्धो महाराज पुत्रस्तेऽतिव्यराजत
वसन्ते पुष्पशबलः सपुष्प इव किंशुकः
MBh 8.40.30
स छिन्नवर्मा नाराचैः प्रहारैर्जर्जरच्छविः
धृष्टद्युम्नस्य भल्लेन क्रुद्धश्चिच्छेद कार्मुकम्
MBh 8.40.31
अथैनं छिन्नधन्वानं त्वरमाणो महीपतिः
सायकैर्दशभी राजन्भ्रुवोर्मध्ये समार्दयत्
MBh 8.40.32
तस्य तेऽशोभयन्वक्त्रं कर्मारपरिमार्जिताः
प्रफुल्लं चम्पकं यद्वद्भ्रमरा मधुलिप्सवः
MBh 8.40.33
तदपास्य धनुश्छिन्नं धृष्टद्युम्नो महामनाः
अन्यदादत्त वेगेन धनुर्भल्लांश्च षोडश
MBh 8.40.34
ततो दुर्योधनस्याश्वान्हत्वा सूतं च पञ्चभिः
धनुश्चिच्छेद भल्लेन जातरूपपरिष्कृतम्
MBh 8.40.35
रथं सोपस्करं छत्रं शक्तिं खड्गं गदां ध्वजम्
भल्लैश्चिच्छेद नवभिः पुत्रस्य तव पार्षतः
MBh 8.40.36
तपनीयाङ्गदं चित्रं नागं मणिमयं शुभम्
ध्वजं कुरुपतेश्छिन्नं ददृशुः सर्वपार्थिवाः
MBh 8.40.37
दुर्योधनं तु विरथं छिन्नसर्वायुधं रणे
भ्रातरः पर्यरक्षन्त सोदर्या भरतर्षभ
MBh 8.40.38
तमारोप्य रथे राजन्दण्डधारो जनाधिपम्
अपोवाह च संभ्रान्तो धृष्टद्युम्नस्य पश्यतः
MBh 8.40.39
कर्णस्तु सात्यकिं जित्वा राजगृद्धी महाबलः
द्रोणहन्तारमुग्रेषुं ससाराभिमुखं रणे
MBh 8.40.40
तं पृष्ठतोऽभ्ययात्तूर्णं शैनेयो वितुदञ्शरैः
वारणं जघनोपान्ते विषाणाभ्यामिव द्विपः
MBh 8.40.41
स भारत महानासीद्योधानां सुमहात्मनाम्
कर्णपार्षतयोर्मध्ये त्वदीयानां महारणः
MBh 8.40.42
न पाण्डवानां नास्माकं योधः कश्चित्पराङ्मुखः
प्रत्यदृश्यत यत्कर्णः पाञ्चालांस्त्वरितो ययौ
MBh 8.40.43
तस्मिन्क्षणे नरश्रेष्ठ गजवाजिनरक्षयः
प्रादुरासीदुभयतो राजन्मध्यंगतेऽहनि
MBh 8.40.44
पाञ्चालास्तु महाराज त्वरिता विजिगीषवः
सर्वतोऽभ्यद्रवन्कर्णं पतत्रिण इव द्रुमम्
MBh 8.40.45
तेषामाधिरथिः क्रुद्धो यतमानान्मनस्विनः
विचिन्वन्नेव बाणाग्रैः समासादयदग्रतः
MBh 8.40.46
व्याघ्रकेतुं सुशर्माणं शङ्कुं चोग्रं धनंजयम्
शुक्लं च रोचमानं च सिंहसेनं च दुर्जयम्
MBh 8.40.47
ते वीरा रथवेगेन परिवव्रुर्नरोत्तमम्
सृजन्तं सायकान्क्रुद्धं कर्णमाहवशोभिनम्
MBh 8.40.48
युध्यमानांस्तु ताञ्शूरान्मनुजेन्द्रः प्रतापवान्
अष्टाभिरष्टौ राधेयो न्यहनन्निशितैः शरैः
MBh 8.40.49
अथापरान्महाराज सूतपुत्रः प्रतापवान्
जघान बहुसाहस्रान्योधान्युद्धविशारदः
MBh 8.40.50
विष्णुं च विष्णुकर्माणं देवापिं भद्रमेव च
दण्डं च समरे राजंश्चित्रं चित्रायुधं हरिम्
MBh 8.40.51
सिंहकेतुं रोचमानं शलभं च महारथम्
निजघान सुसंक्रुद्धश्चेदीनां च महारथान्
MBh 8.40.52
तेषामाददतः प्राणानासीदाधिरथेर्वपुः
शोणिताभ्युक्षिताङ्गस्य रुद्रस्येवोर्जितं महत्
MBh 8.40.53
तत्र भारत कर्णेन मातङ्गास्ताडिताः शरैः
सर्वतोऽभ्यद्रवन्भीताः कुर्वन्तो महदाकुलम्
MBh 8.40.54
निपेतुरुर्व्यां समरे कर्णसायकपीडिताः
कुर्वन्तो विविधान्नादान्वज्रनुन्ना इवाचलाः
MBh 8.40.55
गजवाजिमनुष्यैश्च निपतद्भिः समन्ततः
रथैश्चावगतैर्मार्गे पर्यस्तीर्यत मेदिनी
MBh 8.40.56
नैव भीष्मो न च द्रोणो नाप्यन्ये युधि तावकाः
चक्रुः स्म तादृशं कर्म यादृशं वै कृतं रणे
MBh 8.40.57
सूतपुत्रेण नागेषु रथेषु च हयेषु च
नरेषु च नरव्याघ्र कृतं स्म कदनं महत्
MBh 8.40.58
मृगमध्ये यथा सिंहो दृश्यते निर्भयश्चरन्
पाञ्चालानां तथा मध्ये कर्णोऽचरदभीतवत्
MBh 8.40.59
यथा मृगगणांस्त्रस्तान्सिंहो द्रावयते दिशः
पाञ्चालानां रथव्रातान्कर्णो द्रावयते तथा
MBh 8.40.60
सिंहास्यं च यथा प्राप्य न जीवन्ति मृगाः क्वचित्
तथा कर्णमनुप्राप्य न जीवन्ति महारथाः
MBh 8.40.61
वैश्वानरं यथा दीप्तं दह्यन्ते प्राप्य वै जनाः
कर्णाग्निना रणे तद्वद्दग्धा भारत सृञ्जयाः
MBh 8.40.62
कर्णेन चेदिष्वेकेन पाञ्चालेषु च भारत
विश्राव्य नाम निहता बहवः शूरसंमताः
MBh 8.40.63
मम चासीन्मनुष्येन्द्र दृष्ट्वा कर्णस्य विक्रमम्
नैकोऽप्याधिरथेर्जीवन्पाञ्चाल्यो मोक्ष्यते युधि
MBh 8.40.64
पाञ्चालान्विधमन्संख्ये सूतपुत्रः प्रतापवान्
अभ्यधावत संक्रुद्धो धर्मपुत्रं युधिष्ठिरम्
MBh 8.40.65
धृष्टद्युम्नश्च राजानं द्रौपदेयाश्च मारिष
परिवव्रुरमित्रघ्नं शतशश्चापरे जनाः
MBh 8.40.66
शिखण्डी सहदेवश्च नकुलो नाकुलिस्तथा
जनमेजयः शिनेर्नप्ता बहवश्च प्रभद्रकाः
MBh 8.40.67
एते पुरोगमा भूत्वा धृष्टद्युम्नस्य संयुगे
कर्णमस्यन्तमिष्वस्त्रैर्विचेरुरमितौजसः
MBh 8.40.68
तांस्तत्राधिरथिः संख्ये चेदिपाञ्चालपाण्डवान्
एको बहूनभ्यपतद्गरुत्मन्पन्नगानिव
MBh 8.40.69
भीमसेनस्तु संक्रुद्धः कुरून्मद्रान्सकेकयान्
एकः संख्ये महेष्वासो योधयन्बह्वशोभत
MBh 8.40.70
तत्र मर्मसु भीमेन नाराचैस्ताडिता गजाः
प्रपतन्तो हतारोहाः कम्पयन्ति स्म मेदिनीम्
MBh 8.40.71
वाजिनश्च हतारोहाः पत्तयश्च गतासवः
शेरते युधि निर्भिन्ना वमन्तो रुधिरं बहु
MBh 8.40.72
सहस्रशश्च रथिनः पतिताः पतितायुधाः
अक्षताः समदृश्यन्त भीमाद्भीता गतासवः
MBh 8.40.73
रथिभिर्वाजिभिः सूतैः पत्तिभिश्च तथा गजैः
भीमसेनशरच्छिन्नैरास्तीर्णा वसुधाभवत्
MBh 8.40.74
तत्स्तम्भितमिवातिष्ठद्भीमसेनबलार्दितम्
दुर्योधनबलं राजन्निरुत्साहं कृतव्रणम्
MBh 8.40.75
निश्चेष्टं तुमुले दीनं बभौ तस्मिन्महारणे
प्रसन्नसलिलः काले यथा स्यात्सागरो नृप
MBh 8.40.76
मन्युवीर्यबलोपेतं बलात्पर्यवरोपितम्
अभवत्तव पुत्रस्य तत्सैन्यमिषुभिस्तदा
रुधिरौघपरिक्लिन्नं रुधिरार्द्रं बभूव ह
MBh 8.40.77
सूतपुत्रो रणे क्रुद्धः पाण्डवानामनीकिनीम्
भीमसेनः कुरूंश्चापि द्रावयन्बह्वशोभत
MBh 8.40.78
वर्तमाने तथा रौद्रे संग्रामेऽद्भुतदर्शने
निहत्य पृतनामध्ये संशप्तकगणान्बहून्
MBh 8.40.79
अर्जुनो जयतां श्रेष्ठो वासुदेवमथाब्रवीत्
प्रभग्नं बलमेतद्धि योत्स्यमानं जनार्दन
MBh 8.40.80
एते धावन्ति सगणाः संशप्तकमहारथाः
अपारयन्तो मद्बाणान्सिंहशब्दान्मृगा इव
MBh 8.40.81
दीर्यते च महत्सैन्यं सृञ्जयानां महारणे
हस्तिकक्ष्यो ह्यसौ कृष्ण केतुः कर्णस्य धीमतः
दृश्यते राजसैन्यस्य मध्ये विचरतो मुहुः
MBh 8.40.82
न च कर्णं रणे शक्ता जेतुमन्ये महारथाः
जानीते हि भवान्कर्णं वीर्यवन्तं पराक्रमे
MBh 8.40.83
तत्र याहि यतः कर्णो द्रावयत्येष नो बलम्
MBh 8.40.84
वर्जयित्वा रणे याहि सूतपुत्रं महारथम्
श्रमो मा बाधते कृष्ण यथा वा तव रोचते
MBh 8.40.85
एतच्छ्रुत्वा महाराज गोविन्दः प्रहसन्निव
अब्रवीदर्जुनं तूर्णं कौरवाञ्जहि पाण्डव
MBh 8.40.86
ततस्तव महत्सैन्यं गोविन्दप्रेरिता हयाः
हंसवर्णाः प्रविविशुर्वहन्तः कृष्णपाण्डवौ
MBh 8.40.87
केशवप्रहितैरश्वैः श्वेतैः काञ्चनभूषणैः
प्रविशद्भिस्तव बलं चतुर्दिशमभिद्यत
MBh 8.40.88
तौ विदार्य महासेनां प्रविष्टौ केशवार्जुनौ
क्रुद्धौ संरम्भरक्ताक्षौ व्यभ्राजेतां महाद्युती
MBh 8.40.89
युद्धशौण्डौ समाहूतावरिभिस्तौ रणाध्वरम्
यज्वभिर्विधिनाहूतौ मखे देवाविवाश्विनौ
MBh 8.40.90
क्रुद्धौ तौ तु नरव्याघ्रौ वेगवन्तौ बभूवतुः
तलशब्देन रुषितौ यथा नागौ महाहवे
MBh 8.40.91
विगाहन्स रथानीकमश्वसंघांश्च फल्गुनः
व्यचरत्पृतनामध्ये पाशहस्त इवान्तकः
MBh 8.40.92
तं दृष्ट्वा युधि विक्रान्तं सेनायां तव भारत
संशप्तकगणान्भूयः पुत्रस्ते समचोदयत्
MBh 8.40.93
ततो रथसहस्रेण द्विरदानां त्रिभिः शतैः
चतुर्दशसहस्रैश्च तुरगाणां महाहवे
MBh 8.40.94
द्वाभ्यां शतसहस्राभ्यां पदातीनां च धन्विनाम्
शूराणां नामलब्धानां विदितानां समन्ततः
अभ्यवर्तन्त तौ वीरौ छादयन्तो महारथाः
MBh 8.40.95
स छाद्यमानः समरे शरैः परबलार्दनः
दर्शयन्रौद्रमात्मानं पाशहस्त इवान्तकः
निघ्नन्संशप्तकान्पार्थः प्रेक्षणीयतरोऽभवत्
MBh 8.40.96
ततो विद्युत्प्रभैर्बाणैः कार्तस्वरविभूषितैः
निरन्तरमिवाकाशमासीन्नुन्नैः किरीटिना
MBh 8.40.97
किरीटिभुजनिर्मुक्तैः संपतद्भिर्महाशरैः
समाच्छन्नं बभौ सर्वं काद्रवेयैरिव प्रभो
MBh 8.40.98
रुक्मपुङ्खान्प्रसन्नाग्राञ्शरान्संनतपर्वणः
अदर्शयदमेयात्मा दिक्षु सर्वासु पाण्डवः
MBh 8.40.99
हत्वा दश सहस्राणि पार्थिवानां महारथः
संशप्तकानां कौन्तेयः प्रपक्षं त्वरितोऽभ्ययात्
MBh 8.40.100
प्रपक्षं स समासाद्य पार्थः काम्बोजरक्षितम्
प्रममाथ बलाद्बाणैर्दानवानिव वासवः
MBh 8.40.101
प्रचिच्छेदाशु भल्लैश्च द्विषतामाततायिनाम्
शस्त्रपाणींस्तथा बाहूंस्तथापि च शिरांस्युत
MBh 8.40.102
अङ्गाङ्गावयवैश्छिन्नैर्व्यायुधास्तेऽपतन्क्षितौ
विष्वग्वाताभिसंभग्ना बहुशाखा इव द्रुमाः
MBh 8.40.103
हस्त्यश्वरथपत्तीनां व्रातान्निघ्नन्तमर्जुनम्
सुदक्षिणादवरजः शरवृष्ट्याभ्यवीवृषत्
MBh 8.40.104
अस्यास्यतोऽर्धचन्द्राभ्यां स बाहू परिघोपमौ
पूर्णचन्द्राभवक्त्रं च क्षुरेणाभ्यहनच्छिरः
MBh 8.40.105
स पपात ततो वाहात्स्वलोहितपरिस्रवः
मनःशिलागिरेः शृङ्गं वज्रेणेवावदारितम्
MBh 8.40.106
सुदक्षिणादवरजं काम्बोजं ददृशुर्हतम्
प्रांशुं कमलपत्राक्षमत्यर्थं प्रियदर्शनम्
काञ्चनस्तम्भसंकाशं भिन्नं हेमगिरिं यथा
MBh 8.40.107
ततोऽभवत्पुनर्युद्धं घोरमद्भुतदर्शनम्
नानावस्थाश्च योधानां बभूवुस्तत्र युध्यताम्
MBh 8.40.108
एतेष्वावर्जितैरश्वैः काम्बोजैर्यवनैः शकैः
शोणिताक्तैस्तदा रक्तं सर्वमासीद्विशां पते
MBh 8.40.109
रथै रथाश्वसूतैश्च हतारोहैश्च वाजिभिः
द्विरदैश्च हतारोहैर्महामात्रैर्हतद्विपैः
अन्योन्येन महाराज कृतो घोरो जनक्षयः
MBh 8.40.110
तस्मिन्प्रपक्षे पक्षे च वध्यमाने महात्मना
अर्जुनं जयतां श्रेष्ठं त्वरितो द्रौणिराययौ
MBh 8.40.111
विधुन्वानो महच्चापं कार्तस्वरविभूषितम्
आददानः शरान्घोरान्स्वरश्मीनिव भास्करः
MBh 8.40.112
तैः पतद्भिर्महाराज द्रौणिमुक्तैः समन्ततः
संछादितौ रथस्थौ तावुभौ कृष्णधनंजयौ
MBh 8.40.113
ततः शरशतैस्तीक्ष्णैर्भारद्वाजः प्रतापवान्
निश्चेष्टौ तावुभौ चक्रे युद्धे माधवपाण्डवौ
MBh 8.40.114
हाहाकृतमभूत्सर्वं जङ्गमं स्थावरं तथा
चराचरस्य गोप्तारौ दृष्ट्वा संछादितौ शरैः
MBh 8.40.115
सिद्धचारणसंघाश्च संपेतुर्वै समन्ततः
चिन्तयन्तो भवेदद्य लोकानां स्वस्त्यपीत्यह
MBh 8.40.116
न मया तादृशो राजन्दृष्टपूर्वः पराक्रमः
संजज्ञे यादृशो द्रौणेः कृष्णौ संछादयिष्यतः
MBh 8.40.117
द्रौणेस्तु धनुषः शब्दमहितत्रासनं रणे
अश्रौषं बहुशो राजन्सिंहस्य नदतो यथा
MBh 8.40.118
ज्या चास्य चरतो युद्धे सव्यदक्षिणमस्यतः
विद्युदम्बुदमध्यस्था भ्राजमानेव साभवत्
MBh 8.40.119
स तथा क्षिप्रकारी च दृढहस्तश्च पाण्डवः
संमोहं परमं गत्वा प्रैक्षत द्रोणजं ततः
MBh 8.40.120
स विक्रमं हृतं मेने आत्मनः सुमहात्मना
तथास्य समरे राजन्वपुरासीत्सुदुर्दृशम्
MBh 8.40.121
द्रौणिपाण्डवयोरेवं वर्तमाने महारणे
वर्धमाने च राजेन्द्र द्रोणपुत्रे महाबले
हीयमाने च कौन्तेये कृष्णं रोषः समभ्ययात्
MBh 8.40.122
स रोषान्निःश्वसन्राजन्निर्दहन्निव चक्षुषा
द्रौणिं ह्यपश्यत्संग्रामे फल्गुनं च मुहुर्मुहुः
MBh 8.40.123
ततः क्रुद्धोऽब्रवीत्कृष्णः पार्थं सप्रणयं तदा
अत्यद्भुतमिदं पार्थ तव पश्यामि संयुगे
अतिशेते हि यत्र त्वा द्रोणपुत्रोऽद्य भारत
MBh 8.40.124
कच्चित्ते गाण्डिवं हस्ते रथे तिष्ठसि चार्जुन
कच्चित्कुशलिनौ बाहू कच्चिद्वीर्यं तदेव ते
MBh 8.40.125
एवमुक्तस्तु कृष्णेन क्षिप्त्वा भल्लांश्चतुर्दश
त्वरमाणस्त्वराकाले द्रौणेर्धनुरथाच्छिनत्
ध्वजं छत्रं पताकां च रथं शक्तिं गदां तथा
MBh 8.40.126
जत्रुदेशे च सुभृशं वत्सदन्तैरताडयत्
स मूर्च्छां परमां गत्वा ध्वजयष्टिं समाश्रितः
MBh 8.40.127
तं विसंज्ञं महाराज किरीटिभयपीडितम्
अपोवाह रणात्सूतो रक्षमाणो धनंजयात्
MBh 8.40.128
एतस्मिन्नेव काले तु विजयः शत्रुतापनः
न्यवधीत्तावकं सैन्यं शतशोऽथ सहस्रशः
पश्यतस्तव पुत्रस्य तस्य वीरस्य भारत
MBh 8.40.129
एवमेष क्षयो वृत्तस्तावकानां परैः सह
क्रूरो विशसनो घोरो राजन्दुर्मन्त्रिते तव
MBh 8.40.130
संशप्तकांश्च कौन्तेयः कुरूंश्चापि वृकोदरः
वसुषेणं च पाञ्चालः कृत्स्नेन व्यधमद्रणे
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Karṇa-Parva chapter-index (69 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Karṇa-Parva Ch 39
- Next chapter · Karṇa-Parva Ch 41 →
Sources and Connected Readings
Continue from these 130 source-pinned Devanāgarī addresses to Karṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 8.40local chapter route · Karṇa-ParvaKarṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷