🪷 Mahābhārata · Karṇa-Parva · Chapter 39
The Book of Karṇa · Parva 8 · 38 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 38 Shlokas
MBh 8.39.1
संजय उवाच
द्रौणिर्युधिष्ठिरं दृष्ट्वा शैनेयेनाभिरक्षितम्
द्रौपदेयैस्तथा शूरैरभ्यवर्तत हृष्टवत्
MBh 8.39.2
किरन्निषुगणान्घोरान्स्वर्णपुङ्खाञ्शिलाशितान्
दर्शयन्विविधान्मार्गाञ्शिक्षार्थं लघुहस्तवत्
MBh 8.39.3
ततः खं पूरयामास शरैर्दिव्यास्त्रमन्त्रितैः
युधिष्ठिरं च समरे पर्यवारयदस्त्रवित्
MBh 8.39.4
द्रौणायनिशरच्छन्नं न प्राज्ञायत किंचन
बाणभूतमभूत्सर्वमायोधनशिरो हि तत्
MBh 8.39.5
बाणजालं दिविष्ठं तत्स्वर्णजालविभूषितम्
शुशुभे भरतश्रेष्ठ वितानमिव विष्ठितम्
MBh 8.39.6
तेन छन्ने रणे राजन्बाणजालेन भास्वता
अभ्रच्छायेव संजज्ञे बाणरुद्धे नभस्तले
MBh 8.39.7
तत्राश्चर्यमपश्याम बाणभूते तथाविधे
न स्म संपतते भूमौ दृष्ट्वा द्रौणेः पराक्रमम्
MBh 8.39.8
लाघवं द्रोणपुत्रस्य दृष्ट्वा तत्र महारथाः
व्यस्मयन्त महाराज न चैनं प्रतिवीक्षितुम्
शेकुस्ते सर्वराजानस्तपन्तमिव भास्करम्
MBh 8.39.9
सात्यकिर्यतमानस्तु धर्मराजश्च पाण्डवः
तथेतराणि सैन्यानि न स्म चक्रुः पराक्रमम्
MBh 8.39.10
वध्यमाने ततः सैन्ये द्रौपदेया महारथाः
सात्यकिर्धर्मराजश्च पाञ्चालाश्चापि संगताः
त्यक्त्वा मृत्युभयं घोरं द्रौणायनिमुपाद्रवन्
MBh 8.39.11
सात्यकिः पञ्चविंशत्या द्रौणिं विद्ध्वा शिलामुखैः
पुनर्विव्याध नाराचैः सप्तभिः स्वर्णभूषितैः
MBh 8.39.12
युधिष्ठिरस्त्रिसप्तत्या प्रतिविन्ध्यश्च सप्तभिः
श्रुतकर्मा त्रिभिर्बाणैः श्रुतकीर्तिस्तु सप्तभिः
MBh 8.39.13
सुतसोमश्च नवभिः शतानीकश्च सप्तभिः
अन्ये च बहवः शूरा विव्यधुस्तं समन्ततः
MBh 8.39.14
सोऽतिक्रुद्धस्ततो राजन्नाशीविष इव श्वसन्
सात्यकिं पञ्चविंशत्या प्राविध्यत शिलाशितैः
MBh 8.39.15
श्रुतकीर्तिं च नवभिः सुतसोमं च पञ्चभिः
अष्टभिः श्रुतकर्माणं प्रतिविन्ध्यं त्रिभिः शरैः
शतानीकं च नवभिर्धर्मपुत्रं च सप्तभिः
MBh 8.39.16
अथेतरांस्ततः शूरान्द्वाभ्यां द्वाभ्यामताडयत्
श्रुतकीर्तेस्तथा चापं चिच्छेद निशितैः शरैः
MBh 8.39.17
अथान्यद्धनुरादाय श्रुतकीर्तिर्महारथः
द्रौणायनिं त्रिभिर्विद्ध्वा विव्याधान्यैः शितैः शरैः
MBh 8.39.18
ततो द्रौणिर्महाराज शरवर्षेण भारत
छादयामास तत्सैन्यं समन्ताच्च शरैर्नृपान्
MBh 8.39.19
ततः पुनरमेयात्मा धर्मराजस्य कार्मुकम्
द्रौणिश्चिच्छेद विहसन्विव्याध च शरैस्त्रिभिः
MBh 8.39.20
ततो धर्मसुतो राजन्प्रगृह्यान्यन्महद्धनुः
द्रौणिं विव्याध सप्तत्या बाह्वोरुरसि चार्दयत्
MBh 8.39.21
सात्यकिस्तु ततः क्रुद्धो द्रौणेः प्रहरतो रणे
अर्धचन्द्रेण तीक्ष्णेन धनुश्छित्त्वानदद्भृशम्
MBh 8.39.22
छिन्नधन्वा ततो द्रौणिः शक्त्या शक्तिमतां वरः
सारथिं पातयामास शैनेयस्य रथाद्द्रुतम्
MBh 8.39.23
अथान्यद्धनुरादाय द्रोणपुत्रः प्रतापवान्
शैनेयं शरवर्षेण छादयामास भारत
MBh 8.39.24
तस्याश्वाः प्रद्रुताः संख्ये पतिते रथसारथौ
तत्र तत्रैव धावन्तः समदृश्यन्त भारत
MBh 8.39.25
युधिष्ठिरपुरोगास्ते द्रौणिं शस्त्रभृतां वरम्
अभ्यवर्षन्त वेगेन विसृजन्तः शिताञ्शरान्
MBh 8.39.26
आगच्छमानांस्तान्दृष्ट्वा रौद्ररूपान्परंतपः
प्रहसन्प्रतिजग्राह द्रोणपुत्रो महारणे
MBh 8.39.27
ततः शरशतज्वालः सेनाकक्षं महारथः
द्रौणिर्ददाह समरे कक्षमग्निर्यथा वने
MBh 8.39.28
तद्बलं पाण्डुपुत्रस्य द्रोणपुत्रप्रतापितम्
चुक्षुभे भरतश्रेष्ठ तिमिनेव नदीमुखम्
MBh 8.39.29
दृष्ट्वा ते च महाराज द्रोणपुत्रपराक्रमम्
निहतान्मेनिरे सर्वान्पाण्डून्द्रोणसुतेन वै
MBh 8.39.30
युधिष्ठिरस्तु त्वरितो द्रौणिं श्लिष्य महारथम्
अब्रवीद्द्रोणपुत्रं तु रोषामर्षसमन्वितः
MBh 8.39.31
नैव नाम तव प्रीतिर्नैव नाम कृतज्ञता
यतस्त्वं पुरुषव्याघ्र मामेवाद्य जिघांससि
MBh 8.39.32
ब्राह्मणेन तपः कार्यं दानमध्ययनं तथा
क्षत्रियेण धनुर्नाम्यं स भवान्ब्राह्मणब्रुवः
MBh 8.39.33
मिषतस्ते महाबाहो जेष्यामि युधि कौरवान्
कुरुष्व समरे कर्म ब्रह्मबन्धुरसि ध्रुवम्
MBh 8.39.34
एवमुक्तो महाराज द्रोणपुत्रः स्मयन्निव
युक्तत्वं तच्च संचिन्त्य नोत्तरं किंचिदब्रवीत्
MBh 8.39.35
अनुक्त्वा च ततः किंचिच्छरवर्षेण पाण्डवम्
छादयामास समरे क्रुद्धोऽन्तक इव प्रजाः
MBh 8.39.36
संछाद्यमानस्तु तदा द्रोणपुत्रेण मारिष
पार्थोऽपयातः शीघ्रं वै विहाय महतीं चमूम्
MBh 8.39.37
अपयाते ततस्तस्मिन्धर्मपुत्रे युधिष्ठिरे
द्रोणपुत्रः स्थितो राजन्प्रत्यादेशान्महात्मनः
MBh 8.39.38
ततो युधिष्ठिरो राजा त्यक्त्वा द्रौणिं महाहवे
प्रययौ तावकं सैन्यं युक्तः क्रूराय कर्मणे
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Karṇa-Parva chapter-index (69 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Karṇa-Parva Ch 38
- Next chapter · Karṇa-Parva Ch 40 →
Sources and Connected Readings
Continue from these 38 source-pinned Devanāgarī addresses to Karṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 8.39local chapter route · Karṇa-ParvaKarṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷