🪷 Mahābhārata · Karṇa-Parva · Chapter 33
The Book of Karṇa · Parva 8 · 70 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 70 Shlokas
MBh 8.33.1
संजय उवाच
विदार्य कर्णस्तां सेनां धर्मराजमुपाद्रवत्
रथहस्त्यश्वपत्तीनां सहस्रैः परिवारितः
MBh 8.33.2
नानायुधसहस्राणि प्रेषितान्यरिभिर्वृषः
छित्त्वा बाणशतैरुग्रैस्तानविध्यदसंभ्रमः
MBh 8.33.3
निचकर्त शिरांस्येषां बाहूनूरूंश्च सर्वशः
ते हता वसुधां पेतुर्भग्नाश्चान्ये विदुद्रुवुः
MBh 8.33.4
द्रविडान्ध्रनिषादास्तु पुनः सात्यकिचोदिताः
अभ्यर्दयञ्जिघांसन्तः पत्तयः कर्णमाहवे
MBh 8.33.5
ते विबाहुशिरस्त्राणाः प्रहताः कर्णसायकैः
पेतुः पृथिव्यां युगपच्छिन्नं शालवनं यथा
MBh 8.33.6
एवं योधशतान्याजौ सहस्राण्ययुतानि च
हतानीयुर्महीं देहैर्यशसापूरयन्दिशः
MBh 8.33.7
अथ वैकर्तनं कर्णं रणे क्रुद्धमिवान्तकम्
रुरुधुः पाण्डुपाञ्चाला व्याधिं मन्त्रौषधैरिव
MBh 8.33.8
स तान्प्रमृद्याभ्यपतत्पुनरेव युधिष्ठिरम्
मन्त्रौषधिक्रियातीतो व्याधिरत्युल्बणो यथा
MBh 8.33.9
स राजगृद्धिभी रुद्धः पाण्डुपाञ्चालकेकयैः
नाशकत्तानतिक्रान्तुं मृत्युर्ब्रह्मविदो यथा
MBh 8.33.10
ततो युधिष्ठिरः कर्णमदूरस्थं निवारितम्
अब्रवीत्परवीरघ्नः क्रोधसंरक्तलोचनः
MBh 8.33.11
कर्ण कर्ण वृथादृष्टे सूतपुत्र वचः शृणु
सदा स्पर्धसि संग्रामे फल्गुनेन यशस्विना
तथास्मान्बाधसे नित्यं धार्तराष्ट्रमते स्थितः
MBh 8.33.12
यद्बलं यच्च ते वीर्यं प्रद्वेषो यश्च पाण्डुषु
तत्सर्वं दर्शयस्वाद्य पौरुषं महदास्थितः
युद्धश्रद्धां स तेऽद्याहं विनेष्यामि महाहवे
MBh 8.33.13
एवमुक्त्वा महाराज कर्णं पाण्डुसुतस्तदा
सुवर्णपुङ्खैर्दशभिर्विव्याधायस्मयैः शितैः
MBh 8.33.14
तं सूतपुत्रो नवभिः प्रत्यविध्यदरिंदमः
वत्सदन्तैर्महेष्वासः प्रहसन्निव भारत
MBh 8.33.15
ततः क्षुराभ्यां पाञ्चाल्यौ चक्ररक्षौ महात्मनः
जघान समरे शूरः शरैः संनतपर्वभिः
MBh 8.33.16
तावुभौ धर्मराजस्य प्रवीरौ परिपार्श्वतः
रथाभ्याशे चकाशेते चन्द्रस्येव पुनर्वसू
MBh 8.33.17
युधिष्ठिरः पुनः कर्णमविध्यत्त्रिंशता शरैः
सुषेणं सत्यसेनं च त्रिभिस्त्रिभिरताडयत्
MBh 8.33.18
शल्यं नवत्या विव्याध त्रिसप्तत्या च सूतजम्
तांश्चास्य गोप्तॄन्विव्याध त्रिभिस्त्रिभिरजिह्मगैः
MBh 8.33.19
ततः प्रहस्याधिरथिर्विधुन्वानः स कार्मुकम्
भित्त्वा भल्लेन राजानं विद्ध्वा षष्ट्यानदन्मुदा
MBh 8.33.20
ततः प्रवीराः पाण्डूनामभ्यधावन्युधिष्ठिरम्
सूतपुत्रात्परीप्सन्तः कर्णमभ्यर्दयञ्शरैः
MBh 8.33.21
सात्यकिश्चेकितानश्च युयुत्सुः पाण्ड्य एव च
धृष्टद्युम्नः शिखण्डी च द्रौपदेयाः प्रभद्रकाः
MBh 8.33.22
यमौ च भीमसेनश्च शिशुपालस्य चात्मजः
कारूषा मत्स्यशेषाश्च केकयाः काशिकोसलाः
एते च त्वरिता वीरा वसुषेणमवारयन्
MBh 8.33.23
जनमेजयश्च पाञ्चाल्यः कर्णं विव्याध सायकैः
वराहकर्णैर्नाराचैर्नालीकैर्निशितैः शरैः
वत्सदन्तैर्विपाठैश्च क्षुरप्रैश्चटकामुखैः
MBh 8.33.24
नानाप्रहरणैश्चोग्रै रथहस्त्यश्वसादिनः
सर्वतोऽभ्याद्रवन्कर्णं परिवार्य जिघांसया
MBh 8.33.25
स पाण्डवानां प्रवरैः सर्वतः समभिद्रुतः
उदैरयद्ब्राह्ममस्त्रं शरैः संपूरयन्दिशः
MBh 8.33.26
ततः शरमहाज्वालो वीर्योष्मा कर्णपावकः
निर्दहन्पाण्डववनं चारु पर्यचरद्रणे
MBh 8.33.27
स संवार्य महास्त्राणि महेष्वासो महात्मनाम्
प्रहस्य पुरुषेन्द्रस्य शरैश्चिच्छेद कार्मुकम्
MBh 8.33.28
ततः संधाय नवतिं निमेषान्नतपर्वणाम्
बिभेद कवचं राज्ञो रणे कर्णः शितैः शरैः
MBh 8.33.29
तद्वर्म हेमविकृतं रराज निपतत्तदा
सविद्युदभ्रं सवितुः शिष्टं वातहतं यथा
MBh 8.33.30
तदङ्गं पुरुषेन्द्रस्य भ्रष्टवर्म व्यरोचत
रत्नैरलंकृतं दिव्यैर्व्यभ्रं निशि यथा नभः
MBh 8.33.31
स विवर्मा शरैः पार्थो रुधिरेण समुक्षितः
क्रुद्धः सर्वायसीं शक्तिं चिक्षेपाधिरथिं प्रति
MBh 8.33.32
तां ज्वलन्तीमिवाकाशे शरैश्चिच्छेद सप्तभिः
सा छिन्ना भूमिमपतन्महेष्वासस्य सायकैः
MBh 8.33.33
ततो बाह्वोर्ललाटे च हृदि चैव युधिष्ठिरः
चतुर्भिस्तोमरैः कर्णं ताडयित्वा मुदानदत्
MBh 8.33.34
उद्भिन्नरुधिरः कर्णः क्रुद्धः सर्प इव श्वसन्
ध्वजं चिच्छेद भल्लेन त्रिभिर्विव्याध पाण्डवम्
इषुधी चास्य चिच्छेद रथं च तिलशोऽच्छिनत्
MBh 8.33.35
एवं पार्थो व्यपायात्स निहतप्रार्ष्टिसारथिः
अशक्नुवन्प्रमुखतः स्थातुं कर्णस्य दुर्मनाः
MBh 8.33.36
तमभिद्रुत्य राधेयः स्कन्धं संस्पृश्य पाणिना
अब्रवीत्प्रहसन्राजन्कुत्सयन्निव पाण्डवम्
MBh 8.33.37
कथं नाम कुले जातः क्षत्रधर्मे व्यवस्थितः
प्रजह्यात्समरे शत्रून्प्राणान्रक्षन्महाहवे
MBh 8.33.38
न भवान्क्षत्रधर्मेषु कुशलोऽसीति मे मतिः
ब्राह्मे बले भवान्युक्तः स्वाध्याये यज्ञकर्मणि
MBh 8.33.39
मा स्म युध्यस्व कौन्तेय मा च वीरान्समासदः
मा चैनानप्रियं ब्रूहि मा च व्रज महारणम्
MBh 8.33.40
एवमुक्त्वा ततः पार्थं विसृज्य च महाबलः
न्यहनत्पाण्डवीं सेनां वज्रहस्त इवासुरीम्
ततः प्रायाद्द्रुतं राजन्व्रीडन्निव जनेश्वरः
MBh 8.33.41
अथ प्रयान्तं राजानमन्वयुस्ते तदाच्युतम्
चेदिपाण्डवपाञ्चालाः सात्यकिश्च महारथः
द्रौपदेयास्तथा शूरा माद्रीपुत्रौ च पाण्डवौ
MBh 8.33.42
ततो युधिष्ठिरानीकं दृष्ट्वा कर्णः पराङ्मुखम्
कुरुभिः सहितो वीरैः पृष्ठगैः पृष्ठमन्वयात्
MBh 8.33.43
शङ्खभेरीनिनादैश्च कार्मुकाणां च निस्वनैः
बभूव धार्तराष्ट्राणां सिंहनादरवस्तदा
MBh 8.33.44
युधिष्ठिरस्तु कौरव्य रथमारुह्य सत्वरः
श्रुतकीर्तेर्महाराज दृष्टवान्कर्णविक्रमम्
MBh 8.33.45
काल्यमानं बलं दृष्ट्वा धर्मराजो युधिष्ठिरः
तान्योधानब्रवीत्क्रुद्धो हतैनं वै सहस्रशः
MBh 8.33.46
ततो राज्ञाभ्यनुज्ञाताः पाण्डवानां महारथाः
भीमसेनमुखाः सर्वे पुत्रांस्ते प्रत्युपाद्रवन्
MBh 8.33.47
अभवत्तुमुलः शब्दो योधानां तत्र भारत
हस्त्यश्वरथपत्तीनां शस्त्राणां च ततस्ततः
MBh 8.33.48
उत्तिष्ठत प्रहरत प्रैताभिपततेति च
इति ब्रुवाणा अन्योन्यं जघ्नुर्योधा रणाजिरे
MBh 8.33.49
अभ्रच्छायेव तत्रासीच्छरवृष्टिभिरम्बरे
समावृत्तैर्नरवरैर्निघ्नद्भिरितरेतरम्
MBh 8.33.50
विपताकाध्वजच्छत्रा व्यश्वसूतायुधा रणे
व्यङ्गाङ्गावयवाः पेतुः क्षितौ क्षीणा हतेश्वराः
MBh 8.33.51
प्रवराणीव शैलानां शिखराणि द्विपोत्तमाः
सारोहा निहताः पेतुर्वज्रभिन्ना इवाद्रयः
MBh 8.33.52
छिन्नभिन्नविपर्यस्तैर्वर्मालंकारविग्रहैः
सारोहास्तुरगाः पेतुर्हतवीराः सहस्रशः
MBh 8.33.53
विप्रविद्धायुधाङ्गाश्च द्विरदाश्वरथैर्हताः
प्रतिवीरैश्च संमर्दे पत्तिसंघाः सहस्रशः
MBh 8.33.54
विशालायतताम्राक्षैः पद्मेन्दुसदृशाननैः
शिरोभिर्युद्धशौण्डानां सर्वतः संस्तृता मही
MBh 8.33.55
तथा तु वितते व्योम्नि निस्वनं शुश्रुवुर्जनाः
विमानैरप्सरःसंघैर्गीतवादित्रनिस्वनैः
MBh 8.33.56
हतान्कृत्तानभिमुखान्वीरान्वीरैः सहस्रशः
आरोप्यारोप्य गच्छन्ति विमानेष्वप्सरोगणाः
MBh 8.33.57
तद्दृष्ट्वा महदाश्चर्यं प्रत्यक्षं स्वर्गलिप्सया
प्रहृष्टमनसः शूराः क्षिप्रं जग्मुः परस्परम्
MBh 8.33.58
रथिनो रथिभिः सार्धं चित्रं युयुधुराहवे
पत्तयः पत्तिभिर्नागा नागैः सह हयैर्हयाः
MBh 8.33.59
एवं प्रवृत्ते संग्रामे गजवाजिजनक्षये
सैन्ये च रजसा व्याप्ते स्वे स्वाञ्जघ्नुः परे परान्
MBh 8.33.60
कचाकचि बभौ युद्धं दन्तादन्ति नखानखि
मुष्टियुद्धं नियुद्धं च देहपाप्मविनाशनम्
MBh 8.33.61
तथा वर्तति संग्रामे गजवाजिजनक्षये
नराश्वगजदेहेभ्यः प्रसृता लोहितापगा
नराश्वगजदेहान्सा व्युवाह पतितान्बहून्
MBh 8.33.62
नराश्वगजसंबाधे नराश्वगजसादिनाम्
लोहितोदा महाघोरा नदी लोहितकर्दमा
नराश्वगजदेहान्सा वहन्ती भीरुभीषणी
MBh 8.33.63
तस्याः परमपारं च व्रजन्ति विजयैषिणः
गाधेन च प्लवन्तश्च निमज्ज्योन्मज्ज्य चापरे
MBh 8.33.64
ते तु लोहितदिग्धाङ्गा रक्तवर्मायुधाम्बराः
सस्नुस्तस्यां पपुश्चासृङ्मम्लुश्च भरतर्षभ
MBh 8.33.65
रथानश्वान्नरान्नागानायुधाभरणानि च
वसनान्यथ वर्माणि हन्यमानान्हतानपि
भूमिं खं द्यां दिशश्चैव प्रायः पश्याम लोहितम्
MBh 8.33.66
लोहितस्य तु गन्धेन स्पर्शेन च रसेन च
रूपेण चातिरिक्तेन शब्देन च विसर्पता
विषादः सुमहानासीत्प्रायः सैन्यस्य भारत
MBh 8.33.67
तत्तु विप्रहतं सैन्यं भीमसेनमुखैस्तव
भूयः समाद्रवन्वीराः सात्यकिप्रमुखा रथाः
MBh 8.33.68
तेषामापततां वेगमविषह्य महात्मनाम्
पुत्राणां ते महत्सैन्यमासीद्राजन्पराङ्मुखम्
MBh 8.33.69
तत्प्रकीर्णरथाश्वेभं नरवाजिसमाकुलम्
विध्वस्तचर्मकवचं प्रविद्धायुधकार्मुकम्
MBh 8.33.70
व्यद्रवत्तावकं सैन्यं लोड्यमानं समन्ततः
सिंहार्दितं महारण्ये यथा गजकुलं तथा
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Karṇa-Parva chapter-index (69 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Karṇa-Parva Ch 32
- Next chapter · Karṇa-Parva Ch 34 →
Sources and Connected Readings
Continue from these 70 source-pinned Devanāgarī addresses to Karṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 8.33local chapter route · Karṇa-ParvaKarṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷