🪷 Mahābhārata · Karṇa-Parva · Chapter 32
The Book of Karṇa · Parva 8 · 84 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 84 Shlokas
MBh 8.32.1
धृतराष्ट्र उवाच
तथा व्यूढेष्वनीकेषु संसक्तेषु च संजय
संशप्तकान्कथं पार्थो गतः कर्णश्च पाण्डवान्
MBh 8.32.2
एतद्विस्तरतो युद्धं प्रब्रूहि कुशलो ह्यसि
न हि तृप्यामि वीराणां शृण्वानो विक्रमान्रणे
MBh 8.32.3
संजय उवाच
तत्स्थाने समवस्थाप्य प्रत्यमित्रं महाबलम्
अव्यूहतार्जुनो व्यूहं पुत्रस्य तव दुर्नये
MBh 8.32.4
तत्सादिनागकलिलं पदातिरथसंकुलम्
धृष्टद्युम्नमुखैर्व्यूढमशोभत महद्बलम्
MBh 8.32.5
पारावतसवर्णाश्वश्चन्द्रादित्यसमद्युतिः
पार्षतः प्रबभौ धन्वी कालो विग्रहवानिव
MBh 8.32.6
पार्षतं त्वभि संतस्थुर्द्रौपदेया युयुत्सवः
सानुगा भीमवपुषश्चन्द्रं तारागणा इव
MBh 8.32.7
अथ व्यूढेष्वनीकेषु प्रेक्ष्य संशप्तकान्रणे
क्रुद्धोऽर्जुनोऽभिदुद्राव व्याक्षिपन्गाण्डिवं धनुः
MBh 8.32.8
अथ संशप्तकाः पार्थमभ्यधावन्वधैषिणः
विजये कृतसंकल्पा मृत्युं कृत्वा निवर्तनम्
MBh 8.32.9
तदश्वसंघबहुलं मत्तनागरथाकुलम्
पत्तिमच्छूरवीरौघैर्द्रुतमर्जुनमाद्रवत्
MBh 8.32.10
स संप्रहारस्तुमुलस्तेषामासीत्किरीटिना
तस्यैव नः श्रुतो यादृङ्निवातकवचैः सह
MBh 8.32.11
रथानश्वान्ध्वजान्नागान्पत्तीन्रथपतीनपि
इषून्धनूंषि खड्गांश्च चक्राणि च परश्वधान्
MBh 8.32.12
सायुधानुद्यतान्बाहूनुद्यतान्यायुधानि च
चिच्छेद द्विषतां पार्थः शिरांसि च सहस्रशः
MBh 8.32.13
तस्मिन्सैन्ये महावर्ते पातालावर्तसंनिभे
निमग्नं तं रथं मत्वा नेदुः संशप्तका मुदा
MBh 8.32.14
स पुरस्तादरीन्हत्वा पश्चार्धेनोत्तरेण च
दक्षिणेन च बीभत्सुः क्रुद्धो रुद्रः पशूनिव
MBh 8.32.15
अथ पाञ्चालचेदीनां सृञ्जयानां च मारिष
त्वदीयैः सह संग्राम आसीत्परमदारुणः
MBh 8.32.16
कृपश्च कृतवर्मा च शकुनिश्चापि सौबलः
हृष्टसेनाः सुसंरब्धा रथानीकैः प्रहारिणः
MBh 8.32.17
कोसलैः काशिमत्स्यैश्च कारूषैः केकयैरपि
शूरसेनैः शूरवीरैर्युयुधुर्युद्धदुर्मदाः
MBh 8.32.18
तेषामन्तकरं युद्धं देहपाप्मप्रणाशनम्
शूद्रविट्क्षत्रवीराणां धर्म्यं स्वर्ग्यं यशस्करम्
MBh 8.32.19
दुर्योधनोऽपि सहितो भ्रातृभिर्भरतर्षभ
गुप्तः कुरुप्रवीरैश्च मद्राणां च महारथैः
MBh 8.32.20
पाण्डवैः सहपाञ्चालैश्चेदिभिः सात्यकेन च
युध्यमानं रणे कर्णं कुरुवीरोऽभ्यपालयत्
MBh 8.32.21
कर्णोऽपि निशितैर्बाणैर्विनिहत्य महाचमूम्
प्रमृद्य च रथश्रेष्ठान्युधिष्ठिरमपीडयत्
MBh 8.32.22
विपत्रायुधदेहासून्कृत्वा शत्रून्सहस्रशः
युक्त्वा स्वर्गयशोभ्यां च स्वेभ्यो मुदमुदावहत्
MBh 8.32.23
धृतराष्ट्र उवाच
यत्तत्प्रविश्य पार्थानां सेनां कुर्वञ्जनक्षयम्
कर्णो राजानमभ्यर्च्छत्तन्ममाचक्ष्व संजय
MBh 8.32.24
के च प्रवीराः पार्थानां युधि कर्णमवारयन्
कांश्च प्रमथ्याधिरथिर्युधिष्ठिरमपीडयत्
MBh 8.32.25
संजय उवाच
धृष्टद्युम्नमुखान्पार्थान्दृष्ट्वा कर्णो व्यवस्थितान्
समभ्यधावत्त्वरितः पाञ्चालाञ्शत्रुकर्शनः
MBh 8.32.26
तं तूर्णमभिधावन्तं पाञ्चाला जितकाशिनः
प्रत्युद्ययुर्महाराज हंसा इव महार्णवम्
MBh 8.32.27
ततः शङ्खसहस्राणां निस्वनो हृदयंगमः
प्रादुरासीदुभयतो भेरीशब्दश्च दारुणः
MBh 8.32.28
नानावादित्रनादश्च द्विपाश्वरथनिस्वनः
सिंहनादश्च वीराणामभवद्दारुणस्तदा
MBh 8.32.29
साद्रिद्रुमार्णवा भूमिः सवाताम्बुदमम्बरम्
सार्केन्दुग्रहनक्षत्रा द्यौश्च व्यक्तं व्यघूर्णत
MBh 8.32.30
अति भूतानि तं शब्दं मेनिरेऽति च विव्यथुः
यानि चाप्लवसत्त्वानि प्रायस्तानि मृतानि च
MBh 8.32.31
अथ कर्णो भृशं क्रुद्धः शीघ्रमस्त्रमुदीरयन्
जघान पाण्डवीं सेनामासुरीं मघवानिव
MBh 8.32.32
स पाण्डवरथांस्तूर्णं प्रविश्य विसृजञ्शरान्
प्रभद्रकाणां प्रवरानहनत्सप्तसप्ततिम्
MBh 8.32.33
ततः सुपुङ्खैर्निशितै रथश्रेष्ठो रथेषुभिः
अवधीत्पञ्चविंशत्या पाञ्चालान्पञ्चविंशतिम्
MBh 8.32.34
सुवर्णपुङ्खैर्नाराचैः परकायविदारणैः
चेदिकानवधीद्वीरः शतशोऽथ सहस्रशः
MBh 8.32.35
तं तथा समरे कर्म कुर्वाणमतिमानुषम्
परिवव्रुर्महाराज पाञ्चालानां रथव्रजाः
MBh 8.32.36
ततः संधाय विशिखान्पञ्च भारत दुःसहान्
पाञ्चालानवधीत्पञ्च कर्णो वैकर्तनो वृषः
MBh 8.32.37
भानुदेवं चित्रसेनं सेनाबिन्दुं च भारत
तपनं शूरसेनं च पाञ्चालानवधीद्रणे
MBh 8.32.38
पाञ्चालेषु च शूरेषु वध्यमानेषु सायकैः
हाहाकारो महानासीत्पाञ्चालानां महाहवे
MBh 8.32.39
तेषां संकीर्यमाणानां हाहाकारकृता दिशः
पुनरेव च तान्कर्णो जघानाशु पतत्रिभिः
MBh 8.32.40
चक्ररक्षौ तु कर्णस्य पुत्रौ मारिष दुर्जयौ
सुषेणः सत्यसेनश्च त्यक्त्वा प्राणानयुध्यताम्
MBh 8.32.41
पृष्ठगोपस्तु कर्णस्य ज्येष्ठः पुत्रो महारथः
वृषसेनः स्वयं कर्णं पृष्ठतः पर्यपालयत्
MBh 8.32.42
धृष्टद्युम्नः सात्यकिश्च द्रौपदेया वृकोदरः
जनमेजयः शिखण्डी च प्रवीराश्च प्रभद्रकाः
MBh 8.32.43
चेदिकेकयपाञ्चाला यमौ मत्स्याश्च दंशिताः
समभ्यधावन्राधेयं जिघांसन्तः प्रहारिणः
MBh 8.32.44
त एनं विविधैः शस्त्रैः शरधाराभिरेव च
अभ्यवर्षन्विमृद्नन्तः प्रावृषीवाम्बुदा गिरिम्
MBh 8.32.45
पितरं तु परीप्सन्तः कर्णपुत्राः प्रहारिणः
त्वदीयाश्चापरे राजन्वीरा वीरानवारयन्
MBh 8.32.46
सुषेणो भीमसेनस्य छित्त्वा भल्लेन कार्मुकम्
नाराचैः सप्तभिर्विद्ध्वा हृदि भीमं ननाद ह
MBh 8.32.47
अथान्यद्धनुरादाय सुदृढं भीमविक्रमः
सज्यं वृकोदरः कृत्वा सुषेणस्याच्छिनद्धनुः
MBh 8.32.48
विव्याध चैनं नवभिः क्रुद्धो नृत्यन्निवेषुभिः
कर्णं च तूर्णं विव्याध त्रिसप्तत्या शितैः शरैः
MBh 8.32.49
सत्यसेनं च दशभिः साश्वसूतध्वजायुधम्
पश्यतां सुहृदां मध्ये कर्णपुत्रमपातयत्
MBh 8.32.50
क्षुरप्रणुन्नं तत्तस्य शिरश्चन्द्रनिभाननम्
शुभदर्शनमेवासीन्नालभ्रष्टमिवाम्बुजम्
MBh 8.32.51
हत्वा कर्णसुतं भीमस्तावकान्पुनरार्दयत्
कृपहार्दिक्ययोश्छित्त्वा चापे तावप्यथार्दयत्
MBh 8.32.52
दुःशासनं त्रिभिर्विद्ध्वा शकुनिं षड्भिरायसैः
उलूकं च पतत्रिं च चकार विरथावुभौ
MBh 8.32.53
हे सुषेण हतोऽसीति ब्रुवन्नादत्त सायकम्
तमस्य कर्णश्चिच्छेद त्रिभिश्चैनमताडयत्
MBh 8.32.54
अथान्यमपि जग्राह सुपर्वाणं सुतेजनम्
सुषेणायासृजद्भीमस्तमप्यस्याच्छिनद्वृषः
MBh 8.32.55
पुनः कर्णस्त्रिसप्तत्या भीमसेनं रथेषुभिः
पुत्रं परीप्सन्विव्याध क्रूरं क्रूरैर्जिघांसया
MBh 8.32.56
सुषेणस्तु धनुर्गृह्य भारसाधनमुत्तमम्
नकुलं पञ्चभिर्बाणैर्बाह्वोरुरसि चार्दयत्
MBh 8.32.57
नकुलस्तं तु विंशत्या विद्ध्वा भारसहैर्दृढैः
ननाद बलवन्नादं कर्णस्य भयमादधत्
MBh 8.32.58
तं सुषेणो महाराज विद्ध्वा दशभिराशुगैः
चिच्छेद च धनुः शीघ्रं क्षुरप्रेण महारथः
MBh 8.32.59
अथान्यद्धनुरादाय नकुलः क्रोधमूर्च्छितः
सुषेणं बहुभिर्बाणैर्वारयामास संयुगे
MBh 8.32.60
स तु बाणैर्दिशो राजन्नाच्छाद्य परवीरहा
आजघ्ने सारथिं चास्य सुषेणं च ततस्त्रिभिः
चिच्छेद चास्य सुदृढं धनुर्भल्लैस्त्रिभिस्त्रिधा
MBh 8.32.61
अथान्यद्धनुरादाय सुषेणः क्रोधमूर्छितः
अविध्यन्नकुलं षष्ट्या सहदेवं च सप्तभिः
MBh 8.32.62
तद्युद्धं सुमहद्घोरमासीद्देवासुरोपमम्
निघ्नतां सायकैस्तूर्णमन्योन्यस्य वधं प्रति
MBh 8.32.63
सात्यकिर्वृषसेनस्य हत्वा सूतं त्रिभिः शरैः
धनुश्चिच्छेद भल्लेन जघानाश्वांश्च सप्तभिः
ध्वजमेकेषुणोन्मथ्य त्रिभिस्तं हृद्यताडयत्
MBh 8.32.64
अथावसन्नः स्वरथे मुहूर्तात्पुनरुत्थितः
अथो जिघांसुः शैनेयं खड्गचर्मभृदभ्ययात्
MBh 8.32.65
तस्य चाप्लवतः शीघ्रं वृषसेनस्य सात्यकिः
वराहकर्णैर्दशभिरविध्यदसिचर्मणी
MBh 8.32.66
दुःशासनस्तु तं दृष्ट्वा विरथं व्यायुधं कृतम्
आरोप्य स्वरथे तूर्णमपोवाह रथान्तरम्
MBh 8.32.67
अथान्यं रथमास्थाय वृषसेनो महारथः
कर्णस्य युधि दुर्धर्षः पुनः पृष्ठमपालयत्
MBh 8.32.68
दुःशासनं तु शैनेयो नवैर्नवभिराशुगैः
विसूताश्वरथं कृत्वा ललाटे त्रिभिरार्पयत्
MBh 8.32.69
स त्वन्यं रथमास्थाय विधिवत्कल्पितं पुनः
युयुधे पाण्डुभिः सार्धं कर्णस्याप्याययन्बलम्
MBh 8.32.70
धृष्टद्युम्नस्ततः कर्णमविध्यद्दशभिः शरैः
द्रौपदेयास्त्रिसप्तत्या युयुधानस्तु सप्तभिः
MBh 8.32.71
भीमसेनश्चतुःषष्ट्या सहदेवश्च पञ्चभिः
नकुलस्त्रिंशता बाणैः शतानीकश्च सप्तभिः
शिखण्डी दशभिर्वीरो धर्मराजः शतेन तु
MBh 8.32.72
एते चान्ये च राजेन्द्र प्रवीरा जयगृद्धिनः
अभ्यर्दयन्महेष्वासं सूतपुत्रं महामृधे
MBh 8.32.73
तान्सूतपुत्रो विशिखैर्दशभिर्दशभिः शितैः
रथे चारु चरन्वीरः प्रत्यविध्यदरिंदमः
MBh 8.32.74
तत्रास्त्रवीर्यं कर्णस्य लाघवं च महात्मनः
अपश्याम महाराज तदद्भुतमिवाभवत्
MBh 8.32.75
न ह्याददानं ददृशुः संदधानं च सायकान्
विमुञ्चन्तं च संरम्भाद्ददृशुस्ते महारथम्
MBh 8.32.76
द्यौर्वियद्भूर्दिशश्चाशु प्रणुन्ना निशितैः शरैः
अरुणाभ्रावृताकारं तस्मिन्देशे बभौ वियत्
MBh 8.32.77
नृत्यन्निव हि राधेयश्चापहस्तः प्रतापवान्
यैर्विद्धः प्रत्यविध्यत्तानेकैकं त्रिगुणैः शरैः
MBh 8.32.78
दशभिर्दशभिश्चैनान्पुनर्विद्ध्वा ननाद ह
साश्वसूतध्वजच्छत्रास्ततस्ते विवरं ददुः
MBh 8.32.79
तान्प्रमृद्नन्महेष्वासान्राधेयः शरवृष्टिभिः
राजानीकमसंबाधं प्राविशच्छत्रुकर्शनः
MBh 8.32.80
स रथांस्त्रिशतान्हत्वा चेदीनामनिवर्तिनाम्
राधेयो निशितैर्बाणैस्ततोऽभ्यार्च्छद्युधिष्ठिरम्
MBh 8.32.81
ततस्ते पाण्डवा राजञ्शिखण्डी च ससात्यकिः
राधेयात्परिरक्षन्तो राजानं पर्यवारयन्
MBh 8.32.82
तथैव तावकाः सर्वे कर्णं दुर्वारणं रणे
यत्ताः सेनामहेष्वासाः पर्यरक्षन्त सर्वशः
MBh 8.32.83
नानावादित्रघोषाश्च प्रादुरासन्विशां पते
सिंहनादश्च संजज्ञे शूराणामनिवर्तिनाम्
MBh 8.32.84
ततः पुनः समाजग्मुरभीताः कुरुपाण्डवाः
युधिष्ठिरमुखाः पार्थाः सूतपुत्रमुखा वयम्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Karṇa-Parva chapter-index (69 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Karṇa-Parva Ch 31
- Next chapter · Karṇa-Parva Ch 33 →
Sources and Connected Readings
Continue from these 84 source-pinned Devanāgarī addresses to Karṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 8.32local chapter route · Karṇa-ParvaKarṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷