🪷 Mahābhārata · Karṇa-Parva · Chapter 24

The Book of Karṇa · Parva 8 · 161 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 161 Shlokas

MBh 8.24.1
दुर्योधन उवाच भूय एव तु मद्रेश यत्ते वक्ष्यामि तच्छृणु यथा पुरा वृत्तमिदं युद्धे देवासुरे विभो
MBh 8.24.2
यदुक्तवान्पितुर्मह्यं मार्कण्डेयो महानृषिः तदशेषेण ब्रुवतो मम राजर्षिसत्तम त्वं निबोध न चाप्यत्र कर्तव्या ते विचारणा
MBh 8.24.3
देवानामसुराणां च महानासीत्समागमः बभूव प्रथमो राजन्संग्रामस्तारकामयः निर्जिताश्च तदा दैत्या दैवतैरिति नः श्रुतम्
MBh 8.24.4
निर्जितेषु च दैत्येषु तारकस्य सुतास्त्रयः ताराक्षः कमलाक्षश्च विद्युन्माली च पार्थिव
MBh 8.24.5
तप उग्रं समास्थाय नियमे परमे स्थिताः तपसा कर्शयामासुर्देहान्स्वाञ्शत्रुतापन
MBh 8.24.6
दमेन तपसा चैव नियमेन च पार्थिव तेषां पितामहः प्रीतो वरदः प्रददौ वरान्
MBh 8.24.7
अवध्यत्वं च ते राजन्सर्वभूतेषु सर्वदा सहिता वरयामासुः सर्वलोकपितामहम्
MBh 8.24.8
तानब्रवीत्तदा देवो लोकानां प्रभुरीश्वरः नास्ति सर्वामरत्वं हि निवर्तध्वमतोऽसुराः वरमन्यं वृणीध्वं वै यादृशं संप्ररोचते
MBh 8.24.9
ततस्ते सहिता राजन्संप्रधार्यासकृद्बहु सर्वलोकेश्वरं वाक्यं प्रणम्यैनमथाब्रुवन्
MBh 8.24.10
अस्माकं त्वं वरं देव प्रयच्छेमं पितामह वयं पुराणि त्रीण्येव समास्थाय महीमिमाम् विचरिष्याम लोकेऽस्मिंस्त्वत्प्रसादपुरस्कृताः
MBh 8.24.11
ततो वर्षसहस्रे तु समेष्यामः परस्परम् एकीभावं गमिष्यन्ति पुराण्येतानि चानघ
MBh 8.24.12
समागतानि चैतानि यो हन्याद्भगवंस्तदा एकेषुणा देववरः स नो मृत्युर्भविष्यति एवमस्त्विति तान्देवः प्रत्युक्त्वा प्राविशद्दिवम्
MBh 8.24.13
ते तु लब्धवराः प्रीताः संप्रधार्य परस्परम् पुरत्रयविसृष्ट्यर्थं मयं वव्रुर्महासुरम् विश्वकर्माणमजरं दैत्यदानवपूजितम्
MBh 8.24.14
ततो मयः स्वतपसा चक्रे धीमान्पुराणि ह त्रीणि काञ्चनमेकं तु रौप्यं कार्ष्णायसं तथा
MBh 8.24.15
काञ्चनं दिवि तत्रासीदन्तरिक्षे च राजतम् आयसं चाभवद्भूमौ चक्रस्थं पृथिवीपते
MBh 8.24.16
एकैकं योजनशतं विस्तारायामसंमितम् गृहाट्टाट्टालकयुतं बृहत्प्राकारतोरणम्
MBh 8.24.17
गुणप्रसवसंबाधमसंबाधमनामयम् प्रासादैर्विविधैश्चैव द्वारैश्चाप्युपशोभितम्
MBh 8.24.18
पुरेषु चाभवन्राजन्राजानो वै पृथक्पृथक् काञ्चनं तारकाक्षस्य चित्रमासीन्महात्मनः राजतं कमलाक्षस्य विद्युन्मालिन आयसम्
MBh 8.24.19
त्रयस्ते दैत्यराजानस्त्रीँल्लोकानाशु तेजसा आक्रम्य तस्थुर्वर्षाणां पूगान्नाम प्रजापतिः
MBh 8.24.20
तेषां दानवमुख्यानां प्रयुतान्यर्बुदानि च कोट्यश्चाप्रतिवीराणां समाजग्मुस्ततस्ततः महदैश्वर्यमिच्छन्तस्त्रिपुरं दुर्गमाश्रिताः
MBh 8.24.21
सर्वेषां च पुनस्तेषां सर्वयोगवहो मयः तमाश्रित्य हि ते सर्वे अवर्तन्ताकुतोभयाः
MBh 8.24.22
यो हि यं मनसा कामं दध्यौ त्रिपुरसंश्रयः तस्मै कामं मयस्तं तं विदधे मायया तदा
MBh 8.24.23
तारकाक्षसुतश्चासीद्धरिर्नाम महाबलः तपस्तेपे परमकं येनातुष्यत्पितामहः
MBh 8.24.24
स तुष्टमवृणोद्देवं वापी भवतु नः पुरे शस्त्रैर्विनिहता यत्र क्षिप्ताः स्युर्बलवत्तराः
MBh 8.24.25
स तु लब्ध्वा वरं वीरस्तारकाक्षसुतो हरिः ससृजे तत्र वापीं तां मृतानां जीवनीं प्रभो
MBh 8.24.26
येन रूपेण दैत्यस्तु येन वेषेण चैव ह मृतस्तस्यां परिक्षिप्तस्तादृशेनैव जज्ञिवान्
MBh 8.24.27
तां प्राप्य त्रैपुरस्थास्तु सर्वाँल्लोकान्बबाधिरे महता तपसा सिद्धाः सुराणां भयवर्धनाः न तेषामभवद्राजन्क्षयो युद्धे कथंचन
MBh 8.24.28
ततस्ते लोभमोहाभ्यामभिभूता विचेतसः निर्ह्रीकाः संस्थितिं सर्वे स्थापितां समलूलुपन्
MBh 8.24.29
विद्राव्य सगणान्देवांस्तत्र तत्र तदा तदा विचेरुः स्वेन कामेन वरदानेन दर्पिताः
MBh 8.24.30
देवारण्यानि सर्वाणि प्रियाणि च दिवौकसाम् ऋषीणामाश्रमान्पुण्यान्यूपाञ्जनपदांस्तथा व्यनाशयन्त मर्यादा दानवा दुष्टचारिणः
MBh 8.24.31
ते देवाः सहिताः सर्वे पितामहमरिंदम अभिजग्मुस्तदाख्यातुं विप्रकारं सुरेतरैः
MBh 8.24.32
ते तत्त्वं सर्वमाख्याय शिरसाभिप्रणम्य च वधोपायमपृच्छन्त भगवन्तं पितामहम्
MBh 8.24.33
श्रुत्वा तद्भगवान्देवो देवानिदमुवाच ह असुराश्च दुरात्मानस्ते चापि विबुधद्विषः अपराध्यन्ति सततं ये युष्मान्पीडयन्त्युत
MBh 8.24.34
अहं हि तुल्यः सर्वेषां भूतानां नात्र संशयः अधार्मिकास्तु हन्तव्या इत्यहं प्रब्रवीमि वः
MBh 8.24.35
ते यूयं स्थाणुमीशानं जिष्णुमक्लिष्टकारिणम् योद्धारं वृणुतादित्याः स तान्हन्ता सुरेतरान्
MBh 8.24.36
इति तस्य वचः श्रुत्वा देवाः शक्रपुरोगमाः ब्रह्माणमग्रतः कृत्वा वृषाङ्कं शरणं ययुः
MBh 8.24.37
तपः परं समातस्थुर्गृणन्तो ब्रह्म शाश्वतम् ऋषिभिः सह धर्मज्ञा भवं सर्वात्मना गताः
MBh 8.24.38
तुष्टुवुर्वाग्भिरर्थ्याभिर्भयेष्वभयकृत्तमम् सर्वात्मानं महात्मानं येनाप्तं सर्वमात्मना
MBh 8.24.39
तपोविशेषैर्बहुभिर्योगं यो वेद चात्मनः यः सांख्यमात्मनो वेद यस्य चात्मा वशे सदा
MBh 8.24.40
ते तं ददृशुरीशानं तेजोराशिमुमापतिम् अनन्यसदृशं लोके व्रतवन्तमकल्मषम्
MBh 8.24.41
एकं च भगवन्तं ते नानारूपमकल्पयन् आत्मनः प्रतिरूपाणि रूपाण्यथ महात्मनि परस्परस्य चापश्यन्सर्वे परमविस्मिताः
MBh 8.24.42
सर्वभूतमयं चेशं तमजं जगतः पतिम् देवा ब्रह्मर्षयश्चैव शिरोभिर्धरणीं गताः
MBh 8.24.43
तान्स्वस्तिवाक्येनाभ्यर्च्य समुत्थाप्य च शंकरः ब्रूत ब्रूतेति भगवान्स्मयमानोऽभ्यभाषत
MBh 8.24.44
त्र्यम्बकेणाभ्यनुज्ञातास्ततस्तेऽस्वस्थचेतसः नमो नमस्तेऽस्तु विभो तत इत्यब्रुवन्भवम्
MBh 8.24.45
नमो देवातिदेवाय धन्विने चातिमन्यवे प्रजापतिमखघ्नाय प्रजापतिभिरीड्यसे
MBh 8.24.46
नमः स्तुताय स्तुत्याय स्तूयमानाय मृत्यवे विलोहिताय रुद्राय नीलग्रीवाय शूलिने
MBh 8.24.47
अमोघाय मृगाक्षाय प्रवरायुधयोधिने दुर्वारणाय शुक्राय ब्रह्मणे ब्रह्मचारिणे
MBh 8.24.48
ईशानायाप्रमेयाय नियन्त्रे चर्मवाससे तपोनित्याय पिङ्गाय व्रतिने कृत्तिवाससे
MBh 8.24.49
कुमारपित्रे त्र्यक्षाय प्रवरायुधधारिणे प्रपन्नार्तिविनाशाय ब्रह्मद्विट्संघघातिने
MBh 8.24.50
वनस्पतीनां पतये नराणां पतये नमः गवां च पतये नित्यं यज्ञानां पतये नमः
MBh 8.24.51
नमोऽस्तु ते ससैन्याय त्र्यम्बकायोग्रतेजसे मनोवाक्कर्मभिर्देव त्वां प्रपन्नान्भजस्व नः
MBh 8.24.52
ततः प्रसन्नो भगवान्स्वागतेनाभिनन्द्य तान् प्रोवाच व्येतु वस्त्रासो ब्रूत किं करवाणि वः
MBh 8.24.53
पितृदेवर्षिसंघेभ्यो वरे दत्ते महात्मना सत्कृत्य शंकरं प्राह ब्रह्मा लोकहितं वचः
MBh 8.24.54
तवातिसर्गाद्देवेश प्राजापत्यमिदं पदम् मयाधितिष्ठता दत्तो दानवेभ्यो महान्वरः
MBh 8.24.55
तानतिक्रान्तमर्यादान्नान्यः संहर्तुमर्हति त्वामृते भूतभव्येश त्वं ह्येषां प्रत्यरिर्वधे
MBh 8.24.56
स त्वं देव प्रपन्नानां याचतां च दिवौकसाम् कुरु प्रसादं देवेश दानवाञ्जहि शूलभृत्
MBh 8.24.57
श्रीभगवानुवाच हन्तव्याः शत्रवः सर्वे युष्माकमिति मे मतिः न त्वेकोऽहं वधे तेषां समर्थो वै सुरद्विषाम्
MBh 8.24.58
ते यूयं सहिताः सर्वे मदीयेनास्त्रतेजसा जयध्वं युधि ताञ्शत्रून्संघातो हि महाबलः
MBh 8.24.59
देवा ऊचुः अस्मत्तेजोबलं यावत्तावद्द्विगुणमेव च तेषामिति ह मन्यामो दृष्टतेजोबला हि ते
MBh 8.24.60
भगवानुवाच वध्यास्ते सर्वतः पापा ये युष्मास्वपराधिनः मम तेजोबलार्धेन सर्वांस्तान्घ्नत शात्रवान्
MBh 8.24.61
देवा ऊचुः बिभर्तुं तेजसोऽर्धं ते न शक्ष्यामो महेश्वर सर्वेषां नो बलार्धेन त्वमेव जहि शात्रवान्
MBh 8.24.62
दुर्योधन उवाच ततस्तथेति देवेशस्तैरुक्तो राजसत्तम अर्धमादाय सर्वेभ्यस्तेजसाभ्यधिकोऽभवत्
MBh 8.24.63
स तु देवो बलेनासीत्सर्वेभ्यो बलवत्तरः महादेव इति ख्यातस्तदाप्रभृति शंकरः
MBh 8.24.64
ततोऽब्रवीन्महादेवो धनुर्बाणधरस्त्वहम् हनिष्यामि रथेनाजौ तान्रिपून्वै दिवौकसः
MBh 8.24.65
ते यूयं मे रथं चैव धनुर्बाणं तथैव च पश्यध्वं यावदद्यैतान्पातयामि महीतले
MBh 8.24.66
देवा ऊचुः मूर्तिसर्वस्वमादाय त्रैलोक्यस्य ततस्ततः रथं ते कल्पयिष्याम देवेश्वर महौजसम्
MBh 8.24.67
तथैव बुद्ध्या विहितं विश्वकर्मकृतं शुभम् ततो विबुधशार्दूलास्तं रथं समकल्पयन्
MBh 8.24.68
वन्धुरं पृथिवीं देवीं विशालपुरमालिनीम् सपर्वतवनद्वीपां चक्रुर्भूतधरां तदा
MBh 8.24.69
मन्दरं पर्वतं चाक्षं जङ्घास्तस्य महानदीः दिशश्च प्रदिशश्चैव परिवारं रथस्य हि
MBh 8.24.70
अनुकर्षान्ग्रहान्दीप्तान्वरूथं चापि तारकाः धर्मार्थकामसंयुक्तं त्रिवेणुं चापि बन्धुरम् ओषधीर्विविधास्तत्र नानापुष्पफलोद्गमाः
MBh 8.24.71
सूर्याचन्द्रमसौ कृत्वा चक्रे रथवरोत्तमे पक्षौ पूर्वापरौ तत्र कृते रात्र्यहनी शुभे
MBh 8.24.72
दश नागपतीनीषां धृतराष्ट्रमुखान्दृढाम् द्यां युगं युगचर्माणि संवर्तकबलाहकान्
MBh 8.24.73
शम्यां धृतिं च मेधां च स्थितिं संनतिमेव च ग्रहनक्षत्रताराभिश्चर्म चित्रं नभस्तलम्
MBh 8.24.74
सुराम्बुप्रेतवित्तानां पतीँल्लोकेश्वरान्हयान् सिनीवालीमनुमतिं कुहूं राकां च सुव्रताम् योक्त्राणि चक्रुर्वाहानां रोहकांश्चापि कण्ठकम्
MBh 8.24.75
कर्म सत्यं तपोऽर्थश्च विहितास्तत्र रश्मयः अधिष्ठानं मनस्त्वासीत्परिरथ्यं सरस्वती
MBh 8.24.76
नानावर्णाश्च चित्राश्च पताकाः पवनेरिताः विद्युदिन्द्रधनुर्नद्धं रथं दीप्तं व्यदीपयत्
MBh 8.24.77
एवं तस्मिन्महाराज कल्पिते रथसत्तमे देवैर्मनुजशार्दूल द्विषतामभिमर्दने
MBh 8.24.78
स्वान्यायुधानि मुख्यानि न्यदधाच्छंकरो रथे रथयष्टिं वियत्कृष्टां स्थापयामास गोवृषम्
MBh 8.24.79
ब्रह्मदण्डः कालदण्डो रुद्रदण्डस्तथा ज्वरः परिस्कन्दा रथस्यास्य सर्वतोदिशमुद्यताः
MBh 8.24.80
अथर्वाङ्गिरसावास्तां चक्ररक्षौ महात्मनः ऋग्वेदः सामवेदश्च पुराणं च पुरःसराः
MBh 8.24.81
इतिहासयजुर्वेदौ पृष्ठरक्षौ बभूवतुः दिव्या वाचश्च विद्याश्च परिपार्श्वचराः कृताः
MBh 8.24.82
तोत्त्रादयश्च राजेन्द्र वषट्कारस्तथैव च ओंकारश्च मुखे राजन्नतिशोभाकरोऽभवत्
MBh 8.24.83
विचित्रमृतुभिः षड्भिः कृत्वा संवत्सरं धनुः तस्मान्नॄणां कालरात्रिर्ज्या कृता धनुषोऽजरा
MBh 8.24.84
इषुश्चाप्यभवद्विष्णुर्ज्वलनः सोम एव च अग्नीषोमौ जगत्कृत्स्नं वैष्णवं चोच्यते जगत्
MBh 8.24.85
विष्णुश्चात्मा भगवतो भवस्यामिततेजसः तस्माद्धनुर्ज्यासंस्पर्शं न विषेहुर्हरस्य ते
MBh 8.24.86
तस्मिञ्शरे तिग्ममन्युर्मुमोचाविषहं प्रभुः भृग्वङ्गिरोमन्युभवं क्रोधाग्निमतिदुःसहम्
MBh 8.24.87
स नीललोहितो धूम्रः कृत्तिवासा भयंकरः आदित्यायुतसंकाशस्तेजोज्वालावृतो ज्वलन्
MBh 8.24.88
दुश्च्यावश्च्यावनो जेता हन्ता ब्रह्मद्विषां हरः नित्यं त्राता च हन्ता च धर्माधर्माश्रिताञ्जनान्
MBh 8.24.89
प्रमाथिभिर्घोररूपैर्भीमोदग्रैर्गणैर्वृतः विभाति भगवान्स्थाणुस्तैरेवात्मगुणैर्वृतः
MBh 8.24.90
तस्याङ्गानि समाश्रित्य स्थितं विश्वमिदं जगत् जङ्गमाजङ्गमं राजञ्शुशुभेऽद्भुतदर्शनम्
MBh 8.24.91
दृष्ट्वा तु तं रथं दिव्यं कवची स शरासनी बाणमादत्त तं दिव्यं सोमविष्ण्वग्निसंभवम्
MBh 8.24.92
तस्य वाजांस्ततो देवाः कल्पयां चक्रिरे विभोः पुण्यगन्धवहं राजञ्श्वसनं राजसत्तम
MBh 8.24.93
तमास्थाय महादेवस्त्रासयन्दैवतान्यपि आरुरोह तदा यत्तः कम्पयन्निव रोदसी
MBh 8.24.94
स शोभमानो वरदः खड्गी बाणी शरासनी हसन्निवाब्रवीद्देवो सारथिः को भविष्यति
MBh 8.24.95
तमब्रुवन्देवगणा यं भवान्संनियोक्ष्यते स भविष्यति देवेश सारथिस्ते न संशयः
MBh 8.24.96
तानब्रवीत्पुनर्देवो मत्तः श्रेष्ठतरो हि यः तं सारथिं कुरुध्वं मे स्वयं संचिन्त्य माचिरम्
MBh 8.24.97
एतच्छ्रुत्वा ततो देवा वाक्यमुक्तं महात्मना गत्वा पितामहं देवं प्रसाद्यैवं वचोऽब्रुवन्
MBh 8.24.98
देव त्वयेदं कथितं त्रिदशारिनिबर्हणम् तथा च कृतमस्माभिः प्रसन्नो वृषभध्वजः
MBh 8.24.99
रथश्च विहितोऽस्माभिर्विचित्रायुधसंवृतः सारथिं तु न जानीमः कः स्यात्तस्मिन्रथोत्तमे
MBh 8.24.100
तस्माद्विधीयतां कश्चित्सारथिर्देवसत्तम सफलां तां गिरं देव कर्तुमर्हसि नो विभो
MBh 8.24.101
एवमस्मासु हि पुरा भगवन्नुक्तवानसि हितं कर्तास्मि भवतामिति तत्कर्तुमर्हसि
MBh 8.24.102
स देव युक्तो रथसत्तमो नो; दुरावरो द्रावणः शात्रवाणाम् पिनाकपाणिर्विहितोऽत्र योद्धा; विभीषयन्दानवानुद्यतोऽसौ
MBh 8.24.103
तथैव वेदाश्चतुरो हयाग्र्या; धरा सशैला च रथो महात्मन् नक्षत्रवंशोऽनुगतो वरूथे; यस्मिन्योद्धा सारथिनाभिरक्ष्यः
MBh 8.24.104
तत्र सारथिरेष्टव्यः सर्वैरेतैर्विशेषवान् तत्प्रतिष्ठो रथो देव हया योद्धा तथैव च कवचानि च शस्त्राणि कार्मुकं च पितामह
MBh 8.24.105
त्वामृते सारथिं तत्र नान्यं पश्यामहे वयम् त्वं हि सर्वैर्गुणैर्युक्तो देवताभ्योऽधिकः प्रभो सारथ्ये तूर्णमारोह संयच्छ परमान्हयान्
MBh 8.24.106
इति ते शिरसा नत्वा त्रिलोकेशं पितामहम् देवाः प्रसादयामासुः सारथ्यायेति नः श्रुतम्
MBh 8.24.107
ब्रह्मोवाच नात्र किंचिन्मृषा वाक्यं यदुक्तं वो दिवौकसः संयच्छामि हयानेष युध्यतो वै कपर्दिनः
MBh 8.24.108
ततः स भगवान्देवो लोकस्रष्टा पितामहः सारथ्ये कल्पितो देवैरीशानस्य महात्मनः
MBh 8.24.109
तस्मिन्नारोहति क्षिप्रं स्यन्दनं लोकपूजिते शिरोभिरगमंस्तूर्णं ते हया वातरंहसः
MBh 8.24.110
महेश्वरे त्वारुहति जानुभ्यामगमन्महीम्
MBh 8.24.111
अभीशून्हि त्रिलोकेशः संगृह्य प्रपितामहः तानश्वांश्चोदयामास मनोमारुतरंहसः
MBh 8.24.112
ततोऽधिरूढे वरदे प्रयाते चासुरान्प्रति साधु साध्विति विश्वेशः स्मयमानोऽभ्यभाषत
MBh 8.24.113
याहि देव यतो दैत्याश्चोदयाश्वानतन्द्रितः पश्य बाह्वोर्बलं मेऽद्य निघ्नतः शात्रवान्रणे
MBh 8.24.114
ततस्तांश्चोदयामास वायुवेगसमाञ्जवे येन तत्त्रिपुरं राजन्दैत्यदानवरक्षितम्
MBh 8.24.115
अथाधिज्यं धनुः कृत्वा शर्वः संधाय तं शरम् युक्त्वा पाशुपतास्त्रेण त्रिपुरं समचिन्तयत्
MBh 8.24.116
तस्मिन्स्थिते तदा राजन्क्रुद्धे विधृतकार्मुके पुराणि तानि कालेन जग्मुरेकत्वतां तदा
MBh 8.24.117
एकीभावं गते चैव त्रिपुरे समुपागते बभूव तुमुलो हर्षो दैवतानां महात्मनाम्
MBh 8.24.118
ततो देवगणाः सर्वे सिद्धाश्च परमर्षयः जयेति वाचो मुमुचुः संस्तुवन्तो मुदान्विताः
MBh 8.24.119
ततोऽग्रतः प्रादुरभूत्त्रिपुरं जघ्नुषोऽसुरान् अनिर्देश्योग्रवपुषो देवस्यासह्यतेजसः
MBh 8.24.120
स तद्विकृष्य भगवान्दिव्यं लोकेश्वरो धनुः त्रैलोक्यसारं तमिषुं मुमोच त्रिपुरं प्रति तत्सासुरगणं दग्ध्वा प्राक्षिपत्पश्चिमार्णवे
MBh 8.24.121
एवं तत्त्रिपुरं दग्धं दानवाश्चाप्यशेषतः महेश्वरेण क्रुद्धेन त्रैलोक्यस्य हितैषिणा
MBh 8.24.122
स चात्मक्रोधजो वह्निर्हाहेत्युक्त्वा निवारितः मा कार्षीर्भस्मसाल्लोकानिति त्र्यक्षोऽब्रवीच्च तम्
MBh 8.24.123
ततः प्रकृतिमापन्ना देवा लोकास्तथर्षयः तुष्टुवुर्वाग्भिरर्थ्याभिः स्थाणुमप्रतिमौजसम्
MBh 8.24.124
तेऽनुज्ञाता भगवता जग्मुः सर्वे यथागतम् कृतकामाः प्रसन्नेन प्रजापतिमुखाः सुराः
MBh 8.24.125
यथैव भगवान्ब्रह्मा लोकधाता पितामहः संयच्छ त्वं हयानस्य राधेयस्य महात्मनः
MBh 8.24.126
त्वं हि कृष्णाच्च कर्णाच्च फल्गुनाच्च विशेषतः विशिष्टो राजशार्दूल नास्ति तत्र विचारणा
MBh 8.24.127
युद्धे ह्ययं रुद्रकल्पस्त्वं च ब्रह्मसमोऽनघ तस्माच्छक्तौ युवां जेतुं मच्छत्रूंस्ताविवासुरान्
MBh 8.24.128
यथा शल्याद्य कर्णोऽयं श्वेताश्वं कृष्णसारथिम् प्रमथ्य हन्यात्कौन्तेयं तथा शीघ्रं विधीयताम् त्वयि कर्णश्च राज्यं च वयं चैव प्रतिष्ठिताः
MBh 8.24.129
इमं चाप्यपरं भूय इतिहासं निबोध मे पितुर्मम सकाशे यं ब्राह्मणः प्राह धर्मवित्
MBh 8.24.130
श्रुत्वा चैतद्वचश्चित्रं हेतुकार्यार्थसंहितम् कुरु शल्य विनिश्चित्य मा भूदत्र विचारणा
MBh 8.24.131
भार्गवाणां कुले जातो जमदग्निर्महातपाः तस्य रामेति विख्यातः पुत्रस्तेजोगुणान्वितः
MBh 8.24.132
स तीव्रं तप आस्थाय प्रसादयितवान्भवम् अस्त्रहेतोः प्रसन्नात्मा नियतः संयतेन्द्रियः
MBh 8.24.133
तस्य तुष्टो महादेवो भक्त्या च प्रशमेन च हृद्गतं चास्य विज्ञाय दर्शयामास शंकरः
MBh 8.24.134
ईश्वर उवाच राम तुष्टोऽस्मि भद्रं ते विदितं मे तवेप्सितम् कुरुष्व पूतमात्मानं सर्वमेतदवाप्स्यसि
MBh 8.24.135
दास्यामि ते तदास्त्राणि यदा पूतो भविष्यसि अपात्रमसमर्थं च दहन्त्यस्त्राणि भार्गव
MBh 8.24.136
इत्युक्तो जामदग्न्यस्तु देवदेवेन शूलिना प्रत्युवाच महात्मानं शिरसावनतः प्रभुम्
MBh 8.24.137
यदा जानासि देवेश पात्रं मामस्त्रधारणे तदा शुश्रूषतेऽस्त्राणि भवान्मे दातुमर्हति
MBh 8.24.138
दुर्योधन उवाच ततः स तपसा चैव दमेन नियमेन च पूजोपहारबलिभिर्होममन्त्रपुरस्कृतैः
MBh 8.24.139
आराधयितवाञ्शर्वं बहून्वर्षगणांस्तदा प्रसन्नश्च महादेवो भार्गवस्य महात्मनः
MBh 8.24.140
अब्रवीत्तस्य बहुशो गुणान्देव्याः समीपतः भक्तिमानेष सततं मयि रामो दृढव्रतः
MBh 8.24.141
एवं तस्य गुणान्प्रीतो बहुशोऽकथयत्प्रभुः देवतानां पितॄणां च समक्षमरिसूदनः
MBh 8.24.142
एतस्मिन्नेव काले तु दैत्या आसन्महाबलाः तैस्तदा दर्पमोहान्धैरबाध्यन्त दिवौकसः
MBh 8.24.143
ततः संभूय विबुधास्तान्हन्तुं कृतनिश्चयाः चक्रुः शत्रुवधे यत्नं न शेकुर्जेतुमेव ते
MBh 8.24.144
अभिगम्य ततो देवा महेश्वरमथाब्रुवन् प्रसादयन्तस्तं भक्त्या जहि शत्रुगणानिति
MBh 8.24.145
प्रतिज्ञाय ततो देवो देवतानां रिपुक्षयम् रामं भार्गवमाहूय सोऽभ्यभाषत शंकरः
MBh 8.24.146
रिपून्भार्गव देवानां जहि सर्वान्समागतान् लोकानां हितकामार्थं मत्प्रीत्यर्थं तथैव च
MBh 8.24.147
राम उवाच अकृतास्त्रस्य देवेश का शक्तिर्मे महेश्वर निहन्तुं दानवान्सर्वान्कृतास्त्रान्युद्धदुर्मदान्
MBh 8.24.148
ईश्वर उवाच गच्छ त्वं मदनुध्यानान्निहनिष्यसि दानवान् विजित्य च रिपून्सर्वान्गुणान्प्राप्स्यसि पुष्कलान्
MBh 8.24.149
दुर्योधन उवाच एतच्छ्रुत्वा च वचनं प्रतिगृह्य च सर्वशः रामः कृतस्वस्त्ययनः प्रययौ दानवान्प्रति
MBh 8.24.150
अवधीद्देवशत्रूंस्तान्मददर्पबलान्वितान् वज्राशनिसमस्पर्शैः प्रहारैरेव भार्गवः
MBh 8.24.151
स दानवैः क्षततनुर्जामदग्न्यो द्विजोत्तमः संस्पृष्टः स्थाणुना सद्यो निर्व्रणः समजायत
MBh 8.24.152
प्रीतश्च भगवान्देवः कर्मणा तेन तस्य वै वरान्प्रादाद्ब्रह्मविदे भार्गवाय महात्मने
MBh 8.24.153
उक्तश्च देवदेवेन प्रीतियुक्तेन शूलिना निपातात्तव शस्त्राणां शरीरे याभवद्रुजा
MBh 8.24.154
तया ते मानुषं कर्म व्यपोढं भृगुनन्दन गृहाणास्त्राणि दिव्यानि मत्सकाशाद्यथेप्सितम्
MBh 8.24.155
ततोऽस्त्राणि समस्तानि वरांश्च मनसेप्सितान् लब्ध्वा बहुविधान्रामः प्रणम्य शिरसा शिवम्
MBh 8.24.156
अनुज्ञां प्राप्य देवेशाज्जगाम स महातपाः एवमेतत्पुरावृत्तं तदा कथितवानृषिः
MBh 8.24.157
भार्गवोऽप्यददात्सर्वं धनुर्वेदं महात्मने कर्णाय पुरुषव्याघ्र सुप्रीतेनान्तरात्मना
MBh 8.24.158
वृजिनं हि भवेत्किंचिद्यदि कर्णस्य पार्थिव नास्मै ह्यस्त्राणि दिव्यानि प्रादास्यद्भृगुनन्दनः
MBh 8.24.159
नापि सूतकुले जातं कर्णं मन्ये कथंचन देवपुत्रमहं मन्ये क्षत्रियाणां कुलोद्भवम्
MBh 8.24.160
सकुण्डलं सकवचं दीर्घबाहुं महारथम् कथमादित्यसदृशं मृगी व्याघ्रं जनिष्यति
MBh 8.24.161
पश्य ह्यस्य भुजौ पीनौ नागराजकरोपमौ वक्षः पश्य विशालं च सर्वशत्रुनिबर्हणम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 161 source-pinned Devanāgarī addresses to Karṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 8.24local chapter route · Karṇa-ParvaKarṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷