🪷 Mahābhārata · Karṇa-Parva · Chapter 23
The Book of Karṇa · Parva 8 · 54 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 54 Shlokas
MBh 8.23.1
संजय उवाच
पुत्रस्तव महाराज मद्रराजमिदं वचः
विनयेनोपसंगम्य प्रणयाद्वाक्यमब्रवीत्
MBh 8.23.2
सत्यव्रत महाभाग द्विषतामघवर्धन
मद्रेश्वर रणे शूर परसैन्यभयंकर
MBh 8.23.3
श्रुतवानसि कर्णस्य ब्रुवतो वदतां वर
यथा नृपतिसिंहानां मध्ये त्वां वरयत्ययम्
MBh 8.23.4
तस्मात्पार्थविनाशार्थं हितार्थं मम चैव हि
सारथ्यं रथिनां श्रेष्ठ सुमनाः कर्तुमर्हसि
MBh 8.23.5
अस्याभीशुग्रहो लोके नान्योऽस्ति भवता समः
स पातु सर्वतः कर्णं भवान्ब्रह्मेव शंकरम्
MBh 8.23.6
पार्थस्य सचिवः कृष्णो यथाभीशुग्रहो वरः
तथा त्वमपि राधेयं सर्वतः परिपालय
MBh 8.23.7
भीष्मो द्रोणः कृपः कर्णो भवान्भोजश्च वीर्यवान्
शकुनिः सौबलो द्रौणिरहमेव च नो बलम्
एषामेव कृतो भागो नवधा पृतनापते
MBh 8.23.8
नैव भागोऽत्र भीष्मस्य द्रोणस्य च महात्मनः
ताभ्यामतीत्य तौ भागौ निहता मम शत्रवः
MBh 8.23.9
वृद्धौ हि तौ नरव्याघ्रौ छलेन निहतौ च तौ
कृत्वा नसुकरं कर्म गतौ स्वर्गमितोऽनघ
MBh 8.23.10
तथान्ये पुरुषव्याघ्राः परैर्विनिहता युधि
अस्मदीयाश्च बहवः स्वर्गायोपगता रणे
त्यक्त्वा प्राणान्यथाशक्ति चेष्टाः कृत्वा च पुष्कलाः
MBh 8.23.11
कर्णो ह्येको महाबाहुरस्मत्प्रियहिते रतः
भवांश्च पुरुषव्याघ्र सर्वलोकमहारथः
तस्मिञ्जयाशा विपुला मम मद्रजनाधिप
MBh 8.23.12
पार्थस्य समरे कृष्णो यथाभीशुवरग्रहः
तेन युक्तो रणे पार्थो रक्ष्यमाणश्च पार्थिव
यानि कर्माणि कुरुते प्रत्यक्षाणि तथैव ते
MBh 8.23.13
पूर्वं न समरे ह्येवमवधीदर्जुनो रिपून्
अहन्यहनि मद्रेश द्रावयन्दृश्यते युधि
MBh 8.23.14
भागोऽवशिष्टः कर्णस्य तव चैव महाद्युते
तं भागं सह कर्णेन युगपन्नाशयाहवे
MBh 8.23.15
सूर्यारुणौ यथा दृष्ट्वा तमो नश्यति मारिष
तथा नश्यन्तु कौन्तेयाः सपाञ्चालाः ससृञ्जयाः
MBh 8.23.16
रथानां प्रवरः कर्णो यन्तॄणां प्रवरो भवान्
संनिपातः समो लोके भवतोर्नास्ति कश्चन
MBh 8.23.17
यथा सर्वास्ववस्थासु वार्ष्णेयः पाति पाण्डवम्
तथा भवान्परित्रातु कर्णं वैकर्तनं रणे
MBh 8.23.18
त्वया सारथिना ह्येष अप्रधृष्यो भविष्यति
देवतानामपि रणे सशक्राणां महीपते
किं पुनः पाण्डवेयानां मातिशङ्कीर्वचो मम
MBh 8.23.19
दुर्योधनवचः श्रुत्वा शल्यः क्रोधसमन्वितः
त्रिशिखां भ्रुकुटीं कृत्वा धुन्वन्हस्तौ पुनः पुनः
MBh 8.23.20
क्रोधरक्ते महानेत्रे परिवर्त्य महाभुजः
कुलैश्वर्यश्रुतिबलैर्दृप्तः शल्योऽब्रवीदिदम्
MBh 8.23.21
अवमन्यसे मां गान्धारे ध्रुवं मां परिशङ्कसे
यन्मां ब्रवीषि विस्रब्धं सारथ्यं क्रियतामिति
MBh 8.23.22
अस्मत्तोऽभ्यधिकं कर्णं मन्यमानः प्रशंससि
न चाहं युधि राधेयं गणये तुल्यमात्मना
MBh 8.23.23
आदिश्यतामभ्यधिको ममांशः पृथिवीपते
तमहं समरे हत्वा गमिष्यामि यथागतम्
MBh 8.23.24
अथ वाप्येक एवाहं योत्स्यामि कुरुनन्दन
पश्य वीर्यं ममाद्य त्वं संग्रामे दहतो रिपून्
MBh 8.23.25
न चाभिकामान्कौरव्य विधाय हृदये पुमान्
अस्मद्विधः प्रवर्तेत मा मा त्वमतिशङ्किथाः
MBh 8.23.26
युधि चाप्यवमानो मे न कर्तव्यः कथंचन
पश्य हीमौ मम भुजौ वज्रसंहननोपमौ
MBh 8.23.27
धनुः पश्य च मे चित्रं शरांश्चाशीविषोपमान्
रथं पश्य च मे कॢप्तं सदश्वैर्वातवेगितैः
गदां च पश्य गान्धारे हेमपट्टविभूषिताम्
MBh 8.23.28
दारयेयं महीं क्रुद्धो विकिरेयं च पर्वतान्
शोषयेयं समुद्रांश्च तेजसा स्वेन पार्थिव
MBh 8.23.29
तन्मामेवंविधं जानन्समर्थमरिनिग्रहे
कस्माद्युनक्षि सारथ्ये न्यूनस्याधिरथेर्नृप
MBh 8.23.30
न नाम धुरि राजेन्द्र प्रयोक्तुं त्वमिहार्हसि
न हि पापीयसः श्रेयान्भूत्वा प्रेष्यत्वमुत्सहे
MBh 8.23.31
यो ह्यभ्युपगतं प्रीत्या गरीयांसं वशे स्थितम्
वशे पापीयसो धत्ते तत्पापमधरोत्तरम्
MBh 8.23.32
ब्राह्मणा ब्रह्मणा सृष्टा मुखात्क्षत्रमथोरसः
ऊरुभ्यामसृजद्वैश्याञ्शूद्रान्पद्भ्यामिति श्रुतिः
तेभ्यो वर्णविशेषाश्च प्रतिलोमानुलोमजाः
MBh 8.23.33
अथान्योन्यस्य संयोगाच्चातुर्वर्ण्यस्य भारत
गोप्तारः संग्रहीतारो दातारः क्षत्रियाः स्मृताः
MBh 8.23.34
याजनाध्यापनैर्विप्रा विशुद्धैश्च प्रतिग्रहैः
लोकस्यानुग्रहार्थाय स्थापिता ब्रह्मणा भुवि
MBh 8.23.35
कृषिश्च पाशुपाल्यं च विशां दानं च सर्वशः
ब्रह्मक्षत्रविशां शूद्रा विहिताः परिचारकाः
MBh 8.23.36
ब्रह्मक्षत्रस्य विहिताः सूता वै परिचारकाः
न विट्शूद्रस्य तत्रैव शृणु वाक्यं ममानघ
MBh 8.23.37
सोऽहं मूर्धावसिक्तः सन्राजर्षिकुलसंभवः
महारथः समाख्यातः सेव्यः स्तव्यश्च बन्दिनाम्
MBh 8.23.38
सोऽहमेतादृशो भूत्वा नेहारिकुलमर्दन
सूतपुत्रस्य संग्रामे सारथ्यं कर्तुमुत्सहे
MBh 8.23.39
अवमानमहं प्राप्य न योत्स्यामि कथंचन
आपृच्छ्य त्वाद्य गान्धारे गमिष्यामि यथागतम्
MBh 8.23.40
एवमुक्त्वा नरव्याघ्रः शल्यः समितिशोभनः
उत्थाय प्रययौ तूर्णं राजमध्यादमर्षितः
MBh 8.23.41
प्रणयाद्बहुमानाच्च तं निगृह्य सुतस्तव
अब्रवीन्मधुरं वाक्यं साम सर्वार्थसाधकम्
MBh 8.23.42
यथा शल्य त्वमात्थेदमेवमेतदसंशयम्
अभिप्रायस्तु मे कश्चित्तं निबोध जनेश्वर
MBh 8.23.43
न कर्णोऽभ्यधिकस्त्वत्तः शङ्के नैव कथंचन
न हि मद्रेश्वरो राजा कुर्याद्यदनृतं भवेत्
MBh 8.23.44
ऋतमेव हि पूर्वास्ते वहन्ति पुरुषोत्तमाः
तस्मादार्तायनिः प्रोक्तो भवानिति मतिर्मम
MBh 8.23.45
शल्यभूतश्च शत्रूणां यस्मात्त्वं भुवि मानद
तस्माच्छल्येति ते नाम कथ्यते पृथिवीपते
MBh 8.23.46
यदेव व्याहृतं पूर्वं भवता भूरिदक्षिण
तदेव कुरु धर्मज्ञ मदर्थं यद्यदुच्यसे
MBh 8.23.47
न च त्वत्तो हि राधेयो न चाहमपि वीर्यवान्
वृणीमस्त्वां हयाग्र्याणां यन्तारमिति संयुगे
MBh 8.23.48
यथा ह्यभ्यधिकं कर्णं गुणैस्तात धनंजयात्
वासुदेवादपि त्वां च लोकोऽयमिति मन्यते
MBh 8.23.49
कर्णो ह्यभ्यधिकः पार्थादस्त्रैरेव नरर्षभ
भवानप्यधिकः कृष्णादश्वयाने बले तथा
MBh 8.23.50
यथाश्वहृदयं वेद वासुदेवो महामनाः
द्विगुणं त्वं तथा वेत्थ मद्रराज न संशयः
MBh 8.23.51
शल्य उवाच
यन्मा ब्रवीषि गान्धारे मध्ये सैन्यस्य कौरव
विशिष्टं देवकीपुत्रात्प्रीतिमानस्म्यहं त्वयि
MBh 8.23.52
एष सारथ्यमातिष्ठे राधेयस्य यशस्विनः
युध्यतः पाण्डवाग्र्येण यथा त्वं वीर मन्यसे
MBh 8.23.53
समयश्च हि मे वीर कश्चिद्वैकर्तनं प्रति
उत्सृजेयं यथाश्रद्धमहं वाचोऽस्य संनिधौ
MBh 8.23.54
संजय उवाच
तथेति राजन्पुत्रस्ते सह कर्णेन भारत
अब्रवीन्मद्रराजस्य सुतं भरतसत्तम
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Karṇa-Parva chapter-index (69 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Karṇa-Parva Ch 22
- Next chapter · Karṇa-Parva Ch 24 →
Sources and Connected Readings
Continue from these 54 source-pinned Devanāgarī addresses to Karṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 8.23local chapter route · Karṇa-ParvaKarṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷