🪷 Mahābhārata · Droṇa-Parva · Chapter 71

The Book of Droṇa · Parva 7 · 31 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 31 Shlokas

MBh 7.71.1
संजय उवाच राजन्संग्राममाश्चर्यं शृणु कीर्तयतो मम कुरूणां पाण्डवानां च यथा युद्धमवर्तत
MBh 7.71.2
भारद्वाजं समासाद्य व्यूहस्य प्रमुखे स्थितम् अयोधयन्रणे पार्था द्रोणानीकं बिभित्सवः
MBh 7.71.3
रक्षमाणाः स्वकं व्यूहं द्रोणस्यापि च सैनिकाः अयोधयन्रणे पार्थान्प्रार्थयन्तो महद्यशः
MBh 7.71.4
विन्दानुविन्दावावन्त्यौ विराटं दशभिः शरैः आजघ्नतुः सुसंक्रुद्धौ तव पुत्रहितैषिणौ
MBh 7.71.5
विराटश्च महाराज तावुभौ समरे स्थितौ पराक्रान्तौ पराक्रम्य योधयामास सानुगौ
MBh 7.71.6
तेषां युद्धं समभवद्दारुणं शोणितोदकम् सिंहस्य द्विपमुख्याभ्यां प्रभिन्नाभ्यां यथा वने
MBh 7.71.7
बाह्लीकं रभसं युद्धे याज्ञसेनिर्महाबलः आजघ्ने विशिखैस्तीक्ष्णैर्घोरैर्मर्मास्थिभेदिभिः
MBh 7.71.8
बाह्लीको याज्ञसेनिं तु हेमपुङ्खैः शिलाशितैः आजघान भृशं क्रुद्धो नवभिर्नतपर्वभिः
MBh 7.71.9
तद्युद्धमभवद्घोरं शरशक्तिसमाकुलम् भीरूणां त्रासजननं शूराणां हर्षवर्धनम्
MBh 7.71.10
ताभ्यां तत्र शरैर्मुक्तैरन्तरिक्षं दिशस्तथा अभवत्संवृतं सर्वं न प्राज्ञायत किंचन
MBh 7.71.11
शैब्यो गोवासनो युद्धे काश्यपुत्रं महारथम् ससैन्यो योधयामास गजः प्रतिगजं यथा
MBh 7.71.12
बाह्लीकराजः संरब्धो द्रौपदेयान्महारथान् मनः पञ्चेन्द्रियाणीव शुशुभे योधयन्रणे
MBh 7.71.13
अयोधयंस्ते च भृशं तं शरौघैः समन्ततः इन्द्रियार्था यथा देहं शश्वद्देहभृतां वर
MBh 7.71.14
वार्ष्णेयं सात्यकिं युद्धे पुत्रो दुःशासनस्तव आजघ्ने सायकैस्तीक्ष्णैर्नवभिर्नतपर्वभिः
MBh 7.71.15
सोऽतिविद्धो बलवता महेष्वासेन धन्विना ईषन्मूर्छां जगामाशु सात्यकिः सत्यविक्रमः
MBh 7.71.16
समाश्वस्तस्तु वार्ष्णेयस्तव पुत्रं महारथम् विव्याध दशभिस्तूर्णं सायकैः कङ्कपत्रिभिः
MBh 7.71.17
तावन्योन्यं दृढं विद्धावन्योन्यशरविक्षतौ रेजतुः समरे राजन्पुष्पिताविव किंशुकौ
MBh 7.71.18
अलम्बुसस्तु संक्रुद्धः कुन्तिभोजशरार्दितः अशोभत परं लक्ष्म्या पुष्पाढ्य इव किंशुकः
MBh 7.71.19
कुन्तिभोजं ततो रक्षो विद्ध्वा बहुभिरायसैः अनदद्भैरवं नादं वाहिन्याः प्रमुखे तव
MBh 7.71.20
ततस्तौ समरे शूरौ योधयन्तौ परस्परम् ददृशुः सर्वभूतानि शक्रजम्भौ यथा पुरा
MBh 7.71.21
शकुनिं रभसं युद्धे कृतवैरं च भारत माद्रीपुत्रौ च संरब्धौ शरैरर्दयतां मृधे
MBh 7.71.22
तन्मूलः स महाराज प्रावर्तत जनक्षयः त्वया संजनितोऽत्यर्थं कर्णेन च विवर्धितः
MBh 7.71.23
उद्धुक्षितश्च पुत्रेण तव क्रोधहुताशनः य इमां पृथिवीं राजन्दग्धुं सर्वां समुद्यतः
MBh 7.71.24
शकुनिः पाण्डुपुत्राभ्यां कृतः स विमुखः शरैः नाभ्यजानत कर्तव्यं युधि किंचित्पराक्रमम्
MBh 7.71.25
विमुखं चैनमालोक्य माद्रीपुत्रौ महारथौ ववर्षतुः पुनर्बाणैर्यथा मेघौ महागिरिम्
MBh 7.71.26
स वध्यमानो बहुभिः शरैः संनतपर्वभिः संप्रायाज्जवनैरश्वैर्द्रोणानीकाय सौबलः
MBh 7.71.27
घटोत्कचस्तथा शूरं राक्षसं तमलायुधम् अभ्ययाद्रभसं युद्धे वेगमास्थाय मध्यमम्
MBh 7.71.28
तयोर्युद्धं महाराज चित्ररूपमिवाभवत् यादृशं हि पुरा वृत्तं रामरावणयोर्मृधे
MBh 7.71.29
ततो युधिष्ठिरो राजा मद्रराजानमाहवे विद्ध्वा पञ्चाशता बाणैः पुनर्विव्याध सप्तभिः
MBh 7.71.30
ततः प्रववृते युद्धं तयोरत्यद्भुतं नृप यथा पूर्वं महद्युद्धं शम्बरामरराजयोः
MBh 7.71.31
विविंशतिश्चित्रसेनो विकर्णश्च तवात्मजः अयोधयन्भीमसेनं महत्या सेनया वृताः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 31 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 7.71local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷