🪷 Mahābhārata · Droṇa-Parva · Chapter 54
The Book of Droṇa · Parva 7 · 26 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 26 Shlokas
MBh 7.54.1
संजय उवाच
तां निशां दुःखशोकार्तौ श्वसन्ताविव चोरगौ
निद्रां नैवोपलेभाते वासुदेवधनंजयौ
MBh 7.54.2
नरनारायणौ क्रुद्धौ ज्ञात्वा देवाः सवासवाः
व्यथिताश्चिन्तयामासुः किं स्विदेतद्भविष्यति
MBh 7.54.3
ववुश्च दारुणा वाता रूक्षा घोराभिशंसिनः
सकबन्धस्तथादित्ये परिघः समदृश्यत
MBh 7.54.4
शुष्काशन्यश्च निष्पेतुः सनिर्घाताः सविद्युतः
चचाल चापि पृथिवी सशैलवनकानना
MBh 7.54.5
चुक्षुभुश्च महाराज सागरा मकरालयाः
प्रतिस्रोतः प्रवृत्ताश्च तथा गन्तुं समुद्रगाः
MBh 7.54.6
रथाश्वनरनागानां प्रवृत्तमधरोत्तरम्
क्रव्यादानां प्रमोदार्थं यमराष्ट्रविवृद्धये
MBh 7.54.7
वाहनानि शकृन्मूत्रे मुमुचू रुरुदुश्च ह
तान्दृष्ट्वा दारुणान्सर्वानुत्पाताँल्लोमहर्षणान्
MBh 7.54.8
सर्वे ते व्यथिताः सैन्यास्त्वदीया भरतर्षभ
श्रुत्वा महाबलस्योग्रां प्रतिज्ञां सव्यसाचिनः
MBh 7.54.9
अथ कृष्णं महाबाहुरब्रवीत्पाकशासनिः
आश्वासय सुभद्रां त्वं भगिनीं स्नुषया सह
MBh 7.54.10
स्नुषा श्वश्र्वानघायस्ते विशोके कुरु माधव
साम्ना सत्येन युक्तेन वचसाश्वासय प्रभो
MBh 7.54.11
ततोऽर्जुनगृहं गत्वा वासुदेवः सुदुर्मनाः
भगिनीं पुत्रशोकार्तामाश्वासयत दुःखिताम्
MBh 7.54.12
मा शोकं कुरु वार्ष्णेयि कुमारं प्रति सस्नुषा
सर्वेषां प्राणिनां भीरु निष्ठैषा कालनिर्मिता
MBh 7.54.13
कुले जतस्य वीरस्य क्षत्रियस्य विशेषतः
सदृशं मरणं ह्येतत्तव पुत्रस्य मा शुचः
MBh 7.54.14
दिष्ट्या महारथो वीरः पितुस्तुल्यपराक्रमः
क्षात्रेण विधिना प्राप्तो वीराभिलषितां गतिम्
MBh 7.54.15
जित्वा सुबहुशः शत्रून्प्रेषयित्वा च मृत्यवे
गतः पुण्यकृतां लोकान्सर्वकामदुहोऽक्षयान्
MBh 7.54.16
तपसा ब्रह्मचर्येण श्रुतेन प्रज्ञयापि च
सन्तो यां गतिमिच्छन्ति प्राप्तस्तां तव पुत्रकः
MBh 7.54.17
वीरसूर्वीरपत्नी त्वं वीरश्वशुरबान्धवा
मा शुचस्तनयं भद्रे गतः स परमां गतिम्
MBh 7.54.18
प्राप्स्यते चाप्यसौ क्षुद्रः सैन्धवो बालघातकः
अस्यावलेपस्य फलं ससुहृद्गणबान्धवः
MBh 7.54.19
व्युष्टायां तु वरारोहे रजन्यां पापकर्मकृत्
न हि मोक्ष्यति पार्थात्स प्रविष्टोऽप्यमरावतीम्
MBh 7.54.20
श्वः शिरः श्रोष्यसे तस्य सैन्धवस्य रणे हृतम्
समन्तपञ्चकाद्बाह्यं विशोका भव मा रुदः
MBh 7.54.21
क्षत्रधर्मं पुरस्कृत्य गतः शूरः सतां गतिम्
यां वयं प्राप्नुयामेह ये चान्ये शस्त्रजीविनः
MBh 7.54.22
व्यूढोरस्को महाबाहुरनिवर्ती वरप्रणुत्
गतस्तव वरारोहे पुत्रः स्वर्गं ज्वरं जहि
MBh 7.54.23
अनु जातश्च पितरं मातृपक्षं च वीर्यवान्
सहस्रशो रिपून्हत्वा हतः शूरो महारथः
MBh 7.54.24
आश्वासय स्नुषां राज्ञि मा शुचः क्षत्रिये भृशम्
श्वः प्रियं सुमहच्छ्रुत्वा विशोका भव नन्दिनि
MBh 7.54.25
यत्पार्थेन प्रतिज्ञातं तत्तथा न तदन्यथा
चिकीर्षितं हि ते भर्तुर्न भवेज्जातु निष्फलम्
MBh 7.54.26
यदि च मनुजपन्नगाः पिशाचा; रजनिचराः पतगाः सुरासुराश्च
रणगतमभियान्ति सिन्धुराजं; न स भविता सह तैरपि प्रभाते
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Droṇa-Parva chapter-index (173 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Droṇa-Parva Ch 53
- Next chapter · Droṇa-Parva Ch 55 →
Sources and Connected Readings
Continue from these 26 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 7.54local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷