🪷 Mahābhārata · Droṇa-Parva · Chapter 51

The Book of Droṇa · Parva 7 · 43 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 43 Shlokas

MBh 7.51.1
युधिष्ठिर उवाच त्वयि याते महाबाहो संशप्तकबलं प्रति प्रयत्नमकरोत्तीव्रमाचार्यो ग्रहणे मम
MBh 7.51.2
व्यूढानीकं वयं द्रोणं वरयामः स्म सर्वशः प्रतिव्यूह्य रथानीकं यतमानं तथा रणे
MBh 7.51.3
स वार्यमाणो रथिभी रक्षितेन मया तथा अस्मानपि जघानाशु पीडयन्निशितैः शरैः
MBh 7.51.4
ते पीड्यमाना द्रोणेन द्रोणानीकं न शक्नुमः प्रतिवीक्षितुमप्याजौ भेत्तुं तत्कुत एव तु
MBh 7.51.5
वयं त्वप्रतिमं वीर्ये सर्वे सौभद्रमात्मजम् उक्तवन्तः स्म ते तात भिन्ध्यनीकमिति प्रभो
MBh 7.51.6
स तथा चोदितोऽस्माभिः सदश्व इव वीर्यवान् असह्यमपि तं भारं वोढुमेवोपचक्रमे
MBh 7.51.7
स तवास्त्रोपदेशेन वीर्येण च समन्वितः प्राविशत्तद्बलं बालः सुपर्ण इव सागरम्
MBh 7.51.8
तेऽनुयाता वयं वीरं सात्वतीपुत्रमाहवे प्रवेष्टुकामास्तेनैव येन स प्राविशच्चमूम्
MBh 7.51.9
ततः सैन्धवको राजा क्षुद्रस्तात जयद्रथः वरदानेन रुद्रस्य सर्वान्नः समवारयत्
MBh 7.51.10
ततो द्रोणः कृपः कर्णो द्रौणिश्च स बृहद्बलः कृतवर्मा च सौभद्रं षड्रथाः पर्यवारयन्
MBh 7.51.11
परिवार्य तु तैः सर्वैर्युधि बालो महारथैः यतमानः परं शक्त्या बहुभिर्विरथीकृतः
MBh 7.51.12
ततो दौःशासनिः क्षिप्रं तथा तैर्विरथीकृतम् संशयं परमं प्राप्य दिष्टान्तेनाभ्ययोजयत्
MBh 7.51.13
स तु हत्वा सहस्राणि द्विपाश्वरथसादिनाम् राजपुत्रशतं चाग्र्यं वीरांश्चालक्षितान्बहून्
MBh 7.51.14
बृहद्बलं च राजानं स्वर्गेणाजौ प्रयोज्य ह ततः परमधर्मात्मा दिष्टान्तमुपजग्मिवान्
MBh 7.51.15
एतावदेव निर्वृत्तमस्माकं शोकवर्धनम् स चैवं पुरुषव्याघ्रः स्वर्गलोकमवाप्तवान्
MBh 7.51.16
संजय उवाच ततोऽर्जुनो वचः श्रुत्वा धर्मराजेन भाषितम् हा पुत्र इति निःश्वस्य व्यथितो न्यपतद्भुवि
MBh 7.51.17
विषण्णवदनाः सर्वे परिगृह्य धनंजयम् नेत्रैरनिमिषैर्दीनाः प्रत्यवेक्षन्परस्परम्
MBh 7.51.18
प्रतिलभ्य ततः संज्ञां वासविः क्रोधमूर्छितः कम्पमानो ज्वरेणेव निःश्वसंश्च मुहुर्मुहुः
MBh 7.51.19
पाणिं पाणौ विनिष्पिष्य श्वसमानोऽश्रुनेत्रवान् उन्मत्त इव विप्रेक्षन्निदं वचनमब्रवीत्
MBh 7.51.20
सत्यं वः प्रतिजानामि श्वोऽस्मि हन्ता जयद्रथम् न चेद्वधभयाद्भीतो धार्तराष्ट्रान्प्रहास्यति
MBh 7.51.21
न चास्माञ्शरणं गच्छेत्कृष्णं वा पुरुषोत्तमम् भवन्तं वा महाराज श्वोऽस्मि हन्ता जयद्रथम्
MBh 7.51.22
धार्तराष्ट्रप्रियकरं मयि विस्मृतसौहृदम् पापं बालवधे हेतुं श्वोऽस्मि हन्ता जयद्रथम्
MBh 7.51.23
रक्षमाणाश्च तं संख्ये ये मां योत्स्यन्ति केचन अपि द्रोणकृपौ वीरौ छादयिष्यामि ताञ्शरैः
MBh 7.51.24
यद्येतदेवं संग्रामे न कुर्यां पुरुषर्षभाः मा स्म पुण्यकृतां लोकान्प्राप्नुयां शूरसंमतान्
MBh 7.51.25
ये लोका मातृहन्तॄणां ये चापि पितृघातिनाम् गुरुदारगामिनां ये च पिशुनानां च ये तथा
MBh 7.51.26
साधूनसूयतां ये च ये चापि परिवादिनाम् ये च निक्षेपहर्तॄणां ये च विश्वासघातिनाम्
MBh 7.51.27
भुक्तपूर्वां स्त्रियं ये च निन्दतामघशंसिनाम् ब्रह्मघ्नानां च ये लोका ये च गोघातिनामपि
MBh 7.51.28
पायसं वा यवान्नं वा शाकं कृसरमेव वा संयावापूपमांसानि ये च लोका वृथाश्नताम् तानह्नैवाधिगच्छेयं न चेद्धन्यां जयद्रथम्
MBh 7.51.29
वेदाध्यायिनमत्यर्थं संशितं वा द्विजोत्तमम् अवमन्यमानो यान्याति वृद्धान्साधूंस्तथा गुरून्
MBh 7.51.30
स्पृशतां ब्राह्मणं गां च पादेनाग्निं च यां लभेत् याप्सु श्लेष्म पुरीषं वा मूत्रं वा मुञ्चतां गतिः तां गच्छेयं गतिं घोरां न चेद्धन्यां जयद्रथम्
MBh 7.51.31
नग्नस्य स्नायमानस्य या च वन्ध्यातिथेर्गतिः उत्कोचिनां मृषोक्तीनां वञ्चकानां च या गतिः आत्मापहारिणां या च या च मिथ्याभिशंसिनाम्
MBh 7.51.32
भृत्यैः संदृश्यमानानां पुत्रदाराश्रितैस्तथा असंविभज्य क्षुद्राणां या गतिर्मृष्टमश्नताम् तां गच्छेयं गतिं घोरां न चेद्धन्यां जयद्रथम्
MBh 7.51.33
संश्रितं वापि यस्त्यक्त्वा साधुं तद्वचने रतम् न बिभर्ति नृशंसात्मा निन्दते चोपकारिणम्
MBh 7.51.34
अर्हते प्रातिवेश्याय श्राद्धं यो न ददाति च अनर्हते च यो दद्याद्वृषलीपत्युरेव च
MBh 7.51.35
मद्यपो भिन्नमर्यादः कृतघ्नो भ्रातृनिन्दकः तेषां गतिमियां क्षिप्रं न चेद्धन्यां जयद्रथम्
MBh 7.51.36
धर्मादपेता ये चान्ये मया नात्रानुकीर्तिताः ये चानुकीर्तिताः क्षिप्रं तेषां गतिमवाप्नुयाम् यदि व्युष्टामिमां रात्रिं श्वो न हन्यां जयद्रथम्
MBh 7.51.37
इमां चाप्यपरां भूयः प्रतिज्ञां मे निबोधत यद्यस्मिन्नहते पापे सूर्योऽस्तमुपयास्यति इहैव संप्रवेष्टाहं ज्वलितं जातवेदसम्
MBh 7.51.38
असुरसुरमनुष्याः पक्षिणो वोरगा वा; पितृरजनिचरा वा ब्रह्मदेवर्षयो वा चरमचरमपीदं यत्परं चापि तस्मा;त्तदपि मम रिपुं तं रक्षितुं नैव शक्ताः
MBh 7.51.39
यदि विशति रसातलं तदग्र्यं; वियदपि देवपुरं दितेः पुरं वा तदपि शरशतैरहं प्रभाते; भृशमभिपत्य रिपोः शिरोऽभिहर्ता
MBh 7.51.40
एवमुक्त्वा विचिक्षेप गाण्डीवं सव्यदक्षिणम् तस्य शब्दमतिक्रम्य धनुःशब्दोऽस्पृशद्दिवम्
MBh 7.51.41
अर्जुनेन प्रतिज्ञाते पाञ्चजन्यं जनार्दनः प्रदध्मौ तत्र संक्रुद्धो देवदत्तं धनंजयः
MBh 7.51.42
स पाञ्चजन्योऽच्युतवक्त्रवायुना; भृशं सुपूर्णोदरनिःसृतध्वनिः जगत्सपातालवियद्दिगीश्वरं; प्रकम्पयामास युगात्यये यथा
MBh 7.51.43
ततो वादित्रघोषाश्च प्रादुरासन्समन्ततः सिंहनादाश्च पाण्डूनां प्रतिज्ञाते महात्मना

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 43 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 7.51local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷