🪷 Mahābhārata · Droṇa-Parva · Chapter 48
The Book of Droṇa · Parva 7 · 53 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 53 Shlokas
MBh 7.48.1
संजय उवाच
विष्णोः स्वसानन्दिकरः स विष्ण्वायुधभूषितः
रराजातिरथः संख्ये जनार्दन इवापरः
MBh 7.48.2
मारुतोद्धूतकेशान्तमुद्यतारिवरायुधम्
वपुः समीक्ष्य पृथ्वीशा दुःसमीक्ष्यं सुरैरपि
MBh 7.48.3
तच्चक्रं भृशमुद्विग्नाः संचिच्छिदुरनेकधा
महारथस्ततः कार्ष्णिः संजग्राह महागदाम्
MBh 7.48.4
विधनुःस्यन्दनासिस्तैर्विचक्रश्चारिभिः कृतः
अभिमन्युर्गदापाणिरश्वत्थामानमाद्रवत्
MBh 7.48.5
स गदामुद्यतां दृष्ट्वा ज्वलन्तीमशनीमिव
अपाक्रामद्रथोपस्थाद्विक्रमांस्त्रीन्नरर्षभः
MBh 7.48.6
तस्याश्वान्गदया हत्वा तथोभौ पार्ष्णिसारथी
शराचिताङ्गः सौभद्रः श्वाविद्वत्प्रत्यदृश्यत
MBh 7.48.7
ततः सुबलदायादं कालकेयमपोथयत्
जघान चास्यानुचरान्गान्धारान्सप्तसप्ततिम्
MBh 7.48.8
पुनर्ब्रह्मवसातीयाञ्जघान रथिनो दश
केकयानां रथान्सप्त हत्वा च दश कुञ्जरान्
दौःशासनिरथं साश्वं गदया समपोथयत्
MBh 7.48.9
ततो दौःशासनिः क्रुद्धो गदामुद्यम्य मारिष
अभिदुद्राव सौभद्रं तिष्ठ तिष्ठेति चाब्रवीत्
MBh 7.48.10
तावुद्यतगदौ वीरावन्योन्यवधकाङ्क्षिणौ
भ्रातृव्यौ संप्रजह्राते पुरेव त्र्यम्बकान्तकौ
MBh 7.48.11
तावन्योन्यं गदाग्राभ्यां संहत्य पतितौ क्षितौ
इन्द्रध्वजाविवोत्सृष्टौ रणमध्ये परंतपौ
MBh 7.48.12
दौःशासनिरथोत्थाय कुरूणां कीर्तिवर्धनः
प्रोत्तिष्ठमानं सौभद्रं गदया मूर्ध्न्यताडयत्
MBh 7.48.13
गदावेगेन महता व्यायामेन च मोहितः
विचेता न्यपतद्भूमौ सौभद्रः परवीरहा
एवं विनिहतो राजन्नेको बहुभिराहवे
MBh 7.48.14
क्षोभयित्वा चमूं सर्वां नलिनीमिव कुञ्जरः
अशोभत हतो वीरो व्याधैर्वनगजो यथा
MBh 7.48.15
तं तथा पतितं शूरं तावकाः पर्यवारयन्
दावं दग्ध्वा यथा शान्तं पावकं शिशिरात्यये
MBh 7.48.16
विमृद्य तरुशृङ्गाणि संनिवृत्तमिवानिलम्
अस्तं गतमिवादित्यं तप्त्वा भारतवाहिनीम्
MBh 7.48.17
उपप्लुतं यथा सोमं संशुष्कमिव सागरम्
पूर्णचन्द्राभवदनं काकपक्षवृताक्षकम्
MBh 7.48.18
तं भूमौ पतितं दृष्ट्वा तावकास्ते महारथाः
मुदा परमया युक्ताश्चुक्रुशुः सिंहवन्मुहुः
MBh 7.48.19
आसीत्परमको हर्षस्तावकानां विशां पते
इतरेषां तु वीराणां नेत्रेभ्यः प्रापतज्जलम्
MBh 7.48.20
अभिक्रोशन्ति भूतानि अन्तरिक्षे विशां पते
दृष्ट्वा निपतितं वीरं च्युतं चन्द्रमिवाम्बरात्
MBh 7.48.21
द्रोणकर्णमुखैः षड्भिर्धार्तराष्ट्रैर्महारथैः
एकोऽयं निहतः शेते नैष धर्मो मतो हि नः
MBh 7.48.22
तस्मिंस्तु निहते वीरे बह्वशोभत मेदिनी
द्यौर्यथा पूर्णचन्द्रेण नक्षत्रगणमालिनी
MBh 7.48.23
रुक्मपुङ्खैश्च संपूर्णा रुधिरौघपरिप्लुता
उत्तमाङ्गैश्च वीराणां भ्राजमानैः सकुण्डलैः
MBh 7.48.24
विचित्रैश्च परिस्तोमैः पताकाभिश्च संवृता
चामरैश्च कुथाभिश्च प्रविद्धैश्चाम्बरोत्तमैः
MBh 7.48.25
रथाश्वनरनागानामलंकारैश्च सुप्रभैः
खड्गैश्च निशितैः पीतैर्निर्मुक्तैर्भुजगैरिव
MBh 7.48.26
चापैश्च विशिखैश्छिन्नैः शक्त्यृष्टिप्रासकम्पनैः
विविधैरायुधैश्चान्यैः संवृता भूरशोभत
MBh 7.48.27
वाजिभिश्चापि निर्जीवैः स्वपद्भिः शोणितोक्षितैः
सारोहैर्विषमा भूमिः सौभद्रेण निपातितैः
MBh 7.48.28
साङ्कुशैः समहामात्रैः सवर्मायुधकेतुभिः
पर्वतैरिव विध्वस्तैर्विशिखोन्मथितैर्गजैः
MBh 7.48.29
पृथिव्यामनुकीर्णैश्च व्यश्वसारथियोधिभिः
ह्रदैरिव प्रक्षुभितैर्हतनागै रथोत्तमैः
MBh 7.48.30
पदातिसंघैश्च हतैर्विविधायुधभूषणैः
भीरूणां त्रासजननी घोररूपाभवन्मही
MBh 7.48.31
तं दृष्ट्वा पतितं भूमौ चन्द्रार्कसदृशद्युतिम्
तावकानां परा प्रीतिः पाण्डूनां चाभवद्व्यथा
MBh 7.48.32
अभिमन्यौ हते राजञ्शिशुकेऽप्राप्तयौवने
संप्राद्रवच्चमूः सर्वा धर्मराजस्य पश्यतः
MBh 7.48.33
दीर्यमाणं बलं दृष्ट्वा सौभद्रे विनिपातिते
अजातशत्रुः स्वान्वीरानिदं वचनमब्रवीत्
MBh 7.48.34
स्वर्गमेष गतः शूरो यो हतो नपराङ्मुखः
संस्तम्भयत मा भैष्ट विजेष्यामो रणे रिपून्
MBh 7.48.35
इत्येवं स महातेजा दुःखितेभ्यो महाद्युतिः
धर्मराजो युधां श्रेष्ठो ब्रुवन्दुःखमपानुदत्
MBh 7.48.36
युद्धे ह्याशीविषाकारान्राजपुत्रान्रणे बहून्
पूर्वं निहत्य संग्रामे पश्चादार्जुनिरन्वगात्
MBh 7.48.37
हत्वा दशसहस्राणि कौसल्यं च महारथम्
कृष्णार्जुनसमः कार्ष्णिः शक्रसद्म गतो ध्रुवम्
MBh 7.48.38
रथाश्वनरमातङ्गान्विनिहत्य सहस्रशः
अवितृप्तः स संग्रामादशोच्यः पुण्यकर्मकृत्
MBh 7.48.39
वयं तु प्रवरं हत्वा तेषां तैः शरपीडिताः
निवेशायाभ्युपायाम सायाह्ने रुधिरोक्षिताः
MBh 7.48.40
निरीक्षमाणास्तु वयं परे चायोधनं शनैः
अपयाता महाराज ग्लानिं प्राप्ता विचेतसः
MBh 7.48.41
ततो निशाया दिवसस्य चाशिवः; शिवारुतः संधिरवर्तताद्भुतः
कुशेशयापीडनिभे दिवाकरे; विलम्बमानेऽस्तमुपेत्य पर्वतम्
MBh 7.48.42
वरासिशक्त्यृष्टिवरूथचर्मणां; विभूषणानां च समाक्षिपन्प्रभाम्
दिवं च भूमिं च समानयन्निव; प्रियां तनुं भानुरुपैति पावकम्
MBh 7.48.43
महाभ्रकूटाचलशृङ्गसंनिभै;र्गजैरनेकैरिव वज्रपातितैः
सवैजयन्त्यङ्कुशवर्मयन्तृभि;र्निपातितैर्निष्टनतीव गौश्चिता
MBh 7.48.44
हतेश्वरैश्चूर्णितपत्त्युपस्करै;र्हताश्वसूतैर्विपताककेतुभिः
महारथैर्भूः शुशुभे विचूर्णितैः; पुरैरिवामित्रहतैर्नराधिप
MBh 7.48.45
रथाश्ववृन्दैः सहसादिभिर्हतैः; प्रविद्धभाण्डाभरणैः पृथग्विधैः
निरस्तजिह्वादशनान्त्रलोचनै;र्धरा बभौ घोरविरूपदर्शना
MBh 7.48.46
प्रविद्धवर्माभरणा वरायुधा; विपन्नहस्त्यश्वरथानुगा नराः
महार्हशय्यास्तरणोचिताः सदा; क्षितावनाथा इव शेरते हताः
MBh 7.48.47
अतीव हृष्टाः श्वसृगालवायसा; बडाः सुपर्णाश्च वृकास्तरक्षवः
वयांस्यसृक्पान्यथ रक्षसां गणाः; पिशाचसंघाश्च सुदारुणा रणे
MBh 7.48.48
त्वचो विनिर्भिद्य पिबन्वसामसृ;क्तथैव मज्जां पिशितानि चाश्नुवन्
वपां विलुम्पन्ति हसन्ति गान्ति च; प्रकर्षमाणाः कुणपान्यनेकशः
MBh 7.48.49
शरीरसंघाटवहा असृग्जला; रथोडुपा कुञ्जरशैलसंकटा
मनुष्यशीर्षोपलमांसकर्दमा; प्रविद्धनानाविधशस्त्रमालिनी
MBh 7.48.50
महाभया वैतरणीव दुस्तरा; प्रवर्तिता योधवरैस्तदा नदी
उवाह मध्येन रणाजिरं भृशं; भयावहा जीवमृतप्रवाहिनी
MBh 7.48.51
पिबन्ति चाश्नन्ति च यत्र दुर्दृशाः; पिशाचसंघा विविधाः सुभैरवाः
सुनन्दिताः प्राणभृतां भयंकराः; समानभक्षाः श्वसृगालपक्षिणः
MBh 7.48.52
तथा तदायोधनमुग्रदर्शनं; निशामुखे पितृपतिराष्ट्रसंनिभम्
निरीक्षमाणाः शनकैर्जहुर्नराः; समुत्थितारुण्डकुलोपसंकुलम्
MBh 7.48.53
अपेतविध्वस्तमहार्हभूषणं; निपातितं शक्रसमं महारथम्
रणेऽभिमन्युं ददृशुस्तदा जना; व्यपोढहव्यं सदसीव पावकम्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Droṇa-Parva chapter-index (173 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Droṇa-Parva Ch 47
- Next chapter · Droṇa-Parva Ch 49 →
Sources and Connected Readings
Continue from these 53 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 7.48local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷