🪷 Mahābhārata · Droṇa-Parva · Chapter 36

The Book of Droṇa · Parva 7 · 36 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 36 Shlokas

MBh 7.36.1
संजय उवाच तां प्रभग्नां चमूं दृष्ट्वा सौभद्रेणामितौजसा दुर्योधनो भृशं क्रुद्धः स्वयं सौभद्रमभ्ययात्
MBh 7.36.2
ततो राजानमावृत्तं सौभद्रं प्रति संयुगे दृष्ट्वा द्रोणोऽब्रवीद्योधान्पर्याप्नुत नराधिपम्
MBh 7.36.3
पुराभिमन्युर्लक्ष्यं नः पश्यतां हन्ति वीर्यवान् तमाद्रवत मा भैष्ट क्षिप्रं रक्षत कौरवम्
MBh 7.36.4
ततः कृतज्ञा बलिनः सुहृदो जितकाशिनः त्रास्यमाना भयाद्वीरं परिवव्रुस्तवात्मजम्
MBh 7.36.5
द्रोणो द्रौणिः कृपः कर्णः कृतवर्मा च सौबलः बृहद्बलो मद्रराजो भूरिर्भूरिश्रवाः शलः
MBh 7.36.6
पौरवो वृषसेनश्च विसृजन्तः शिताञ्शरान् सौभद्रं शरवर्षेण महता समवाकिरन्
MBh 7.36.7
संमोहयित्वा तमथ दुर्योधनममोचयन् आस्याद्ग्रासमिवाक्षिप्तं ममृषे नार्जुनात्मजः
MBh 7.36.8
ताञ्शरौघेण महता साश्वसूतान्महारथान् विमुखीकृत्य सौभद्रः सिंहनादमथानदत्
MBh 7.36.9
तस्य नादं ततः श्रुत्वा सिंहस्येवामिषैषिणः नामृष्यन्त सुसंरब्धाः पुनर्द्रोणमुखा रथाः
MBh 7.36.10
त एनं कोष्ठकीकृत्य रथवंशेन मारिष व्यसृजन्निषुजालानि नानालिङ्गानि संघशः
MBh 7.36.11
तान्यन्तरिक्षे चिच्छेद पौत्रस्तव शितैः शरैः तांश्चैव प्रतिविव्याध तदद्भुतमिवाभवत्
MBh 7.36.12
ततस्ते कोपितास्तेन शरैराशीविषोपमैः परिवव्रुर्जिघांसन्तः सौभद्रमपलायिनम्
MBh 7.36.13
समुद्रमिव पर्यस्तं त्वदीयं तद्बलार्णवम् अभिमन्युर्दधारैको वेलेव मकरालयम्
MBh 7.36.14
शूराणां युध्यमानानां निघ्नतामितरेतरम् अभिमन्योः परेषां च नासीत्कश्चित्पराङ्मुखः
MBh 7.36.15
तस्मिंस्तु घोरे संग्रामे वर्तमाने भयंकरे दुःसहो नवभिर्बाणैरभिमन्युमविध्यत
MBh 7.36.16
दुःशासनो द्वादशभिः कृपः शारद्वतस्त्रिभिः द्रोणस्तु सप्तदशभिः शरैराशीविषोपमैः
MBh 7.36.17
विविंशतिस्तु विंशत्या कृतवर्मा च सप्तभिः बृहद्बलस्तथाष्टाभिरश्वत्थामा च सप्तभिः
MBh 7.36.18
भूरिश्रवास्त्रिभिर्बाणैर्मद्रेशः षड्भिराशुगैः द्वाभ्यां शराभ्यां शकुनिस्त्रिभिर्दुर्योधनो नृपः
MBh 7.36.19
स तु तान्प्रतिविव्याध त्रिभिस्त्रिभिरजिह्मगैः नृत्यन्निव महाराज चापहस्तः प्रतापवान्
MBh 7.36.20
ततोऽभिमन्युः संक्रुद्धस्ताप्यमानस्तवात्मजैः विदर्शयन्वै सुमहच्छिक्षौरसकृतं बलम्
MBh 7.36.21
गरुडानिलरंहोभिर्यन्तुर्वाक्यकरैर्हयैः दान्तैरश्मकदायादं त्वरमाणोऽभ्यहारयत् विव्याध चैनं दशभिर्बाणैस्तिष्ठेति चाब्रवीत्
MBh 7.36.22
तस्याभिमन्युर्दशभिर्बाणैः सूतं हयान्ध्वजम् बाहू धनुः शिरश्चोर्व्यां स्मयमानोऽभ्यपातयत्
MBh 7.36.23
ततस्तस्मिन्हते वीरे सौभद्रेणाश्मकेश्वरे संचचाल बलं सर्वं पलायनपरायणम्
MBh 7.36.24
ततः कर्णः कृपो द्रोणो द्रौणिर्गान्धारराट्शलः शल्यो भूरिश्रवाः क्राथः सोमदत्तो विविंशतिः
MBh 7.36.25
वृषसेनः सुषेणश्च कुण्डभेदी प्रतर्दनः वृन्दारको ललित्थश्च प्रबाहुर्दीर्घलोचनः दुर्योधनश्च संक्रुद्धः शरवर्षैरवाकिरन्
MBh 7.36.26
सोऽतिक्रुद्धो महेष्वासैरभिमन्युरजिह्मगैः शरमादत्त कर्णाय परकायावभेदनम्
MBh 7.36.27
तस्य भित्त्वा तनुत्राणं देहं निर्भिद्य चाशुगः प्राविशद्धरणीं राजन्वल्मीकमिव पन्नगः
MBh 7.36.28
स तेनातिप्रहारेण व्यथितो विह्वलन्निव संचचाल रणे कर्णः क्षितिकम्पे यथाचलः
MBh 7.36.29
अथान्यैर्निशितैर्बाणैः सुषेणं दीर्घलोचनम् कुण्डभेदिं च संक्रुद्धस्त्रिभिस्त्रीनवधीद्बली
MBh 7.36.30
कर्णस्तं पञ्चविंशत्या नाराचानां समर्पयत् अश्वत्थामा च विंशत्या कृतवर्मा च सप्तभिः
MBh 7.36.31
स शरार्दितसर्वाङ्गः क्रुद्धः शक्रात्मजात्मजः विचरन्दृश्यते सैन्ये पाशहस्त इवान्तकः
MBh 7.36.32
शल्यं च बाणवर्षेण समीपस्थमवाकिरत् उदक्रोशन्महाबाहुस्तव सैन्यानि भीषयन्
MBh 7.36.33
ततः स विद्धोऽस्त्रविदा मर्मभिद्भिरजिह्मगैः शल्यो राजन्रथोपस्थे निषसाद मुमोह च
MBh 7.36.34
तं हि विद्धं तथा दृष्ट्वा सौभद्रेण यशस्विना संप्राद्रवच्चमूः सर्वा भारद्वाजस्य पश्यतः
MBh 7.36.35
प्रेक्षन्तस्तं महाबाहुं रुक्मपुङ्खैः समावृतम् त्वदीयाश्च पलायन्ते मृगाः सिंहार्दिता इव
MBh 7.36.36
स तु रणयशसाभिपूज्यमानः; पितृसुरचारणसिद्धयक्षसंघैः अवनितलगतैश्च भूतसंघै;रतिविबभौ हुतभुग्यथाज्यसिक्तः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 36 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 7.36local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷