🪷 Mahābhārata · Droṇa-Parva · Chapter 28

The Book of Droṇa · Parva 7 · 44 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 44 Shlokas

MBh 7.28.1
धृतराष्ट्र उवाच तथा क्रुद्धः किमकरोद्भगदत्तस्य पाण्डवः प्राग्ज्योतिषो वा पार्थस्य तन्मे शंस यथातथम्
MBh 7.28.2
संजय उवाच प्राग्ज्योतिषेण संसक्तावुभौ दाशार्हपाण्डवौ मृत्योरिवान्तिकं प्राप्तौ सर्वभूतानि मेनिरे
MBh 7.28.3
तथा हि शरवर्षाणि पातयत्यनिशं प्रभो भगदत्तो गजस्कन्धात्कृष्णयोः स्यन्दनस्थयोः
MBh 7.28.4
अथ कार्ष्णायसैर्बाणैः पूर्णकार्मुकनिःसृतैः अविध्यद्देवकीपुत्रं हेमपुङ्खैः शिलाशितैः
MBh 7.28.5
अग्निस्पर्शसमास्तीक्ष्णा भगदत्तेन चोदिताः निर्भिद्य देवकीपुत्रं क्षितिं जग्मुः शरास्ततः
MBh 7.28.6
तस्य पार्थो धनुश्छित्त्वा शरावापं निहत्य च लाडयन्निव राजानं भगदत्तमयोधयत्
MBh 7.28.7
सोऽर्करश्मिनिभांस्तीक्ष्णांस्तोमरान्वै चतुर्दश प्रेरयत्सव्यसाची तांस्त्रिधैकैकमथाच्छिनत्
MBh 7.28.8
ततो नागस्य तद्वर्म व्यधमत्पाकशासनिः शरजालेन स बभौ व्यभ्रः पर्वतराडिव
MBh 7.28.9
ततः प्राग्ज्योतिषः शक्तिं हेमदण्डामयस्मयीम् व्यसृजद्वासुदेवाय द्विधा तामर्जुनोऽच्छिनत्
MBh 7.28.10
ततश्छत्रं ध्वजं चैव छित्त्वा राज्ञोऽर्जुनः शरैः विव्याध दशभिस्तूर्णमुत्स्मयन्पर्वताधिपम्
MBh 7.28.11
सोऽतिविद्धोऽर्जुनशरैः सुपुङ्खैः कङ्कपत्रिभिः भगदत्तस्ततः क्रुद्धः पाण्डवस्य महात्मनः
MBh 7.28.12
व्यसृजत्तोमरान्मूर्ध्नि श्वेताश्वस्योन्ननाद च तैरर्जुनस्य समरे किरीटं परिवर्तितम्
MBh 7.28.13
परिवृत्तं किरीटं तं यमयन्नेव फल्गुनः सुदृष्टः क्रियतां लोक इति राजानमब्रवीत्
MBh 7.28.14
एवमुक्तस्तु संक्रुद्धः शरवर्षेण पाण्डवम् अभ्यवर्षत्सगोविन्दं धनुरादाय भास्वरम्
MBh 7.28.15
तस्य पार्थो धनुश्छित्त्वा तूणीरान्संनिकृत्य च त्वरमाणो द्विसप्तत्या सर्वमर्मस्वताडयत्
MBh 7.28.16
विद्धस्तथाप्यव्यथितो वैष्णवास्त्रमुदीरयन् अभिमन्त्र्याङ्कुशं क्रुद्धो व्यसृजत्पाण्डवोरसि
MBh 7.28.17
विसृष्टं भगदत्तेन तदस्त्रं सर्वघातकम् उरसा प्रतिजग्राह पार्थं संछाद्य केशवः
MBh 7.28.18
वैजयन्त्यभवन्माला तदस्त्रं केशवोरसि ततोऽर्जुनः क्लान्तमनाः केशवं प्रत्यभाषत
MBh 7.28.19
अयुध्यमानस्तुरगान्संयन्तास्मि जनार्दन इत्युक्त्वा पुण्डरीकाक्ष प्रतिज्ञां स्वां न रक्षसि
MBh 7.28.20
यद्यहं व्यसनी वा स्यामशक्तो वा निवारणे ततस्त्वयैवं कार्यं स्यान्न तु कार्यं मयि स्थिते
MBh 7.28.21
सबाणः सधनुश्चाहं ससुरासुरमानवान् शक्तो लोकानिमाञ्जेतुं तच्चापि विदितं तव
MBh 7.28.22
ततोऽर्जुनं वासुदेवः प्रत्युवाचार्थवद्वचः शृणु गुह्यमिदं पार्थ यथा वृत्तं पुरानघ
MBh 7.28.23
चतुर्मूर्तिरहं शश्वल्लोकत्राणार्थमुद्यतः आत्मानं प्रविभज्येह लोकानां हितमादधे
MBh 7.28.24
एका मूर्तिस्तपश्चर्यां कुरुते मे भुवि स्थिता अपरा पश्यति जगत्कुर्वाणं साध्वसाधुनी
MBh 7.28.25
अपरा कुरुते कर्म मानुषं लोकमाश्रिता शेते चतुर्थी त्वपरा निद्रां वर्षसहस्रिकाम्
MBh 7.28.26
यासौ वर्षसहस्रान्ते मूर्तिरुत्तिष्ठते मम वरार्हेभ्यो वराञ्श्रेष्ठांस्तस्मिन्काले ददाति सा
MBh 7.28.27
तं तु कालमनुप्राप्तं विदित्वा पृथिवी तदा प्रायाचत वरं यं मां नरकार्थाय तं शृणु
MBh 7.28.28
देवानामसुराणां च अवध्यस्तनयोऽस्तु मे उपेतो वैष्णवास्त्रेण तन्मे त्वं दातुमर्हसि
MBh 7.28.29
एवं वरमहं श्रुत्वा जगत्यास्तनये तदा अमोघमस्त्रमददं वैष्णवं तदहं पुरा
MBh 7.28.30
अवोचं चैतदस्त्रं वै ह्यमोघं भवतु क्षमे नरकस्याभिरक्षार्थं नैनं कश्चिद्वधिष्यति
MBh 7.28.31
अनेनास्त्रेण ते गुप्तः सुतः परबलार्दनः भविष्यति दुराधर्षः सर्वलोकेषु सर्वदा
MBh 7.28.32
तथेत्युक्त्वा गता देवी कृतकामा मनस्विनी स चाप्यासीद्दुराधर्षो नरकः शत्रुतापनः
MBh 7.28.33
तस्मात्प्राग्ज्योतिषं प्राप्तं तदस्त्रं पार्थ मामकम् नास्यावध्योऽस्ति लोकेषु सेन्द्ररुद्रेषु मारिष
MBh 7.28.34
तन्मया त्वत्कृतेनैतदन्यथा व्यपनाशितम् वियुक्तं परमास्त्रेण जहि पार्थ महासुरम्
MBh 7.28.35
वैरिणं युधि दुर्धर्षं भगदत्तं सुरद्विषम् यथाहं जघ्निवान्पूर्वं हितार्थं नरकं तथा
MBh 7.28.36
एवमुक्तस्ततः पार्थः केशवेन महात्मना भगदत्तं शितैर्बाणैः सहसा समवाकिरत्
MBh 7.28.37
ततः पार्थो महाबाहुरसंभ्रान्तो महामनाः कुम्भयोरन्तरे नागं नाराचेन समार्पयत्
MBh 7.28.38
समासाद्य तु तं नागं बाणो वज्र इवाचलम् अभ्यगात्सह पुङ्खेन वल्मीकमिव पन्नगः
MBh 7.28.39
स तु विष्टभ्य गात्राणि दन्ताभ्यामवनिं ययौ नदन्नार्तस्वरं प्राणानुत्ससर्ज महाद्विपः
MBh 7.28.40
ततश्चन्द्रार्धबिम्बेन शरेण नतपर्वणा बिभेद हृदयं राज्ञो भगदत्तस्य पाण्डवः
MBh 7.28.41
स भिन्नहृदयो राजा भगदत्तः किरीटिना शरासनं शरांश्चैव गतासुः प्रमुमोच ह
MBh 7.28.42
शिरसस्तस्य विभ्रष्टः पपात च वराङ्कुशः नालताडनविभ्रष्टं पलाशं नलिनादिव
MBh 7.28.43
स हेममाली तपनीयभाण्डा;त्पपात नागाद्गिरिसंनिकाशात् सुपुष्पितो मारुतवेगरुग्णो; महीधराग्रादिव कर्णिकारः
MBh 7.28.44
निहत्य तं नरपतिमिन्द्रविक्रमं; सखायमिन्द्रस्य तथैन्द्रिराहवे ततोऽपरांस्तव जयकाङ्क्षिणो नरा;न्बभञ्ज वायुर्बलवान्द्रुमानिव

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 44 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 7.28local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷