🪷 Mahābhārata · Droṇa-Parva · Chapter 13

The Book of Droṇa · Parva 7 · 80 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 80 Shlokas

MBh 7.13.1
संजय उवाच ततः स पाण्डवानीके जनयंस्तुमुलं महत् व्यचरत्पाण्डवान्द्रोणो दहन्कक्षमिवानलः
MBh 7.13.2
निर्दहन्तमनीकानि साक्षादग्निमिवोत्थितम् दृष्ट्वा रुक्मरथं युद्धे समकम्पन्त सृञ्जयाः
MBh 7.13.3
प्रततं चास्यमानस्य धनुषोऽस्याशुकारिणः ज्याघोषः श्रूयतेऽत्यर्थं विस्फूर्जितमिवाशनेः
MBh 7.13.4
रथिनः सादिनश्चैव नागानश्वान्पदातिनः रौद्रा हस्तवता मुक्ताः प्रमथ्नन्ति स्म सायकाः
MBh 7.13.5
नानद्यमानः पर्जन्यः सानिलः शुचिसंक्षये अश्मवर्षमिवावर्षत्परेषामावहद्भयम्
MBh 7.13.6
व्यचरत्स तदा राजन्सेनां विक्षोभयन्प्रभुः वर्धयामास संत्रासं शात्रवाणाममानुषम्
MBh 7.13.7
तस्य विद्युदिवाभ्रेषु चापं हेमपरिष्कृतम् भ्रमद्रथाम्बुदे तस्मिन्दृश्यते स्म पुनः पुनः
MBh 7.13.8
स वीरः सत्यवान्प्राज्ञो धर्मनित्यः सुदारुणः युगान्तकाले यन्तेव रौद्रां प्रास्कन्दयन्नदीम्
MBh 7.13.9
अमर्षवेगप्रभवां क्रव्यादगणसंकुलाम् बलौघैः सर्वतः पूर्णां वीरवृक्षापहारिणीम्
MBh 7.13.10
शोणितोदां रथावर्तां हस्त्यश्वकृतरोधसम् कवचोडुपसंयुक्तां मांसपङ्कसमाकुलाम्
MBh 7.13.11
मेदोमज्जास्थिसिकतामुष्णीषवरफेनिलाम् संग्रामजलदापूर्णां प्रासमत्स्यसमाकुलाम्
MBh 7.13.12
नरनागाश्वसंभूतां शरवेगौघवाहिनीम् शरीरदारुशृङ्गाटां भुजनागसमाकुलाम्
MBh 7.13.13
उत्तमाङ्गोपलतलां निस्त्रिंशझषसेविताम् रथनागह्रदोपेतां नानाभरणनीरजाम्
MBh 7.13.14
महारथशतावर्तां भूमिरेणूर्मिमालिनीम् महावीर्यवतां संख्ये सुतरां भीरुदुस्तराम्
MBh 7.13.15
शूरव्यालसमाकीर्णां प्राणिवाणिजसेविताम् छिन्नच्छत्रमहाहंसां मुकुटाण्डजसंकुलाम्
MBh 7.13.16
चक्रकूर्मां गदानक्रां शरक्षुद्रझषाकुलाम् बडगृध्रसृगालानां घोरसंघैर्निषेविताम्
MBh 7.13.17
निहतान्प्राणिनः संख्ये द्रोणेन बलिना शरैः वहन्तीं पितृलोकाय शतशो राजसत्तम
MBh 7.13.18
शरीरशतसंबाधां केशशैवलशाद्वलाम् नदीं प्रावर्तयद्राजन्भीरूणां भयवर्धिनीम्
MBh 7.13.19
तं जयन्तमनीकानि तानि तान्येव भारत सर्वतोऽभ्यद्रवन्द्रोणं युधिष्ठिरपुरोगमाः
MBh 7.13.20
तानभिद्रवतः शूरांस्तावका दृढकार्मुकाः सर्वतः प्रत्यगृह्णन्त तदभूल्लोमहर्षणम्
MBh 7.13.21
शतमायस्तु शकुनिः सहदेवं समाद्रवत् सनियन्तृध्वजरथं विव्याध निशितैः शरैः
MBh 7.13.22
तस्य माद्रीसुतः केतुं धनुः सूतं हयानपि नातिक्रुद्धः शरैश्छित्त्वा षष्ट्या विव्याध मातुलम्
MBh 7.13.23
सौबलस्तु गदां गृह्य प्रचस्कन्द रथोत्तमात् स तस्य गदया राजन्रथात्सूतमपातयत्
MBh 7.13.24
ततस्तौ विरथौ राजन्गदाहस्तौ महाबलौ चिक्रीडतू रणे शूरौ सशृङ्गाविव पर्वतौ
MBh 7.13.25
द्रोणः पाञ्चालराजानं विद्ध्वा दशभिराशुगैः बहुभिस्तेन चाभ्यस्तस्तं विव्याध शताधिकैः
MBh 7.13.26
विविंशतिं भीमसेनो विंशत्या निशितैः शरैः विद्ध्वा नाकम्पयद्वीरस्तदद्भुतमिवाभवत्
MBh 7.13.27
विविंशतिस्तु सहसा व्यश्वकेतुशरासनम् भीमं चक्रे महाराज ततः सैन्यान्यपूजयन्
MBh 7.13.28
स तन्न ममृषे वीरः शत्रोर्विजयमाहवे ततोऽस्य गदया दान्तान्हयान्सर्वानपातयत्
MBh 7.13.29
शल्यस्तु नकुलं वीरः स्वस्रीयं प्रियमात्मनः विव्याध प्रहसन्बाणैर्लाडयन्कोपयन्निव
MBh 7.13.30
तस्याश्वानातपत्रं च ध्वजं सूतमथो धनुः निपात्य नकुलः संख्ये शङ्खं दध्मौ प्रतापवान्
MBh 7.13.31
धृष्टकेतुः कृपेनास्ताञ्छित्त्वा बहुविधाञ्शरान् कृपं विव्याध सप्तत्या लक्ष्म चास्याहरत्त्रिभिः
MBh 7.13.32
तं कृपः शरवर्षेण महता समवाकिरत् निवार्य च रणे विप्रो धृष्टकेतुमयोधयत्
MBh 7.13.33
सात्यकिः कृतवर्माणं नाराचेन स्तनान्तरे विद्ध्वा विव्याध सप्तत्या पुनरन्यैः स्मयन्निव
MBh 7.13.34
सप्तसप्ततिभिर्भोजस्तं विद्ध्वा निशितैः शरैः नाकम्पयत शैनेयं शीघ्रो वायुरिवाचलम्
MBh 7.13.35
सेनापतिः सुशर्माणं शीघ्रं मर्मस्वताडयत् स चापि तं तोमरेण जत्रुदेशे अताडयत्
MBh 7.13.36
वैकर्तनं तु समरे विराटः प्रत्यवारयत् सह मत्स्यैर्महावीर्यैस्तदद्भुतमिवाभवत्
MBh 7.13.37
तत्पौरुषमभूत्तत्र सूतपुत्रस्य दारुणम् यत्सैन्यं वारयामास शरैः संनतपर्वभिः
MBh 7.13.38
द्रुपदस्तु स्वयं राजा भगदत्तेन संगतः तयोर्युद्धं महाराज चित्ररूपमिवाभवत् भूतानां त्रासजननं चक्रातेऽस्त्रविशारदौ
MBh 7.13.39
भूरिश्रवा रणे राजन्याज्ञसेनिं महारथम् महता सायकौघेन छादयामास वीर्यवान्
MBh 7.13.40
शिखण्डी तु ततः क्रुद्धः सौमदत्तिं विशां पते नवत्या सायकानां तु कम्पयामास भारत
MBh 7.13.41
राक्षसौ भीमकर्माणौ हैडिम्बालम्बुसावुभौ चक्रातेऽत्यद्भुतं युद्धं परस्परवधैषिणौ
MBh 7.13.42
मायाशतसृजौ दृप्तौ मायाभिरितरेतरम् अन्तर्हितौ चेरतुस्तौ भृशं विस्मयकारिणौ
MBh 7.13.43
चेकितानोऽनुविन्देन युयुधे त्वतिभैरवम् यथा देवासुरे युद्धे बलशक्रौ महाबलौ
MBh 7.13.44
लक्ष्मणः क्षत्रदेवेन विमर्दमकरोद्भृशम् यथा विष्णुः पुरा राजन्हिरण्याक्षेण संयुगे
MBh 7.13.45
ततः प्रजविताश्वेन विधिवत्कल्पितेन च रथेनाभ्यपतद्राजन्सौभद्रं पौरवो नदन्
MBh 7.13.46
ततोऽभियाय त्वरितो युद्धाकाङ्क्षी महाबलः तेन चक्रे महद्युद्धमभिमन्युररिंदमः
MBh 7.13.47
पौरवस्त्वथ सौभद्रं शरव्रातैरवाकिरत् तस्यार्जुनिर्ध्वजं छत्रं धनुश्चोर्व्यामपातयत्
MBh 7.13.48
सौभद्रः पौरवं त्वन्यैर्विद्ध्वा सप्तभिराशुगैः पञ्चभिस्तस्य विव्याध हयान्सूतं च सायकैः
MBh 7.13.49
ततः संहर्षयन्सेनां सिंहवद्विनदन्मुहुः समादत्तार्जुनिस्तूर्णं पौरवान्तकरं शरम्
MBh 7.13.50
द्वाभ्यां शराभ्यां हार्दिक्यश्चकर्त सशरं धनुः तदुत्सृज्य धनुश्छिन्नं सौभद्रः परवीरहा उद्बबर्ह सितं खड्गमाददानः शरावरम्
MBh 7.13.51
स तेनानेकतारेण चर्मणा कृतहस्तवत् भ्रान्तासिरचरन्मार्गान्दर्शयन्वीर्यमात्मनः
MBh 7.13.52
भ्रामितं पुनरुद्भ्रान्तमाधूतं पुनरुच्छ्रितम् चर्मनिस्त्रिंशयो राजन्निर्विशेषमदृश्यत
MBh 7.13.53
स पौरवरथस्येषामाप्लुत्य सहसा नदन् पौरवं रथमास्थाय केशपक्षे परामृशत्
MBh 7.13.54
जघानास्य पदा सूतमसिनापातयद्ध्वजम् विक्षोभ्याम्भोनिधिं तार्क्ष्यस्तं नागमिव चाक्षिपत्
MBh 7.13.55
तमाकलितकेशान्तं ददृशुः सर्वपार्थिवाः उक्षाणमिव सिंहेन पात्यमानमचेतनम्
MBh 7.13.56
तमार्जुनिवशं प्राप्तं कृष्यमाणमनाथवत् पौरवं पतितं दृष्ट्वा नामृष्यत जयद्रथः
MBh 7.13.57
स बर्हिणमहावाजं किङ्किणीशतजालवत् चर्म चादाय खड्गं च नदन्पर्यपतद्रथात्
MBh 7.13.58
ततः सैन्धवमालोक्य कार्ष्णिरुत्सृज्य पौरवम् उत्पपात रथात्तूर्णं श्येनवन्निपपात च
MBh 7.13.59
प्रासपट्टिशनिस्त्रिंशाञ्शत्रुभिः संप्रवेरितान् चिच्छेदाथासिना कार्ष्णिश्चर्मणा संरुरोध च
MBh 7.13.60
स दर्शयित्वा सैन्यानां स्वबाहुबलमात्मनः तमुद्यम्य महाखड्गं चर्म चाथ पुनर्बली
MBh 7.13.61
वृद्धक्षत्रस्य दायादं पितुरत्यन्तवैरिणम् ससाराभिमुखः शूरः शार्दूल इव कुञ्जरम्
MBh 7.13.62
तौ परस्परमासाद्य खड्गदन्तनखायुधौ हृष्टवत्संप्रजह्राते व्याघ्रकेसरिणाविव
MBh 7.13.63
संपातेष्वभिपातेषु निपातेष्वसिचर्मणोः न तयोरन्तरं कश्चिद्ददर्श नरसिंहयोः
MBh 7.13.64
अवक्षेपोऽसिनिर्ह्रादः शस्त्रान्तरनिदर्शनम् बाह्यान्तरनिपातश्च निर्विशेषमदृश्यत
MBh 7.13.65
बाह्यमाभ्यन्तरं चैव चरन्तौ मार्गमुत्तमम् ददृशाते महात्मानौ सपक्षाविव पर्वतौ
MBh 7.13.66
ततो विक्षिपतः खड्गं सौभद्रस्य यशस्विनः शरावरणपक्षान्ते प्रजहार जयद्रथः
MBh 7.13.67
रुक्मपक्षान्तरे सक्तस्तस्मिंश्चर्मणि भास्वरे सिन्धुराजबलोद्धूतः सोऽभज्यत महानसिः
MBh 7.13.68
भग्नमाज्ञाय निस्त्रिंशमवप्लुत्य पदानि षट् सोऽदृश्यत निमेषेण स्वरथं पुनरास्थितः
MBh 7.13.69
तं कार्ष्णिं समरान्मुक्तमास्थितं रथमुत्तमम् सहिताः सर्वराजानः परिवव्रुः समन्ततः
MBh 7.13.70
ततश्चर्म च खड्गं च समुत्क्षिप्य महाबलः ननादार्जुनदायादः प्रेक्षमाणो जयद्रथम्
MBh 7.13.71
सिन्धुराजं परित्यज्य सौभद्रः परवीरहा तापयामास तत्सैन्यं भुवनं भास्करो यथा
MBh 7.13.72
तस्य सर्वायसीं शक्तिं शल्यः कनकभूषणाम् चिक्षेप समरे घोरां दीप्तामग्निशिखामिव
MBh 7.13.73
तामवप्लुत्य जग्राह सकोशं चाकरोदसिम् वैनतेयो यथा कार्ष्णिः पतन्तमुरगोत्तमम्
MBh 7.13.74
तस्य लाघवमाज्ञाय सत्त्वं चामिततेजसः सहिताः सर्वराजानः सिंहनादमथानदन्
MBh 7.13.75
ततस्तामेव शल्यस्य सौभद्रः परवीरहा मुमोच भुजवीर्येण वैडूर्यविकृताजिराम्
MBh 7.13.76
सा तस्य रथमासाद्य निर्मुक्तभुजगोपमा जघान सूतं शल्यस्य रथाच्चैनमपातयत्
MBh 7.13.77
ततो विराटद्रुपदौ धृष्टकेतुर्युधिष्ठिरः सात्यकिः केकया भीमो धृष्टद्युम्नशिखण्डिनौ यमौ च द्रौपदेयाश्च साधु साध्विति चुक्रुशुः
MBh 7.13.78
बाणशब्दाश्च विविधाः सिंहनादाश्च पुष्कलाः प्रादुरासन्हर्षयन्तः सौभद्रमपलायिनम् तन्नामृष्यन्त पुत्रास्ते शत्रोर्विजयलक्षणम्
MBh 7.13.79
अथैनं सहसा सर्वे समन्तान्निशितैः शरैः अभ्याकिरन्महाराज जलदा इव पर्वतम्
MBh 7.13.80
तेषां च प्रियमन्विच्छन्सूतस्य च पराभवात् आर्तायनिरमित्रघ्नः क्रुद्धः सौभद्रमभ्ययात्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 80 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 7.13local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷