🪷 Mahābhārata · Droṇa-Parva · Chapter 12
The Book of Droṇa · Parva 7 · 28 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 28 Shlokas
MBh 7.12.1
संजय उवाच
ततस्ते सैनिकाः श्रुत्वा तं युधिष्ठिरनिग्रहम्
सिंहनादरवांश्चक्रुर्बाणशङ्खरवैः सह
MBh 7.12.2
तत्तु सर्वं यथा वृत्तं धर्मराजेन भारत
आप्तैराशु परिज्ञातं भारद्वाजचिकीर्षितम्
MBh 7.12.3
ततः सर्वान्समानाय्य भ्रातॄन्सैन्यांश्च सर्वशः
अब्रवीद्धर्मराजस्तु धनंजयमिदं वचः
MBh 7.12.4
श्रुतं ते पुरुषव्याघ्र द्रोणस्याद्य चिकीर्षितम्
यथा तन्न भवेत्सत्यं तथा नीतिर्विधीयताम्
MBh 7.12.5
सान्तरं हि प्रतिज्ञातं द्रोणेनामित्रकर्शन
तच्चान्तरममोघेषौ त्वयि तेन समाहितम्
MBh 7.12.6
स त्वमद्य महाबाहो युध्यस्व मदनन्तरम्
यथा दुर्योधनः कामं नेमं द्रोणादवाप्नुयात्
MBh 7.12.7
अर्जुन उवाच
यथा मे न वधः कार्य आचार्यस्य कथंचन
तथा तव परित्यागो न मे राजंश्चिकीर्षितः
MBh 7.12.8
अप्येवं पाण्डव प्राणानुत्सृजेयमहं युधि
प्रतीयां नाहमाचार्यं त्वां न जह्यां कथंचन
MBh 7.12.9
त्वां निगृह्याहवे राजन्धार्तराष्ट्रो यमिच्छति
न स तं जीवलोकेऽस्मिन्कामं प्राप्तः कथंचन
MBh 7.12.10
प्रपतेद्द्यौः सनक्षत्रा पृथिवी शकलीभवेत्
न त्वां द्रोणो निगृह्णीयाज्जीवमाने मयि ध्रुवम्
MBh 7.12.11
यदि तस्य रणे साह्यं कुरुते वज्रभृत्स्वयम्
देवैर्वा सहितो दैत्यैर्न त्वां प्राप्स्यत्यसौ मृधे
MBh 7.12.12
मयि जीवति राजेन्द्र न भयं कर्तुमर्हसि
द्रोणादस्त्रभृतां श्रेष्ठात्सर्वशस्त्रभृतामपि
MBh 7.12.13
न स्मराम्यनृतां वाचं न स्मरामि पराजयम्
न स्मरामि प्रतिश्रुत्य किंचिदप्यनपाकृतम्
MBh 7.12.14
संजय उवाच
ततः शङ्खाश्च भेर्यश्च मृदङ्गाश्चानकैः सह
प्रावाद्यन्त महाराज पाण्डवानां निवेशने
MBh 7.12.15
सिंहनादश्च संजज्ञे पाण्डवानां महात्मनाम्
धनुर्ज्यातलशब्दश्च गगनस्पृक्सुभैरवः
MBh 7.12.16
तं श्रुत्वा शङ्खनिर्घोषं पाण्डवस्य महात्मनः
त्वदीयेष्वप्यनीकेषु वादित्राण्यभिजघ्निरे
MBh 7.12.17
ततो व्यूढान्यनीकानि तव तेषां च भारत
शनैरुपेयुरन्योन्यं योत्स्यमानानि संयुगे
MBh 7.12.18
ततः प्रववृते युद्धं तुमुलं लोमहर्षणम्
पाण्डवानां कुरूणां च द्रोणपाञ्चाल्ययोरपि
MBh 7.12.19
यतमानाः प्रयत्नेन द्रोणानीकविशातने
न शेकुः सृञ्जया राजंस्तद्धि द्रोणेन पालितम्
MBh 7.12.20
तथैव तव पुत्रस्य रथोदाराः प्रहारिणः
न शेकुः पाण्डवीं सेनां पाल्यमानां किरीटिना
MBh 7.12.21
आस्तां ते स्तिमिते सेने रक्ष्यमाणे परस्परम्
संप्रसुप्ते यथा नक्तं वनराज्यौ सुपुष्पिते
MBh 7.12.22
ततो रुक्मरथो राजन्नर्केणेव विराजता
वरूथिना विनिष्पत्य व्यचरत्पृतनान्तरे
MBh 7.12.23
तमुद्यतं रथेनैकमाशुकारिणमाहवे
अनेकमिव संत्रासान्मेनिरे पाण्डुसृञ्जयाः
MBh 7.12.24
तेन मुक्ताः शरा घोरा विचेरुः सर्वतोदिशम्
त्रासयन्तो महाराज पाण्डवेयस्य वाहिनीम्
MBh 7.12.25
मध्यं दिनमनुप्राप्तो गभस्तिशतसंवृतः
यथादृश्यत घर्मांशुस्तथा द्रोणोऽप्यदृश्यत
MBh 7.12.26
न चैनं पाण्डवेयानां कश्चिच्छक्नोति मारिष
वीक्षितुं समरे क्रुद्धं महेन्द्रमिव दानवाः
MBh 7.12.27
मोहयित्वा ततः सैन्यं भारद्वाजः प्रतापवान्
धृष्टद्युम्नबलं तूर्णं व्यधमन्निशितैः शरैः
MBh 7.12.28
स दिशः सर्वतो रुद्ध्वा संवृत्य खमजिह्मगैः
पार्षतो यत्र तत्रैव ममृदे पाण्डुवाहिनीम्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Droṇa-Parva chapter-index (173 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Droṇa-Parva Ch 11
- Next chapter · Droṇa-Parva Ch 13 →
Sources and Connected Readings
Continue from these 28 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 7.12local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷