🪷 Mahābhārata · Droṇa-Parva · Chapter 117
The Book of Droṇa · Parva 7 · 62 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 62 Shlokas
MBh 7.117.1
संजय उवाच
तमापतन्तं संप्रेक्ष्य सात्वतं युद्धदुर्मदम्
क्रोधाद्भूरिश्रवा राजन्सहसा समुपाद्रवत्
MBh 7.117.2
तमब्रवीन्महाबाहुः कौरव्यः शिनिपुंगवम्
अद्य प्राप्तोऽसि दिष्ट्या मे चक्षुर्विषयमित्युत
MBh 7.117.3
चिराभिलषितं काममद्य प्राप्स्यामि संयुगे
न हि मे मोक्ष्यसे जीवन्यदि नोत्सृजसे रणम्
MBh 7.117.4
अद्य त्वां समरे हत्वा नित्यं शूराभिमानिनम्
नन्दयिष्यामि दाशार्ह कुरुराजं सुयोधनम्
MBh 7.117.5
अद्य मद्बाणनिर्दग्धं पतितं धरणीतले
द्रक्ष्यतस्त्वां रणे वीरौ सहितौ केशवार्जुनौ
MBh 7.117.6
अद्य धर्मसुतो राजा श्रुत्वा त्वां निहतं मया
सव्रीडो भविता सद्यो येनासीह प्रवेशितः
MBh 7.117.7
अद्य मे विक्रमं पार्थो विज्ञास्यति धनंजयः
त्वयि भूमौ विनिहते शयाने रुधिरोक्षिते
MBh 7.117.8
चिराभिलषितो ह्यद्य त्वया सह समागमः
पुरा देवासुरे युद्धे शक्रस्य बलिना यथा
MBh 7.117.9
अद्य युद्धं महाघोरं तव दास्यामि सात्वत
ततो ज्ञास्यसि तत्त्वेन मद्वीर्यबलपौरुषम्
MBh 7.117.10
अद्य संयमनीं याता मया त्वं निहतो रणे
यथा रामानुजेनाजौ रावणिर्लक्ष्मणेन वै
MBh 7.117.11
अद्य कृष्णश्च पार्थश्च धर्मराजश्च माधव
हते त्वयि निरुत्साहा रणं त्यक्ष्यन्त्यसंशयम्
MBh 7.117.12
अद्य तेऽपचितिं कृत्वा शितैर्माधव सायकैः
तत्स्त्रियो नन्दयिष्यामि ये त्वया निहता रणे
MBh 7.117.13
चक्षुर्विषयसंप्राप्तो न त्वं माधव मोक्ष्यसे
सिंहस्य विषयं प्राप्तो यथा क्षुद्रमृगस्तथा
MBh 7.117.14
युयुधानस्तु तं राजन्प्रत्युवाच हसन्निव
कौरवेय न संत्रासो विद्यते मम संयुगे
MBh 7.117.15
स मां निहन्यात्संग्रामे यो मां कुर्यान्निरायुधम्
समास्तु शाश्वतीर्हन्याद्यो मां हन्याद्धि संयुगे
MBh 7.117.16
किं मृषोक्तेन बहुना कर्मणा तु समाचर
शारदस्येव मेघस्य गर्जितं निष्फलं हि ते
MBh 7.117.17
श्रुत्वैतद्गर्जितं वीर हास्यं हि मम जायते
चिरकालेप्सितं लोके युद्धमद्यास्तु कौरव
MBh 7.117.18
त्वरते मे मतिस्तात त्वयि युद्धाभिकाङ्क्षिणि
नाहत्वा संनिवर्तिष्ये त्वामद्य पुरुषाधम
MBh 7.117.19
अन्योन्यं तौ तदा वाग्भिस्तक्षन्तौ नरपुंगवौ
जिघांसू परमक्रुद्धावभिजघ्नतुराहवे
MBh 7.117.20
समेतौ तौ नरव्याघ्रौ शुष्मिणौ स्पर्धिनौ रणे
द्विरदाविव संक्रुद्धौ वाशितार्थे मदोत्कटौ
MBh 7.117.21
भूरिश्रवाः सात्यकिश्च ववर्षतुररिंदमौ
शरवर्षाणि भीमानि मेघाविव परस्परम्
MBh 7.117.22
सौमदत्तिस्तु शैनेयं प्रच्छाद्येषुभिराशुगैः
जिघांसुर्भरतश्रेष्ठ विव्याध निशितैः शरैः
MBh 7.117.23
दशभिः सात्यकिं विद्ध्वा सौमदत्तिरथापरान्
मुमोच निशितान्बाणाञ्जिघांसुः शिनिपुंगवम्
MBh 7.117.24
तानस्य विशिखांस्तीक्ष्णानन्तरिक्षे विशां पते
अप्राप्तानस्त्रमायाभिरग्रसत्सात्यकिः प्रभो
MBh 7.117.25
तौ पृथक्शरवर्षाभ्यामवर्षेतां परस्परम्
उत्तमाभिजनौ वीरौ कुरुवृष्णियशस्करौ
MBh 7.117.26
तौ नखैरिव शार्दूलौ दन्तैरिव महाद्विपौ
रथशक्तिभिरन्योन्यं विशिखैश्चाप्यकृन्तताम्
MBh 7.117.27
निर्भिदन्तौ हि गात्राणि विक्षरन्तौ च शोणितम्
व्यष्टम्भयेतामन्योन्यं प्राणद्यूताभिदेविनौ
MBh 7.117.28
एवमुत्तमकर्माणौ कुरुवृष्णियशस्करौ
परस्परमयुध्येतां वारणाविव यूथपौ
MBh 7.117.29
तावदीर्घेण कालेन ब्रह्मलोकपुरस्कृतौ
जिगीषन्तौ परं स्थानमन्योन्यमभिजघ्नतुः
MBh 7.117.30
सात्यकिः सौमदत्तिश्च शरवृष्ट्या परस्परम्
हृष्टवद्धार्तराष्ट्राणां पश्यतामभ्यवर्षताम्
MBh 7.117.31
संप्रैक्षन्त जनास्तत्र युध्यमानौ युधां पती
यूथपौ वाशिताहेतोः प्रयुद्धाविव कुञ्जरौ
MBh 7.117.32
अन्योन्यस्य हयान्हत्वा धनुषी विनिकृत्य च
विरथावसियुद्धाय समेयातां महारणे
MBh 7.117.33
आर्षभे चर्मणी चित्रे प्रगृह्य विपुले शुभे
विकोशौ चाप्यसी कृत्वा समरे तौ विचेरतुः
MBh 7.117.34
चरन्तौ विविधान्मार्गान्मण्डलानि च भागशः
मुहुराजघ्नतुः क्रुद्धावन्योन्यमरिमर्दनौ
MBh 7.117.35
सखड्गौ चित्रवर्माणौ सनिष्काङ्गदभूषणौ
रणे रणोत्कटौ राजन्नन्योन्यं पर्यकर्षताम्
MBh 7.117.36
मुहूर्तमिव राजेन्द्र परिकृष्य परस्परम्
पश्यतां सर्वसैन्यानां वीरावाश्वसतां पुनः
MBh 7.117.37
असिभ्यां चर्मणी शुभ्रे विपुले च शरावरे
निकृत्य पुरुषव्याघ्रौ बाहुयुद्धं प्रचक्रतुः
MBh 7.117.38
व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलावुभौ
बाहुभिः समसज्जेतामायसैः परिघैरिव
MBh 7.117.39
तयोरासन्भुजाघाता निग्रहप्रग्रहौ तथा
शिक्षाबलसमुद्भूताः सर्वयोधप्रहर्षणाः
MBh 7.117.40
तयोर्नृवरयो राजन्समरे युध्यमानयोः
भीमोऽभवन्महाशब्दो वज्रपर्वतयोरिव
MBh 7.117.41
द्विपाविव विषाणाग्रैः शृङ्गैरिव महर्षभौ
युयुधाते महात्मानौ कुरुसात्वतपुंगवौ
MBh 7.117.42
क्षीणायुधे सात्वते युध्यमाने; ततोऽब्रवीदर्जुनं वासुदेवः
पश्यस्वैनं विरथं युध्यमानं; रणे केतुं सर्वधनुर्धराणाम्
MBh 7.117.43
प्रविष्टो भारतीं सेनां तव पाण्डव पृष्ठतः
योधितश्च महावीर्यैः सर्वैर्भारत भारतैः
MBh 7.117.44
परिश्रान्तो युधां श्रेष्ठः संप्राप्तो भूरिदक्षिणम्
युद्धकाङ्क्षिणमायान्तं नैतत्सममिवार्जुन
MBh 7.117.45
ततो भूरिश्रवाः क्रुद्धः सात्यकिं युद्धदुर्मदम्
उद्यम्य न्यहनद्राजन्मत्तो मत्तमिव द्विपम्
MBh 7.117.46
रथस्थयोर्द्वयोर्युद्धे क्रुद्धयोर्योधमुख्ययोः
केशवार्जुनयो राजन्समरे प्रेक्षमाणयोः
MBh 7.117.47
अथ कृष्णो महाबाहुरर्जुनं प्रत्यभाषत
पश्य वृष्ण्यन्धकव्याघ्रं सौमदत्तिवशं गतम्
MBh 7.117.48
परिश्रान्तं गतं भूमौ कृत्वा कर्म सुदुष्करम्
तवान्तेवासिनं शूरं पालयार्जुन सात्यकिम्
MBh 7.117.49
न वशं यज्ञशीलस्य गच्छेदेष वरारिहन्
त्वत्कृते पुरुषव्याघ्र तदाशु क्रियतां विभो
MBh 7.117.50
अथाब्रवीद्धृष्टमना वासुदेवं धनंजयः
पश्य वृष्णिप्रवीरेण क्रीडन्तं कुरुपुंगवम्
महाद्विपेनेव वने मत्तेन हरियूथपम्
MBh 7.117.51
हाहाकारो महानासीत्सैन्यानां भरतर्षभ
यदुद्यम्य महाबाहुः सात्यकिं न्यहनद्भुवि
MBh 7.117.52
स सिंह इव मातङ्गं विकर्षन्भूरिदक्षिणः
व्यरोचत कुरुश्रेष्ठः सात्वतप्रवरं युधि
MBh 7.117.53
अथ कोशाद्विनिष्कृष्य खड्गं भूरिश्रवा रणे
मूर्धजेषु निजग्राह पदा चोरस्यताडयत्
MBh 7.117.54
तथा तु परिकृष्यन्तं दृष्ट्वा सात्वतमाहवे
वासुदेवस्ततो राजन्भूयोऽर्जुनमभाषत
MBh 7.117.55
पश्य वृष्ण्यन्धकव्याघ्रं सौमदत्तिवशं गतम्
तव शिष्यं महाबाहो धनुष्यनवरं त्वया
MBh 7.117.56
असत्यो विक्रमः पार्थ यत्र भूरिश्रवा रणे
विशेषयति वार्ष्णेयं सात्यकिं सत्यविक्रमम्
MBh 7.117.57
एवमुक्तो महाबाहुर्वासुदेवेन पाण्डवः
मनसा पूजयामास भूरिश्रवसमाहवे
MBh 7.117.58
विकर्षन्सात्वतश्रेष्ठं क्रीडमान इवाहवे
संहर्षयति मां भूयः कुरूणां कीर्तिवर्धनः
MBh 7.117.59
प्रवरं वृष्णिवीराणां यन्न हन्याद्धि सात्यकिम्
महाद्विपमिवारण्ये मृगेन्द्र इव कर्षति
MBh 7.117.60
एवं तु मनसा राजन्पार्थः संपूज्य कौरवम्
वासुदेवं महाबाहुरर्जुनः प्रत्यभाषत
MBh 7.117.61
सैन्धवासक्तदृष्टित्वान्नैनं पश्यामि माधव
एष त्वसुकरं कर्म यादवार्थे करोम्यहम्
MBh 7.117.62
इत्युक्त्वा वचनं कुर्वन्वासुदेवस्य पाण्डवः
सखड्गं यज्ञशीलस्य पत्रिणा बाहुमच्छिनत्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Droṇa-Parva chapter-index (173 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Droṇa-Parva Ch 116
- Next chapter · Droṇa-Parva Ch 118 →
Sources and Connected Readings
Continue from these 62 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 7.117local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷