🪷 Mahābhārata · Droṇa-Parva · Chapter 114
The Book of Droṇa · Parva 7 · 94 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 94 Shlokas
MBh 7.114.1
संजय उवाच
ततः कर्णो महाराज भीमं विद्ध्वा त्रिभिः शरैः
मुमोच शरवर्षाणि चित्राणि च बहूनि च
MBh 7.114.2
वध्यमानो महाराज सूतपुत्रेण पाण्डवः
न विव्यथे भीमसेनो भिद्यमान इवाचलः
MBh 7.114.3
स कर्णं कर्णिना कर्णे पीतेन निशितेन च
विव्याध युधि राजेन्द्र भीमसेनः पतत्रिणा
MBh 7.114.4
स कुण्डलं महत्कर्णात्कर्णस्यापातयद्भुवि
तपनीयं महाराज दीप्तं ज्योतिरिवाम्बरात्
MBh 7.114.5
अथापरेण भल्लेन सूतपुत्रं स्तनान्तरे
आजघान भृशं भीमः स्मयन्निव महाबलः
MBh 7.114.6
पुनरस्य त्वरन्भीमो नाराचान्दश भारत
रणे प्रैषीन्महावेगान्यमदण्डोपमांस्तथा
MBh 7.114.7
ते ललाटं समासाद्य सूतपुत्रस्य मारिष
विविशुश्चोदितास्तेन वल्मीकमिव पन्नगाः
MBh 7.114.8
ललाटस्थैस्तु तैर्बाणैः सूतपुत्रो व्यरोचत
नीलोत्पलमयीं मालां धारयन्स पुरा यथा
MBh 7.114.9
ततः क्रुद्धो रणे कर्णः पीडितो दृढधन्वना
वेगं चक्रे महावेगो भीमसेनवधं प्रति
MBh 7.114.10
तस्मै कर्णः शतं राजन्निषूणां गार्ध्रवाससाम्
अमर्षी बलवान्क्रुद्धः प्रेषयामास भारत
MBh 7.114.11
ततः प्रासृजदुग्राणि शरवर्षाणि पाण्डवः
समरे तमनादृत्य नास्य वीर्यमचिन्तयत्
MBh 7.114.12
ततः कर्णो महाराज पाण्डवं निशितैः शरैः
आजघानोरसि क्रुद्धः क्रुद्धरूपं परंतपः
MBh 7.114.13
जीमूताविव चान्योन्यं तौ ववर्षतुराहवे
तलशब्दरवैश्चैव त्रासयन्तौ परस्परम्
MBh 7.114.14
शरजालैश्च विविधैश्छादयामासतुर्मृधे
अन्योन्यं समरे क्रुद्धौ कृतप्रतिकृतैषिणौ
MBh 7.114.15
ततो भीमो महाबाहू राधेयस्य महात्मनः
क्षुरप्रेण धनुश्छित्त्वा कर्णं विव्याध पत्रिणा
MBh 7.114.16
तदपास्य धनुश्छिन्नं सूतपुत्रो महामनाः
अन्यत्कार्मुकमादत्त वेगघ्नं भारसाधनम्
MBh 7.114.17
दृष्ट्वा च कुरुसौवीरसैन्धवानां बलक्षयम्
सवर्मध्वजशस्त्रैश्च पतितैः संवृतां महीम्
MBh 7.114.18
हस्त्यश्वनरदेहांश्च गतासून्प्रेक्ष्य सर्वतः
सूतपुत्रस्य संरम्भाद्दीप्तं वपुरजायत
MBh 7.114.19
स विस्फार्य महच्चापं कार्तस्वरविभूषितम्
भीमं प्रैक्षत राधेयो राजन्घोरेण चक्षुषा
MBh 7.114.20
ततः क्रुद्धः शरानस्यन्सूतपुत्रो व्यरोचत
मध्यंदिनगतोऽर्चिष्माञ्शरदीव दिवाकरः
MBh 7.114.21
मरीचिविकचस्येव राजन्भानुमतो वपुः
आसीदाधिरथेर्घोरं वपुः शरशतार्चिषः
MBh 7.114.22
कराभ्यामाददानस्य संदधानस्य चाशुगान्
विकर्षतो मुञ्चतो वा नान्तरं ददृशू रणे
MBh 7.114.23
अग्निचक्रोपमं घोरं मण्डलीकृतमायुधम्
कर्णस्यासीन्महाराज सव्यदक्षिणमस्यतः
MBh 7.114.24
स्वर्णपुङ्खाः सुनिशिताः कर्णचापच्युताः शराः
प्राच्छादयन्महाराज दिशः सूर्यस्य च प्रभाम्
MBh 7.114.25
ततः कनकपुङ्खानां शराणां नतपर्वणाम्
धनुश्च्युतानां वियति ददृशे बहुधा व्रजः
MBh 7.114.26
शरासनादाधिरथेः प्रभवन्तः स्म सायकाः
श्रेणीकृता व्यराजन्त राजन्क्रौञ्चा इवाम्बरे
MBh 7.114.27
गार्ध्रपत्राञ्शिलाधौतान्कार्तस्वरविभूषितान्
महावेगान्प्रदीप्ताग्रान्मुमोचाधिरथिः शरान्
MBh 7.114.28
ते तु चापबलोद्धूताः शातकुम्भविभूषिताः
अजस्रमन्वकीर्यन्त शराः पार्थरथं प्रति
MBh 7.114.29
ते व्योम्नि रत्नविकृता व्यकाशन्त सहस्रशः
शलभानामिव व्राताः शराः कर्णसमीरिताः
MBh 7.114.30
चापादाधिरथेर्मुक्ताः प्रपतन्तः स्म सायकाः
एको दीर्घ इव प्रांशुः प्रभवन्दृश्यते शरः
MBh 7.114.31
पर्वतं वारिधाराभिश्छादयन्निव तोयदः
कर्णः प्राच्छादयत्क्रुद्धो भीमं सायकवृष्टिभिः
MBh 7.114.32
तत्र भारत भीमस्य बलवीर्यपराक्रमम्
व्यवसायं च पुत्रास्ते प्रैक्षन्त कुरुभिः सह
MBh 7.114.33
तां समुद्रमिवोद्धूतां शरवृष्टिं समुत्थिताम्
अचिन्तयित्वा भीमस्तु क्रुद्धः कर्णमुपाद्रवत्
MBh 7.114.34
रुक्मपृष्ठं महच्चापं भीमस्यासीद्विशां पते
आकर्षान्मण्डलीभूतं शक्रचापमिवापरम्
तस्माच्छराः प्रादुरासन्पूरयन्त इवाम्बरम्
MBh 7.114.35
सुवर्णपुङ्खैर्भीमेन सायकैर्नतपर्वभिः
गगने रचिता माला काञ्चनीव व्यराजत
MBh 7.114.36
ततो व्योम्नि विषक्तानि शरजालानि भागशः
आहतानि व्यशीर्यन्त भीमसेनस्य पत्रिभिः
MBh 7.114.37
कर्णस्य शरजालौघैर्भीमसेनस्य चोभयोः
अग्निस्फुलिङ्गसंस्पर्शैरञ्जोगतिभिराहवे
तैस्तैः कनकपुङ्खानां द्यौरासीत्संवृता व्रजैः
MBh 7.114.38
स भीमं छादयन्बाणैः सूतपुत्रः पृथग्विधैः
उपारोहदनादृत्य तस्य वीर्यं महात्मनः
MBh 7.114.39
तयोर्विसृजतोस्तत्र शरजालानि मारिष
वायुभूतान्यदृश्यन्त संसक्तानीतरेतरम्
MBh 7.114.40
तस्मै कर्णः शितान्बाणान्कर्मारपरिमार्जितान्
सुवर्णविकृतान्क्रुद्धः प्राहिणोद्वधकाङ्क्षया
MBh 7.114.41
तानन्तरिक्षे विशिखैस्त्रिधैकैकमशातयत्
विशेषयन्सूतपुत्रं भीमस्तिष्ठेति चाब्रवीत्
MBh 7.114.42
पुनश्चासृजदुग्राणि शरवर्षाणि पाण्डवः
अमर्षी बलवान्क्रुद्धो दिधक्षन्निव पावकः
MBh 7.114.43
तस्य तान्याददे कर्णः सर्वाण्यस्त्राण्यभीतवत्
युध्यतः पाण्डुपुत्रस्य सूतपुत्रोऽस्त्रमायया
MBh 7.114.44
तस्येषुधी धनुर्ज्यां च बाणैः संनतपर्वभिः
रश्मीन्योक्त्राणि चाश्वानां कर्णो वैकर्तनोऽच्छिनत्
MBh 7.114.45
अथास्याश्वान्पुनर्हत्वा त्रिभिर्विव्याध सारथिम्
सोऽवप्लुत्य द्रुतं सूतो युयुधानरथं ययौ
MBh 7.114.46
उत्स्मयन्निव भीमस्य क्रुद्धः कालानलप्रभः
ध्वजं चिच्छेद राधेयः पताकाश्च न्यपातयत्
MBh 7.114.47
स विधन्वा महाराज रथशक्तिं परामृशत्
तामवासृजदाविध्य क्रुद्धः कर्णरथं प्रति
MBh 7.114.48
तामाधिरथिरायस्तः शक्तिं हेमपरिष्कृताम्
आपतन्तीं महोल्काभां चिच्छेद दशभिः शरैः
MBh 7.114.49
सापतद्दशधा राजन्निकृत्ता कर्णसायकैः
अस्यतः सूतपुत्रस्य मित्रार्थे चित्रयोधिनः
MBh 7.114.50
स चर्मादत्त कौन्तेयो जातरूपपरिष्कृतम्
खड्गं चान्यतरप्रेप्सुर्मृत्योरग्रे जयस्य वा
तदस्य सहसा कर्णो व्यधमत्प्रहसन्निव
MBh 7.114.51
स विचर्मा महाराज विरथः क्रोधमूर्छितः
असिं प्रासृजदाविध्य त्वरन्कर्णरथं प्रति
MBh 7.114.52
स धनुः सूतपुत्रस्य छित्त्वा ज्यां च सुसंशितः
अपतद्भुवि निस्त्रिंशश्च्युतः सर्प इवाम्बरात्
MBh 7.114.53
ततः प्रहस्याधिरथिरन्यदादत्त कार्मुकम्
शत्रुघ्नं समरे क्रुद्धो दृढज्यं वेगवत्तरम्
MBh 7.114.54
स भीमसेनः कुपितो बलवान्सत्यविक्रमः
विहायसं प्राक्रमद्वै कर्णस्य व्यथयन्मनः
MBh 7.114.55
तस्य तच्चरितं दृष्ट्वा संग्रामे विजयैषिणः
लयमास्थाय राधेयो भीमसेनमवञ्चयत्
MBh 7.114.56
तमदृष्ट्वा रथोपस्थे निलीनं व्यथितेन्द्रियम्
ध्वजमस्य समासाद्य तस्थौ स धरणीतले
MBh 7.114.57
तदस्य कुरवः सर्वे चारणाश्चाभ्यपूजयन्
यदियेष रथात्कर्णं हन्तुं तार्क्ष्य इवोरगम्
MBh 7.114.58
स छिन्नधन्वा विरथः स्वधर्ममनुपालयन्
स्वरथं पृष्ठतः कृत्वा युद्धायैव व्यवस्थितः
MBh 7.114.59
तद्विहत्यास्य राधेयस्तत एनं समभ्ययात्
संरब्धः पाण्डवं संख्ये युद्धाय समुपस्थितम्
MBh 7.114.60
तौ समेतौ महारङ्गे स्पर्धमानौ महाबलौ
जीमूताविव घर्मान्ते गर्जमानौ नभस्तले
MBh 7.114.61
तयोरासीत्संप्रहारः क्रुद्धयोर्नरसिंहयोः
अमृष्यमाणयोः संख्ये देवदानवयोरिव
MBh 7.114.62
क्षीणशस्त्रस्तु कौन्तेयः कर्णेन समभिद्रुतः
दृष्ट्वार्जुनहतान्नागान्पतितान्पर्वतोपमान्
रथमार्गविघातार्थं व्यायुधः प्रविवेश ह
MBh 7.114.63
हस्तिनां व्रजमासाद्य रथदुर्गं प्रविश्य च
पाण्डवो जीविताकाङ्क्षी राधेयं नाभ्यहारयत्
MBh 7.114.64
व्यवस्थानमथाकाङ्क्षन्धनंजयशरैर्हतम्
उद्यम्य कुञ्जरं पार्थस्तस्थौ परपुरंजयः
MBh 7.114.65
तमस्य विशिखैः कर्णो व्यधमत्कुञ्जरं पुनः
हस्त्यङ्गान्यथ कर्णाय प्राहिणोत्पाण्डवो नदन्
MBh 7.114.66
चक्राण्यश्वांस्तथा वाहान्यद्यत्पश्यति भूतले
तत्तदादाय चिक्षेप क्रुद्धः कर्णाय पाण्डवः
MBh 7.114.67
तदस्य सर्वं चिच्छेद क्षिप्तं क्षिप्तं शितैः शरैः
व्यायुधं नावधीच्चैनं कर्णः कुन्त्या वचः स्मरन्
MBh 7.114.68
धनुषोऽग्रेण तं कर्णस्त्वभिद्रुत्य परामृशत्
उत्स्मयन्निव राधेयो भीमसेनमुवाच ह
MBh 7.114.69
पुनः पुनस्तूबरक मूढ औदरिकेति च
अकृतास्त्रक मा योत्सीर्बाल संग्रामकातर
MBh 7.114.70
यत्र भोज्यं बहुविधं भक्ष्यं पेयं च पाण्डव
तत्र त्वं दुर्मते योग्यो न युद्धेषु कथंचन
MBh 7.114.71
मुनिर्भूत्वाथ वा भीम फलान्यद्धि सुदुर्मते
वनाय व्रज कौन्तेय न त्वं युद्धविशारदः
MBh 7.114.72
फलमूलाशने युक्तस्त्वं तथातिथिभोजने
न त्वां शस्त्रसमुद्योगे योग्यं मन्ये वृकोदर
MBh 7.114.73
पुष्पमूलफलाहारो व्रतेषु नियमेषु च
उचितस्त्वं वने भीम न त्वं युद्धविशारदः
MBh 7.114.74
क्व युद्धं क्व मुनित्वं च वनं गच्छ वृकोदर
न त्वं युद्धोचितस्तात वनवासरतिर्भव
MBh 7.114.75
सूदान्भृत्यजनान्दासांस्त्वं गृहे त्वरयन्भृशम्
योग्यस्ताडयितुं क्रोधाद्भोजनार्थं वृकोदर
MBh 7.114.76
कौमारे यानि चाप्यासन्नप्रियाणि विशां पते
पूर्ववृत्तानि चाप्येनं रूक्षाण्यश्रावयद्भृशम्
MBh 7.114.77
अथैनं तत्र संलीनमस्पृशद्धनुषा पुनः
प्रहसंश्च पुनर्वाक्यं भीममाह वृषस्तदा
MBh 7.114.78
योद्धव्यमाविशान्यत्र न योद्धव्यं तु मादृशैः
मादृशैर्युध्यमानानामेतच्चान्यच्च विद्यते
MBh 7.114.79
गच्छ वा यत्र तौ कृष्णौ तौ त्वा रक्षिष्यतो रणे
गृहं वा गच्छ कौन्तेय किं ते युद्धेन बालक
MBh 7.114.80
एवं तं विरथं कृत्वा कर्णो राजन्व्यकत्थत
प्रमुखे वृष्णिसिंहस्य पार्थस्य च महात्मनः
MBh 7.114.81
ततो राजञ्शिलाधौताञ्शराञ्शाखामृगध्वजः
प्राहिणोत्सूतपुत्राय केशवेन प्रचोदितः
MBh 7.114.82
ततः पार्थभुजोत्सृष्टाः शराः काञ्चनभूषणाः
गाण्डीवप्रभवाः कर्णं हंसाः क्रौञ्चमिवाविशन्
MBh 7.114.83
स भुजंगैरिवायस्तैर्गाण्डीवप्रेषितैः शरैः
भीमसेनादपासेधत्सूतपुत्रं धनंजयः
MBh 7.114.84
स छिन्नधन्वा भीमेन धनंजयशराहतः
कर्णो भीमादपायासीद्रथेन महता द्रुतम्
MBh 7.114.85
भीमोऽपि सात्यकेर्वाहं समारुह्य नरर्षभः
अन्वयाद्भ्रातरं संख्ये पाण्डवं सव्यसाचिनम्
MBh 7.114.86
ततः कर्णं समुद्दिश्य त्वरमाणो धनंजयः
नाराचं क्रोधताम्राक्षः प्रैषीन्मृत्युमिवान्तकः
MBh 7.114.87
स गरुत्मानिवाकाशे प्रार्थयन्भुजगोत्तमम्
नाराचोऽभ्यपतत्कर्णं तूर्णं गाण्डीवचोदितः
MBh 7.114.88
तमन्तरिक्षे नाराचं द्रौणिश्चिच्छेद पत्रिणा
धनंजयभयात्कर्णमुज्जिहीर्षुर्महारथः
MBh 7.114.89
ततो द्रौणिं चतुःषष्ट्या विव्याध कुपितोऽर्जुनः
शिलीमुखैर्महाराज मा गास्तिष्ठेति चाब्रवीत्
MBh 7.114.90
स तु मत्तगजाकीर्णमनीकं रथसंकुलम्
तूर्णमभ्याविशद्द्रौणिर्धनंजयशरार्दितः
MBh 7.114.91
ततः सुवर्णपृष्ठानां धनुषां कूजतां रणे
शब्दं गाण्डीवघोषेण कौन्तेयोऽभ्यभवद्बली
MBh 7.114.92
धनंजयस्तथा यान्तं पृष्ठतो द्रौणिमभ्ययात्
नातिदीर्घमिवाध्वानं शरैः संत्रासयन्बलम्
MBh 7.114.93
विदार्य देहान्नाराचैर्नरवारणवाजिनाम्
कङ्कबर्हिणवासोभिर्बलं व्यधमदर्जुनः
MBh 7.114.94
तद्बलं भरतश्रेष्ठ सवाजिद्विपमानवम्
पाकशासनिरायस्तः पार्थः संनिजघान ह
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Droṇa-Parva chapter-index (173 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Droṇa-Parva Ch 113
- Next chapter · Droṇa-Parva Ch 115 →
Sources and Connected Readings
Continue from these 94 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 7.114local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷