🪷 Mahābhārata · Droṇa-Parva · Chapter 111

The Book of Droṇa · Parva 7 · 35 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 35 Shlokas

MBh 7.111.1
संजय उवाच तवात्मजांस्तु पतितान्दृष्ट्वा कर्णः प्रतापवान् क्रोधेन महताविष्टो निर्विण्णोऽभूत्स जीवितात्
MBh 7.111.2
आगस्कृतमिवात्मानं मेने चाधिरथिस्तदा भीमसेनं ततः क्रुद्धः समाद्रवत संभ्रमात्
MBh 7.111.3
स भीमं पञ्चभिर्विद्ध्वा राधेयः प्रहसन्निव पुनर्विव्याध सप्तत्या स्वर्णपुङ्खैः शिलाशितैः
MBh 7.111.4
अवहासं तु तं पार्थो नामृष्यत वृकोदरः ततो विव्याध राधेयं शतेन नतपर्वणाम्
MBh 7.111.5
पुनश्च विशिखैस्तीक्ष्णैर्विद्ध्वा पञ्चभिराशुगैः धनुश्चिच्छेद भल्लेन सूतपुत्रस्य मारिष
MBh 7.111.6
अथान्यद्धनुरादाय कर्णो भारत दुर्मनाः इषुभिश्छादयामास भीमसेनं समन्ततः
MBh 7.111.7
तस्य भीमो हयान्हत्वा विनिहत्य च सारथिम् प्रजहास महाहासं कृते प्रतिकृतं पुनः
MBh 7.111.8
इषुभिः कार्मुकं चास्य चकर्त पुरुषर्षभः तत्पपात महाराज स्वर्णपृष्ठं महास्वनम्
MBh 7.111.9
अवारोहद्रथात्तस्मादथ कर्णो महारथः गदां गृहीत्वा समरे भीमसेनाय चाक्षिपत्
MBh 7.111.10
तामापतन्तीं सहसा गदां दृष्ट्वा वृकोदरः शरैरवारयद्राजन्सर्वसैन्यस्य पश्यतः
MBh 7.111.11
ततो बाणसहस्राणि प्रेषयामास पाण्डवः सूतपुत्रवधाकाङ्क्षी त्वरमाणः पराक्रमी
MBh 7.111.12
तानिषूनिषुभिः कर्णो वारयित्वा महामृधे कवचं भीमसेनस्य पातयामास सायकैः
MBh 7.111.13
अथैनं पञ्चविंशत्या क्षुद्रकाणां समार्पयत् पश्यतां सर्वभूतानां तदद्भुतमिवाभवत्
MBh 7.111.14
ततो भीमो महाराज नवभिर्नतपर्वणाम् रणेऽप्रेषयत क्रुद्धः सूतपुत्रस्य मारिष
MBh 7.111.15
ते तस्य कवचं भित्त्वा तथा बाहुं च दक्षिणम् अभ्यगुर्धरणीं तीक्ष्णा वल्मीकमिव पन्नगाः
MBh 7.111.16
राधेयं तु रणे दृष्ट्वा पदातिनमवस्थितम् भीमसेनेन संरब्धं राजा दुर्योधनोऽब्रवीत् त्वरध्वं सर्वतो यत्ता राधेयस्य रथं प्रति
MBh 7.111.17
ततस्तव सुता राजञ्श्रुत्वा भ्रातुर्वचो द्रुतम् अभ्ययुः पाण्डवं युद्धे विसृजन्तः शिताञ्शरान्
MBh 7.111.18
चित्रोपचित्रश्चित्राक्षश्चारुचित्रः शरासनः चित्रायुधश्चित्रवर्मा समरे चित्रयोधिनः
MBh 7.111.19
आगच्छतस्तान्सहसा भीमो राजन्महारथः साश्वसूतध्वजान्यत्तान्पातयामास संयुगे ते हता न्यपतन्भूमौ वातनुन्ना इव द्रुमाः
MBh 7.111.20
दृष्ट्वा विनिहतान्पुत्रांस्तव राजन्महारथान् अश्रुपूर्णमुखः कर्णः कश्मलं समपद्यत
MBh 7.111.21
रथमन्यं समास्थाय विधिवत्कल्पितं पुनः अभ्ययात्पाण्डवं युद्धे त्वरमाणः पराक्रमी
MBh 7.111.22
तावन्योन्यं शरैर्विद्ध्वा स्वर्णपुङ्खैः शिलाशितैः व्यभ्राजेतां महाराज पुष्पिताविव किंशुकौ
MBh 7.111.23
षट्त्रिंशद्भिस्ततो भल्लैर्निशितैस्तिग्मतेजनैः व्यधमत्कवचं क्रुद्धः सूतपुत्रस्य पाण्डवः
MBh 7.111.24
रक्तचन्दनदिग्धाङ्गौ शरैः कृतमहाव्रणौ शोणिताक्तौ व्यराजेतां कालसूर्याविवोदितौ
MBh 7.111.25
तौ शोणितोक्षितैर्गात्रैः शरैश्छिन्नतनुच्छदौ विवर्माणौ व्यराजेतां निर्मुक्ताविव पन्नगौ
MBh 7.111.26
व्याघ्राविव नरव्याघ्रौ दंष्ट्राभिरितरेतरम् शरदंष्ट्रा विधुन्वानौ ततक्षतुररिंदमौ
MBh 7.111.27
वारणाविव संसक्तौ रङ्गमध्ये विरेजतुः तुदन्तौ विशिखैस्तीक्ष्णैर्मत्तवारणविक्रमौ
MBh 7.111.28
प्रच्छादयन्तौ समरे शरजालैः परस्परम् रथाभ्यां नादयन्तौ च दिशः सर्वा विचेरतुः
MBh 7.111.29
तौ रथाभ्यां महाराज मण्डलावर्तनादिषु व्यरोचेतां महात्मानौ वृत्रवज्रधराविव
MBh 7.111.30
सहस्ताभरणाभ्यां तु भुजाभ्यां विक्षिपन्धनुः व्यरोचत रणे भीमः सविद्युदिव तोयदः
MBh 7.111.31
स चापघोषस्तनितः शरधाराम्बुदो महान् भीममेघो महाराज कर्णपर्वतमभ्ययात्
MBh 7.111.32
ततः शरसहस्रेण धनुर्मुक्तेन भारत पाण्डवो व्यकिरत्कर्णं घनोऽद्रिमिव वृष्टिभिः
MBh 7.111.33
तत्रावैक्षन्त पुत्रास्ते भीमसेनस्य विक्रमम् सुपुङ्खैः कङ्कवासोभिर्यत्कर्णं छादयच्छरैः
MBh 7.111.34
स नन्दयन्रणे पार्थं केशवं च यशस्विनम् सात्यकिं चक्ररक्षौ च भीमः कर्णमयोधयत्
MBh 7.111.35
विक्रमं भुजयोर्वीर्यं धैर्यं च विदितात्मनः पुत्रास्तव महाराज ददृशुः पाण्डवस्य ह

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 35 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 7.111local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷