🪷 Mahābhārata · Droṇa-Parva · Chapter 106

The Book of Droṇa · Parva 7 · 54 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 54 Shlokas

MBh 7.106.1
धृतराष्ट्र उवाच यौ तौ कर्णश्च भीमश्च संप्रयुद्धौ महाबलौ अर्जुनस्य रथोपान्ते कीदृशः सोऽभवद्रणः
MBh 7.106.2
पूर्वं हि निर्जितः कर्णो भीमसेनेन संयुगे कथं भूयस्तु राधेयो भीममागान्महारथः
MBh 7.106.3
भीमो वा सूततनयं प्रत्युद्यातः कथं रणे महारथसमाख्यातं पृथिव्यां प्रवरं रथम्
MBh 7.106.4
भीष्मद्रोणावतिक्रम्य धर्मपुत्रो युधिष्ठिरः नान्यतो भयमादत्त विना कर्णं धनुर्धरम्
MBh 7.106.5
भयान्न शेते सततं चिन्तयन्वै महारथम् तं कथं सूतपुत्रं हि भीमोऽयुध्यत संयुगे
MBh 7.106.6
ब्रह्मण्यं वीर्यसंपन्नं समरेष्वनिवर्तिनम् कथं कर्णं युधां श्रेष्ठं भीमोऽयुध्यत संयुगे
MBh 7.106.7
यौ तौ समीयतुर्वीरावर्जुनस्य रथं प्रति कथं नु तावयुध्येतां सूतपुत्रवृकोदरौ
MBh 7.106.8
भ्रातृत्वं दर्शितं पूर्वं घृणी चापि स सूतजः कथं भीमेन युयुधे कुन्त्या वाक्यमनुस्मरन्
MBh 7.106.9
भीमो वा सूतपुत्रेण स्मरन्वैरं पुरा कृतम् सोऽयुध्यत कथं वीरः कर्णेन सह संयुगे
MBh 7.106.10
आशास्ते च सदा सूत पुत्रो दुर्योधनो मम कर्णो जेष्यति संग्रामे सहितान्पाण्डवानिति
MBh 7.106.11
जयाशा यत्र मन्दस्य पुत्रस्य मम संयुगे स कथं भीमकर्माणं भीमसेनमयुध्यत
MBh 7.106.12
यं समाश्रित्य पुत्रैर्मे कृतं वैरं महारथैः तं सूततनयं तात कथं भीमो ह्ययोधयत्
MBh 7.106.13
अनेकान्विप्रकारांश्च सूतपुत्रसमुद्भवान् स्मरमाणः कथं भीमो युयुधे सूतसूनुना
MBh 7.106.14
योऽजयत्पृथिवीं सर्वां रथेनैकेन वीर्यवान् तं सूततनयं युद्धे कथं भीमो ह्ययोधयत्
MBh 7.106.15
यो जातः कुण्डलाभ्यां च कवचेन सहैव च तं सूतपुत्रं समरे भीमः कथमयोधयत्
MBh 7.106.16
यथा तयोर्युद्धमभूद्यश्चासीद्विजयी तयोः तन्ममाचक्ष्व तत्त्वेन कुशलो ह्यसि संजय
MBh 7.106.17
संजय उवाच भीमसेनस्तु राधेयमुत्सृज्य रथिनां वरम् इयेष गन्तुं यत्रास्तां वीरौ कृष्णधनंजयौ
MBh 7.106.18
तं प्रयान्तमभिद्रुत्य राधेयः कङ्कपत्रिभिः अभ्यवर्षन्महाराज मेघो वृष्ट्येव पर्वतम्
MBh 7.106.19
फुल्लता पङ्कजेनेव वक्त्रेणाभ्युत्स्मयन्बली आजुहाव रणे यान्तं भीममाधिरथिस्तदा
MBh 7.106.20
भीमसेनस्तदाह्वानं कर्णान्नामर्षयद्युधि अर्धमण्डलमावृत्य सूतपुत्रमयोधयत्
MBh 7.106.21
अवक्रगामिभिर्बाणैरभ्यवर्षन्महायसैः द्वैरथे दंशितं यत्तं सर्वशस्त्रभृतां वरम्
MBh 7.106.22
विधित्सुः कलहस्यान्तं जिघांसुः कर्णमक्षिणोत् तं च हत्वेतरान्सर्वान्हन्तुकामो महाबलः
MBh 7.106.23
तस्मै प्रासृजदुग्राणि विविधानि परंतपः अमर्षी पाण्डवः क्रुद्धः शरवर्षाणि मारिष
MBh 7.106.24
तस्य तानीषुवर्षाणि मत्तद्विरदगामिनः सूतपुत्रोऽस्त्रमायाभिरग्रसत्सुमहायशाः
MBh 7.106.25
स यथावन्महाराज विद्यया वै सुपूजितः आचार्यवन्महेष्वासः कर्णः पर्यचरद्रणे
MBh 7.106.26
संरम्भेण तु युध्यन्तं भीमसेनं स्मयन्निव अभ्यपद्यत राधेयस्तममर्षी वृकोदरम्
MBh 7.106.27
तन्नामृष्यत कौन्तेयः कर्णस्य स्मितमाहवे युध्यमानेषु वीरेषु पश्यत्सु च समन्ततः
MBh 7.106.28
तं भीमसेनः संप्राप्तं वत्सदन्तैः स्तनान्तरे विव्याध बलवान्क्रुद्धस्तोत्त्रैरिव महाद्विपम्
MBh 7.106.29
सूतं तु सूतपुत्रस्य सुपुङ्खैर्निशितैः शरैः सुमुक्तैश्चित्रवर्माणं निर्बिभेद त्रिसप्तभिः
MBh 7.106.30
कर्णो जाम्बूनदैर्जालैः संछन्नान्वातरंहसः विव्याध तुरगान्वीरः पञ्चभिः पञ्चभिः शरैः
MBh 7.106.31
ततो बाणमयं जालं भीमसेनरथं प्रति कर्णेन विहितं राजन्निमेषार्धाददृश्यत
MBh 7.106.32
सरथः सध्वजस्तत्र ससूतः पाण्डवस्तदा प्राच्छाद्यत महाराज कर्णचापच्युतैः शरैः
MBh 7.106.33
तस्य कर्णश्चतुःषष्ट्या व्यधमत्कवचं दृढम् क्रुद्धश्चाप्यहनत्पार्श्वे नाराचैर्मर्मभेदिभिः
MBh 7.106.34
ततोऽचिन्त्य महावेगान्कर्णकार्मुकनिःसृतान् समाश्लिष्यदसंभ्रान्तः सूतपुत्रं वृकोदरः
MBh 7.106.35
स कर्णचापप्रभवानिषूनाशीविषोपमान् बिभ्रद्भीमो महाराज न जगाम व्यथां रणे
MBh 7.106.36
ततो द्वात्रिंशता भल्लैर्निशितैस्तिग्मतेजनैः विव्याध समरे कर्णं भीमसेनः प्रतापवान्
MBh 7.106.37
अयत्नेनैव तं कर्णः शरैरुप समाकिरत् भीमसेनं महाबाहुं सैन्धवस्य वधैषिणम्
MBh 7.106.38
मृदुपूर्वं च राधेयो भीममाजावयोधयत् क्रोधपूर्वं तथा भीमः पूर्ववैरमनुस्मरन्
MBh 7.106.39
तं भीमसेनो नामृष्यदवमानममर्षणः स तस्मै व्यसृजत्तूर्णं शरवर्षममित्रजित्
MBh 7.106.40
ते शराः प्रेषिता राजन्भीमसेनेन संयुगे निपेतुः सर्वतो भीमाः कूजन्त इव पक्षिणः
MBh 7.106.41
हेमपुङ्खा महाराज भीमसेनधनुश्च्युताः अभ्यद्रवंस्ते राधेयं वृकाः क्षुद्रमृगं यथा
MBh 7.106.42
कर्णस्तु रथिनां श्रेष्ठश्छाद्यमानः समन्ततः राजन्व्यसृजदुग्राणि शरवर्षाणि संयुगे
MBh 7.106.43
तस्य तानशनिप्रख्यानिषून्समरशोभिनः चिच्छेद बहुभिर्भल्लैरसंप्राप्तान्वृकोदरः
MBh 7.106.44
पुनश्च शरवर्षेण छादयामास भारत कर्णो वैकर्तनो युद्धे भीमसेनं महारथम्
MBh 7.106.45
तत्र भारत भीमं तु दृष्टवन्तः स्म सायकैः समाचिततनुं संख्ये श्वाविधं शललैरिव
MBh 7.106.46
हेमपुङ्खाञ्शिलाधौतान्कर्णचापच्युताञ्शरान् दधार समरे वीरः स्वरश्मीनिव भास्करः
MBh 7.106.47
रुधिरोक्षितसर्वाङ्गो भीमसेनो व्यरोचत तपनीयनिभैः पुष्पैः पलाश इव कानने
MBh 7.106.48
तत्तु भीमो महाराज कर्णस्य चरितं रणे नामृष्यत महेष्वासः क्रोधादुद्वृत्य चक्षुषी
MBh 7.106.49
स कर्णं पञ्चविंशत्या नाराचानां समार्पयत् महीधरमिव श्वेतं गूढपादैर्विषोल्बणैः
MBh 7.106.50
तं विव्याध पुनर्भीमः षड्भिरष्टाभिरेव च मर्मस्वमरविक्रान्तः सूतपुत्रं महारणे
MBh 7.106.51
ततः कर्णस्य संक्रुद्धो भीमसेनः प्रतापवान् चिच्छेद कार्मुकं तूर्णं सर्वोपकरणानि च
MBh 7.106.52
जघान चतुरश्चाश्वान्सूतं च त्वरितः शरैः नाराचैरर्करश्म्याभैः कर्णं विव्याध चोरसि
MBh 7.106.53
ते जग्मुर्धरणीं सर्वे कर्णं निर्भिद्य मारिष यथा हि जलदं भित्त्वा राजन्सूर्यस्य रश्मयः
MBh 7.106.54
स वैकल्यं महत्प्राप्य छिन्नधन्वा शरार्दितः तथा पुरुषमानी स प्रत्यपायाद्रथान्तरम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 54 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 7.106local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷