🪷 Mahābhārata · Bhīṣma-Parva · Chapter 89
The Book of Bhīṣma · Parva 6 · 41 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 41 Shlokas
MBh 6.89.1
संजय उवाच
विमुखीकृत्य तान्सर्वांस्तावकान्युधि राक्षसः
जिघांसुर्भरतश्रेष्ठ दुर्योधनमुपाद्रवत्
MBh 6.89.2
तमापतन्तं संप्रेक्ष्य राजानं प्रति वेगितम्
अभ्यधावञ्जिघांसन्तस्तावका युद्धदुर्मदाः
MBh 6.89.3
तालमात्राणि चापानि विकर्षन्तो महाबलाः
तमेकमभ्यधावन्त नदन्तः सिंहसंघवत्
MBh 6.89.4
अथैनं शरवर्षेण समन्तात्पर्यवारयन्
पर्वतं वारिधाराभिः शरदीव बलाहकाः
MBh 6.89.5
स गाढविद्धो व्यथितस्तोत्त्रार्दित इव द्विपः
उत्पपात तदाकाशं समन्ताद्वैनतेयवत्
MBh 6.89.6
व्यनदत्सुमहानादं जीमूत इव शारदः
दिशः खं प्रदिशश्चैव नादयन्भैरवस्वनः
MBh 6.89.7
राक्षसस्य तु तं शब्दं श्रुत्वा राजा युधिष्ठिरः
उवाच भरतश्रेष्ठो भीमसेनमिदं वचः
MBh 6.89.8
युध्यते राक्षसो नूनं धार्तराष्ट्रैर्महारथैः
यथास्य श्रूयते शब्दो नदतो भैरवं स्वनम्
अतिभारं च पश्यामि तत्र तात समाहितम्
MBh 6.89.9
पितामहश्च संक्रुद्धः पाञ्चालान्हन्तुमुद्यतः
तेषां च रक्षणार्थाय युध्यते फल्गुनः परैः
MBh 6.89.10
एतच्छ्रुत्वा महाबाहो कार्यद्वयमुपस्थितम्
गच्छ रक्षस्व हैडिम्बं संशयं परमं गतम्
MBh 6.89.11
भ्रातुर्वचनमाज्ञाय त्वरमाणो वृकोदरः
प्रययौ सिंहनादेन त्रासयन्सर्वपार्थिवान्
वेगेन महता राजन्पर्वकाले यथोदधिः
MBh 6.89.12
तमन्वयात्सत्यधृतिः सौचित्तिर्युद्धदुर्मदः
श्रेणिमान्वसुदानश्च पुत्रः काश्यस्य चाभिभूः
MBh 6.89.13
अभिमन्युमुखाश्चैव द्रौपदेया महारथाः
क्षत्रदेवश्च विक्रान्तः क्षत्रधर्मा तथैव च
MBh 6.89.14
अनूपाधिपतिश्चैव नीलः स्वबलमास्थितः
महता रथवंशेन हैडिम्बं पर्यवारयन्
MBh 6.89.15
कुञ्जरैश्च सदा मत्तैः षट्सहस्रैः प्रहारिभिः
अभ्यरक्षन्त सहिता राक्षसेन्द्रं घटोत्कचम्
MBh 6.89.16
सिंहनादेन महता नेमिघोषेण चैव हि
खुरशब्दनिनादैश्च कम्पयन्तो वसुंधराम्
MBh 6.89.17
तेषामापततां श्रुत्वा शब्दं तं तावकं बलम्
भीमसेनभयोद्विग्नं विवर्णवदनं तथा
परिवृत्तं महाराज परित्यज्य घटोत्कचम्
MBh 6.89.18
ततः प्रववृते युद्धं तत्र तत्र महात्मनाम्
तावकानां परेषां च संग्रामेष्वनिवर्तिनाम्
MBh 6.89.19
नानारूपाणि शस्त्राणि विसृजन्तो महारथाः
अन्योन्यमभिधावन्तः संप्रहारं प्रचक्रिरे
व्यतिषक्तं महारौद्रं युद्धं भीरुभयावहम्
MBh 6.89.20
हया गजैः समाजग्मुः पादाता रथिभिः सह
अन्योन्यं समरे राजन्प्रार्थयाना महद्यशः
MBh 6.89.21
सहसा चाभवत्तीव्रं संनिपातान्महद्रजः
रथाश्वगजपत्तीनां पदनेमिसमुद्धतम्
MBh 6.89.22
धूम्रारुणं रजस्तीव्रं रणभूमिं समावृणोत्
नैव स्वे न परे राजन्समजानन्परस्परम्
MBh 6.89.23
पिता पुत्रं न जानीते पुत्रो वा पितरं तथा
निर्मर्यादे तथा भूते वैशसे लोमहर्षणे
MBh 6.89.24
शस्त्राणां भरतश्रेष्ठ मनुष्याणां च गर्जताम्
सुमहानभवच्छब्दो वंशानामिव दह्यताम्
MBh 6.89.25
गजवाजिमनुष्याणां शोणितान्त्रतरङ्गिणी
प्रावर्तत नदी तत्र केशशैवलशाद्वला
MBh 6.89.26
नराणां चैव कायेभ्यः शिरसां पततां रणे
शुश्रुवे सुमहाञ्शब्दः पततामश्मनामिव
MBh 6.89.27
विशिरस्कैर्मनुष्यैश्च छिन्नगात्रैश्च वारणैः
अश्वैः संभिन्नदेहैश्च संकीर्णाभूद्वसुंधरा
MBh 6.89.28
नानाविधानि शस्त्राणि विसृजन्तो महारथाः
अन्योन्यमभिधावन्तः संप्रहारं प्रचक्रिरे
MBh 6.89.29
हया हयान्समासाद्य प्रेषिता हयसादिभिः
समाहत्य रणेऽन्योन्यं निपेतुर्गतजीविताः
MBh 6.89.30
नरा नरान्समासाद्य क्रोधरक्तेक्षणा भृशम्
उरांस्युरोभिरन्योन्यं समाश्लिष्य निजघ्निरे
MBh 6.89.31
प्रेषिताश्च महामात्रैर्वारणाः परवारणाः
अभिघ्नन्ति विषाणाग्रैर्वारणानेव संयुगे
MBh 6.89.32
ते जातरुधिरापीडाः पताकाभिरलंकृताः
संसक्ताः प्रत्यदृश्यन्त मेघा इव सविद्युतः
MBh 6.89.33
केचिद्भिन्ना विषाणाग्रैर्भिन्नकुम्भाश्च तोमरैः
विनदन्तोऽभ्यधावन्त गर्जन्तो जलदा इव
MBh 6.89.34
केचिद्धस्तैर्द्विधा छिन्नैश्छिन्नगात्रास्तथापरे
निपेतुस्तुमुले तस्मिंश्छिन्नपक्षा इवाद्रयः
MBh 6.89.35
पार्श्वैस्तु दारितैरन्ये वारणैर्वरवारणाः
मुमुचुः शोणितं भूरि धातूनिव महीधराः
MBh 6.89.36
नाराचाभिहतास्त्वन्ये तथा विद्धाश्च तोमरैः
हतारोहा व्यदृश्यन्त विशृङ्गा इव पर्वताः
MBh 6.89.37
केचित्क्रोधसमाविष्टा मदान्धा निरवग्रहाः
रथान्हयान्पदातांश्च ममृदुः शतशो रणे
MBh 6.89.38
तथा हया हयारोहैस्ताडिताः प्रासतोमरैः
तेन तेनाभ्यवर्तन्त कुर्वन्तो व्याकुला दिशः
MBh 6.89.39
रथिनो रथिभिः सार्धं कुलपुत्रास्तनुत्यजः
परां शक्तिं समास्थाय चक्रुः कर्माण्यभीतवत्
MBh 6.89.40
स्वयंवर इवामर्दे प्रजह्रुरितरेतरम्
प्रार्थयाना यशो राजन्स्वर्गं वा युद्धशालिनः
MBh 6.89.41
तस्मिंस्तथा वर्तमाने संग्रामे लोमहर्षणे
धार्तराष्ट्रं महत्सैन्यं प्रायशो विमुखीकृतम्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Bhīṣma-Parva chapter-index (117 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Bhīṣma-Parva Ch 88
- Next chapter · Bhīṣma-Parva Ch 90 →
Sources and Connected Readings
Continue from these 41 source-pinned Devanāgarī addresses to Bhīṣma-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 6.89local chapter route · Bhīṣma-ParvaBhīṣma-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesMBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷