🪷 Mahābhārata · Bhīṣma-Parva · Chapter 88

The Book of Bhīṣma · Parva 6 · 38 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 38 Shlokas

MBh 6.88.1
संजय उवाच ततस्तद्बाणवर्षं तु दुःसहं दानवैरपि दधार युधि राजेन्द्रो यथा वर्षं महाद्विपः
MBh 6.88.2
ततः क्रोधसमाविष्टो निःश्वसन्निव पन्नगः संशयं परमं प्राप्तः पुत्रस्ते भरतर्षभ
MBh 6.88.3
मुमोच निशितांस्तीक्ष्णान्नाराचान्पञ्चविंशतिम् तेऽपतन्सहसा राजंस्तस्मिन्राक्षसपुंगवे आशीविषा इव क्रुद्धाः पर्वते गन्धमादने
MBh 6.88.4
स तैर्विद्धः स्रवन्रक्तं प्रभिन्न इव कुञ्जरः दध्रे मतिं विनाशाय राज्ञः स पिशिताशनः जग्राह च महाशक्तिं गिरीणामपि दारणीम्
MBh 6.88.5
संप्रदीप्तां महोल्काभामशनीं मघवानिव समुद्यच्छन्महाबाहुर्जिघांसुस्तनयं तव
MBh 6.88.6
तामुद्यतामभिप्रेक्ष्य वङ्गानामधिपस्त्वरन् कुञ्जरं गिरिसंकाशं राक्षसं प्रत्यचोदयत्
MBh 6.88.7
स नागप्रवरेणाजौ बलिना शीघ्रगामिना यतो दुर्योधनरथस्तं मार्गं प्रत्यपद्यत रथं च वारयामास कुञ्जरेण सुतस्य ते
MBh 6.88.8
मार्गमावारितं दृष्ट्वा राज्ञा वङ्गेन धीमता घटोत्कचो महाराज क्रोधसंरक्तलोचनः उद्यतां तां महाशक्तिं तस्मिंश्चिक्षेप वारणे
MBh 6.88.9
स तयाभिहतो राजंस्तेन बाहुविमुक्तया संजातरुधिरोत्पीडः पपात च ममार च
MBh 6.88.10
पतत्यथ गजे चापि वङ्गानामीश्वरो बली जवेन समभिद्रुत्य जगाम धरणीतलम्
MBh 6.88.11
दुर्योधनोऽपि संप्रेक्ष्य पातितं वरवारणम् प्रभग्नं च बलं दृष्ट्वा जगाम परमां व्यथाम्
MBh 6.88.12
क्षत्रधर्मं पुरस्कृत्य आत्मनश्चाभिमानिताम् प्राप्तेऽपक्रमणे राजा तस्थौ गिरिरिवाचलः
MBh 6.88.13
संधाय च शितं बाणं कालाग्निसमतेजसम् मुमोच परमक्रुद्धस्तस्मिन्घोरे निशाचरे
MBh 6.88.14
तमापतन्तं संप्रेक्ष्य बाणमिन्द्राशनिप्रभम् लाघवाद्वञ्चयामास महाकायो घटोत्कचः
MBh 6.88.15
भूय एव ननादोग्रः क्रोधसंरक्तलोचनः त्रासयन्सर्वभूतानि युगान्ते जलदो यथा
MBh 6.88.16
तं श्रुत्वा निनदं घोरं तस्य भीष्मस्य रक्षसः आचार्यमुपसंगम्य भीष्मः शांतनवोऽब्रवीत्
MBh 6.88.17
यथैष निनदो घोरः श्रूयते राक्षसेरितः हैडिम्बो युध्यते नूनं राज्ञा दुर्योधनेन ह
MBh 6.88.18
नैष शक्यो हि संग्रामे जेतुं भूतेन केनचित् तत्र गच्छत भद्रं वो राजानं परिरक्षत
MBh 6.88.19
अभिद्रुतं महाभागं राक्षसेन दुरात्मना एतद्धि परमं कृत्यं सर्वेषां नः परंतपाः
MBh 6.88.20
पितामहवचः श्रुत्वा त्वरमाणा महारथाः उत्तमं जवमास्थाय प्रययुर्यत्र कौरवः
MBh 6.88.21
द्रोणश्च सोमदत्तश्च बाह्लिकश्च जयद्रथः कृपो भूरिश्रवाः शल्यश्चित्रसेनो विविंशतिः
MBh 6.88.22
अश्वत्थामा विकर्णश्च आवन्त्यश्च बृहद्बलः रथाश्चानेकसाहस्रा ये तेषामनुयायिनः अभिद्रुतं परीप्सन्तः पुत्रं दुर्योधनं तव
MBh 6.88.23
तदनीकमनाधृष्यं पालितं लोकसत्तमैः आततायिनमायान्तं प्रेक्ष्य राक्षससत्तमः नाकम्पत महाबाहुर्मैनाक इव पर्वतः
MBh 6.88.24
प्रगृह्य विपुलं चापं ज्ञातिभिः परिवारितः शूलमुद्गरहस्तैश्च नानाप्रहरणैरपि
MBh 6.88.25
ततः समभवद्युद्धं तुमुलं लोमहर्षणम् राक्षसानां च मुख्यस्य दुर्योधनबलस्य च
MBh 6.88.26
धनुषां कूजतां शब्दः सर्वतस्तुमुलोऽभवत् अश्रूयत महाराज वंशानां दह्यतामिव
MBh 6.88.27
शस्त्राणां पात्यमानानां कवचेषु शरीरिणाम् शब्दः समभवद्राजन्नद्रीणामिव दीर्यताम्
MBh 6.88.28
वीरबाहुविसृष्टानां तोमराणां विशां पते रूपमासीद्वियत्स्थानां सर्पाणां सर्पतामिव
MBh 6.88.29
ततः परमसंक्रुद्धो विस्फार्य सुमहद्धनुः राक्षसेन्द्रो महाबाहुर्विनदन्भैरवं रवम्
MBh 6.88.30
आचार्यस्यार्धचन्द्रेण क्रुद्धश्चिच्छेद कार्मुकम् सोमदत्तस्य भल्लेन ध्वजमुन्मथ्य चानदत्
MBh 6.88.31
बाह्लिकं च त्रिभिर्बाणैरभ्यविध्यत्स्तनान्तरे कृपमेकेन विव्याध चित्रसेनं त्रिभिः शरैः
MBh 6.88.32
पूर्णायतविसृष्टेन सम्यक्प्रणिहितेन च जत्रुदेशे समासाद्य विकर्णं समताडयत् न्यषीदत्स रथोपस्थे शोणितेन परिप्लुतः
MBh 6.88.33
ततः पुनरमेयात्मा नाराचान्दश पञ्च च भूरिश्रवसि संक्रुद्धः प्राहिणोद्भरतर्षभ ते वर्म भित्त्वा तस्याशु प्राविशन्मेदिनीतलम्
MBh 6.88.34
विविंशतेश्च द्रौणेश्च यन्तारौ समताडयत् तौ पेततू रथोपस्थे रश्मीनुत्सृज्य वाजिनाम्
MBh 6.88.35
सिन्धुराज्ञोऽर्धचन्द्रेण वाराहं स्वर्णभूषितम् उन्ममाथ महाराज द्वितीयेनाच्छिनद्धनुः
MBh 6.88.36
चतुर्भिरथ नाराचैरावन्त्यस्य महात्मनः जघान चतुरो वाहान्क्रोधसंरक्तलोचनः
MBh 6.88.37
पूर्णायतविसृष्टेन पीतेन निशितेन च निर्बिभेद महाराज राजपुत्रं बृहद्बलम् स गाढविद्धो व्यथितो रथोपस्थ उपाविशत्
MBh 6.88.38
भृशं क्रोधेन चाविष्टो रथस्थो राक्षसाधिपः चिक्षेप निशितांस्तीक्ष्णाञ्शरानाशीविषोपमान् बिभिदुस्ते महाराज शल्यं युद्धविशारदम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 38 source-pinned Devanāgarī addresses to Bhīṣma-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 6.88local chapter route · Bhīṣma-ParvaBhīṣma-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesMBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷