🪷 Mahābhārata · Bhīṣma-Parva · Chapter 7
The Book of Bhīṣma · Parva 6 · 53 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 53 Shlokas
MBh 6.7.1
धृतराष्ट्र उवाच
उक्तो द्वीपस्य संक्षेपो विस्तरं ब्रूहि संजय
यावद्भूम्यवकाशोऽयं दृश्यते शशलक्षणे
तस्य प्रमाणं प्रब्रूहि ततो वक्ष्यसि पिप्पलम्
MBh 6.7.2
वैशंपायन उवाच
एवमुक्तः स राज्ञा तु संजयो वाक्यमब्रवीत्
प्रागायता महाराज षडेते रत्नपर्वताः
अवगाढा ह्युभयतः समुद्रौ पूर्वपश्चिमौ
MBh 6.7.3
हिमवान्हेमकूटश्च निषधश्च नगोत्तमः
नीलश्च वैडूर्यमयः श्वेतश्च रजतप्रभः
सर्वधातुविनद्धश्च शृङ्गवान्नाम पर्वतः
MBh 6.7.4
एते वै पर्वता राजन्सिद्धचारणसेविताः
तेषामन्तरविष्कम्भो योजनानि सहस्रशः
MBh 6.7.5
तत्र पुण्या जनपदास्तानि वर्षाणि भारत
वसन्ति तेषु सत्त्वानि नानाजातीनि सर्वशः
MBh 6.7.6
इदं तु भारतं वर्षं ततो हैमवतं परम्
हेमकूटात्परं चैव हरिवर्षं प्रचक्षते
MBh 6.7.7
दक्षिणेन तु नीलस्य निषधस्योत्तरेण च
प्रागायतो महाराज माल्यवान्नाम पर्वतः
MBh 6.7.8
ततः परं माल्यवतः पर्वतो गन्धमादनः
परिमण्डलस्तयोर्मध्ये मेरुः कनकपर्वतः
MBh 6.7.9
आदित्यतरुणाभासो विधूम इव पावकः
योजनानां सहस्राणि षोडशाधः किल स्मृतः
MBh 6.7.10
उच्चैश्च चतुराशीतिर्योजनानां महीपते
ऊर्ध्वमन्तश्च तिर्यक्च लोकानावृत्य तिष्ठति
MBh 6.7.11
तस्य पार्श्वे त्विमे द्वीपाश्चत्वारः संस्थिताः प्रभो
भद्राश्वः केतुमालश्च जम्बूद्वीपश्च भारत
उत्तराश्चैव कुरवः कृतपुण्यप्रतिश्रयाः
MBh 6.7.12
विहगः सुमुखो यत्र सुपर्णस्यात्मजः किल
स वै विचिन्तयामास सौवर्णान्प्रेक्ष्य वायसान्
MBh 6.7.13
मेरुरुत्तममध्यानामधमानां च पक्षिणाम्
अविशेषकरो यस्मात्तस्मादेनं त्यजाम्यहम्
MBh 6.7.14
तमादित्योऽनुपर्येति सततं ज्योतिषां पतिः
चन्द्रमाश्च सनक्षत्रो वायुश्चैव प्रदक्षिणम्
MBh 6.7.15
स पर्वतो महाराज दिव्यपुष्पफलान्वितः
भवनैरावृतः सर्वैर्जाम्बूनदमयैः शुभैः
MBh 6.7.16
तत्र देवगणा राजन्गन्धर्वासुरराक्षसाः
अप्सरोगणसंयुक्ताः शैले क्रीडन्ति नित्यशः
MBh 6.7.17
तत्र ब्रह्मा च रुद्रश्च शक्रश्चापि सुरेश्वरः
समेत्य विविधैर्यज्ञैर्यजन्तेऽनेकदक्षिणैः
MBh 6.7.18
तुम्बुरुर्नारदश्चैव विश्वावसुर्हहा हुहूः
अभिगम्यामरश्रेष्ठाः स्तवै स्तुन्वन्ति चाभिभो
MBh 6.7.19
सप्तर्षयो महात्मानः कश्यपश्च प्रजापतिः
तत्र गच्छन्ति भद्रं ते सदा पर्वणि पर्वणि
MBh 6.7.20
तस्यैव मूर्धन्युशनाः काव्यो दैत्यैर्महीपते
तस्य हीमानि रत्नानि तस्येमे रत्नपर्वताः
MBh 6.7.21
तस्मात्कुबेरो भगवांश्चतुर्थं भागमश्नुते
ततः कलांशं वित्तस्य मनुष्येभ्यः प्रयच्छति
MBh 6.7.22
पार्श्वे तस्योत्तरे दिव्यं सर्वर्तुकुसुमं शिवम्
कर्णिकारवनं रम्यं शिलाजालसमुद्गतम्
MBh 6.7.23
तत्र साक्षात्पशुपतिर्दिव्यैर्भूतैः समावृतः
उमासहायो भगवान्रमते भूतभावनः
MBh 6.7.24
कर्णिकारमयीं मालां बिभ्रत्पादावलम्बिनीम्
त्रिभिर्नेत्रैः कृतोद्द्योतस्त्रिभिः सूर्यैरिवोदितैः
MBh 6.7.25
तमुग्रतपसः सिद्धाः सुव्रताः सत्यवादिनः
पश्यन्ति न हि दुर्वृत्तैः शक्यो द्रष्टुं महेश्वरः
MBh 6.7.26
तस्य शैलस्य शिखरात्क्षीरधारा नरेश्वर
त्रिंशद्बाहुपरिग्राह्या भीमनिर्घातनिस्वना
MBh 6.7.27
पुण्या पुण्यतमैर्जुष्टा गङ्गा भागीरथी शुभा
पतत्यजस्रवेगेन ह्रदे चान्द्रमसे शुभे
तया ह्युत्पादितः पुण्यः स ह्रदः सागरोपमः
MBh 6.7.28
तां धारयामास पुरा दुर्धरां पर्वतैरपि
शतं वर्षसहस्राणां शिरसा वै महेश्वरः
MBh 6.7.29
मेरोस्तु पश्चिमे पार्श्वे केतुमालो महीपते
जम्बूषण्डश्च तत्रैव सुमहान्नन्दनोपमः
MBh 6.7.30
आयुर्दश सहस्राणि वर्षाणां तत्र भारत
सुवर्णवर्णाश्च नराः स्त्रियश्चाप्सरसोपमाः
MBh 6.7.31
अनामया वीतशोका नित्यं मुदितमानसाः
जायन्ते मानवास्तत्र निष्टप्तकनकप्रभाः
MBh 6.7.32
गन्धमादनशृङ्गेषु कुबेरः सह राक्षसैः
संवृतोऽप्सरसां संघैर्मोदते गुह्यकाधिपः
MBh 6.7.33
गन्धमादनपादेषु परेष्वपरगण्डिकाः
एकादश सहस्राणि वर्षाणां परमायुषः
MBh 6.7.34
तत्र कृष्णा नरा राजंस्तेजोयुक्ता महाबलाः
स्त्रियश्चोत्पलपत्राभाः सर्वाः सुप्रियदर्शनाः
MBh 6.7.35
नीलात्परतरं श्वेतं श्वेताद्धैरण्यकं परम्
वर्षमैरावतं नाम ततः शृङ्गवतः परम्
MBh 6.7.36
धनुःसंस्थे महाराज द्वे वर्षे दक्षिणोत्तरे
इलावृतं मध्यमं तु पञ्च वर्षाणि चैव ह
MBh 6.7.37
उत्तरोत्तरमेतेभ्यो वर्षमुद्रिच्यते गुणैः
आयुष्प्रमाणमारोग्यं धर्मतः कामतोऽर्थतः
MBh 6.7.38
समन्वितानि भूतानि तेषु वर्षेषु भारत
एवमेषा महाराज पर्वतैः पृथिवी चिता
MBh 6.7.39
हेमकूटस्तु सुमहान्कैलासो नाम पर्वतः
यत्र वैश्रवणो राजा गुह्यकैः सह मोदते
MBh 6.7.40
अस्त्युत्तरेण कैलासं मैनाकं पर्वतं प्रति
हिरण्यशृङ्गः सुमहान्दिव्यो मणिमयो गिरिः
MBh 6.7.41
तस्य पार्श्वे महद्दिव्यं शुभं काञ्चनवालुकम्
रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः
दृष्ट्वा भागीरथीं गङ्गामुवास बहुलाः समाः
MBh 6.7.42
यूपा मणिमयास्तत्र चित्याश्चापि हिरण्मयाः
तत्रेष्ट्वा तु गतः सिद्धिं सहस्राक्षो महायशाः
MBh 6.7.43
सृष्ट्वा भूतपतिर्यत्र सर्वलोकान्सनातनः
उपास्यते तिग्मतेजा वृतो भूतैः समागतैः
नरनारायणौ ब्रह्मा मनुः स्थाणुश्च पञ्चमः
MBh 6.7.44
तत्र त्रिपथगा देवी प्रथमं तु प्रतिष्ठिता
ब्रह्मलोकादपक्रान्ता सप्तधा प्रतिपद्यते
MBh 6.7.45
वस्वोकसारा नलिनी पावना च सरस्वती
जम्बूनदी च सीता च गङ्गा सिन्धुश्च सप्तमी
MBh 6.7.46
अचिन्त्या दिव्यसंकल्पा प्रभोरेषैव संविधिः
उपासते यत्र सत्रं सहस्रयुगपर्यये
MBh 6.7.47
दृश्यादृश्या च भवति तत्र तत्र सरस्वती
एता दिव्याः सप्त गङ्गास्त्रिषु लोकेषु विश्रुताः
MBh 6.7.48
रक्षांसि वै हिमवति हेमकूटे तु गुह्यकाः
सर्पा नागाश्च निषधे गोकर्णे च तपोधनाः
MBh 6.7.49
देवासुराणां च गृहं श्वेतः पर्वत उच्यते
गन्धर्वा निषधे शैले नीले ब्रह्मर्षयो नृप
शृङ्गवांस्तु महाराज पितॄणां प्रतिसंचरः
MBh 6.7.50
इत्येतानि महाराज सप्त वर्षाणि भागशः
भूतान्युपनिविष्टानि गतिमन्ति ध्रुवाणि च
MBh 6.7.51
तेषामृद्धिर्बहुविधा दृश्यते दैवमानुषी
अशक्या परिसंख्यातुं श्रद्धेया तु बुभूषता
MBh 6.7.52
यां तु पृच्छसि मा राजन्दिव्यामेतां शशाकृतिम्
पार्श्वे शशस्य द्वे वर्षे उभये दक्षिणोत्तरे
कर्णौ तु नागद्वीपं च कश्यपद्वीपमेव च
MBh 6.7.53
ताम्रवर्णः शिरो राजञ्श्रीमान्मलयपर्वतः
एतद्द्वितीयं द्वीपस्य दृश्यते शशसंस्थितम्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Bhīṣma-Parva chapter-index (117 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Bhīṣma-Parva Ch 6
- Next chapter · Bhīṣma-Parva Ch 8 →
Sources and Connected Readings
Continue from these 53 source-pinned Devanāgarī addresses to Bhīṣma-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 6.7local chapter route · Bhīṣma-ParvaBhīṣma-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesMBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷