🪷 Mahābhārata · Bhīṣma-Parva · Chapter 68

The Book of Bhīṣma · Parva 6 · 33 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 33 Shlokas

MBh 6.68.1
संजय उवाच शिखण्डी सह मत्स्येन विराटेन विशां पते भीष्ममाशु महेष्वासमाससाद सुदुर्जयम्
MBh 6.68.2
द्रोणं कृपं विकर्णं च महेष्वासान्महाबलान् राज्ञश्चान्यान्रणे शूरान्बहूनार्छद्धनंजयः
MBh 6.68.3
सैन्धवं च महेष्वासं सामात्यं सह बन्धुभिः प्राच्यांश्च दाक्षिणात्यांश्च भूमिपान्भूमिपर्षभ
MBh 6.68.4
पुत्रं च ते महेष्वासं दुर्योधनममर्षणम् दुःसहं चैव समरे भीमसेनोऽभ्यवर्तत
MBh 6.68.5
सहदेवस्तु शकुनिमुलूकं च महारथम् पितापुत्रौ महेष्वासावभ्यवर्तत दुर्जयौ
MBh 6.68.6
युधिष्ठिरो महाराज गजानीकं महारथः समवर्तत संग्रामे पुत्रेण निकृतस्तव
MBh 6.68.7
माद्रीपुत्रस्तु नकुलः शूरः संक्रन्दनो युधि त्रिगर्तानां रथोदारैः समसज्जत पाण्डवः
MBh 6.68.8
अभ्यवर्तन्त दुर्धर्षाः समरे शाल्वकेकयान् सात्यकिश्चेकितानश्च सौभद्रश्च महारथः
MBh 6.68.9
धृष्टकेतुश्च समरे राक्षसश्च घटोत्कचः पुत्राणां ते रथानीकं प्रत्युद्याताः सुदुर्जयाः
MBh 6.68.10
सेनापतिरमेयात्मा धृष्टद्युम्नो महाबलः द्रोणेन समरे राजन्समियायेन्द्रकर्मणा
MBh 6.68.11
एवमेते महेष्वासास्तावकाः पाण्डवैः सह समेत्य समरे शूराः संप्रहारं प्रचक्रिरे
MBh 6.68.12
मध्यंदिनगते सूर्ये नभस्याकुलतां गते कुरवः पाण्डवेयाश्च निजघ्नुरितरेतरम्
MBh 6.68.13
ध्वजिनो हेमचित्राङ्गा विचरन्तो रणाजिरे सपताका रथा रेजुर्वैयाघ्रपरिवारणाः
MBh 6.68.14
समेतानां च समरे जिगीषूणां परस्परम् बभूव तुमुलः शब्दः सिंहानामिव नर्दताम्
MBh 6.68.15
तत्राद्भुतमपश्याम संप्रहारं सुदारुणम् यमकुर्वन्रणे वीराः सृञ्जयाः कुरुभिः सह
MBh 6.68.16
नैव खं न दिशो राजन्न सूर्यं शत्रुतापन विदिशो वाप्यपश्याम शरैर्मुक्तैः समन्ततः
MBh 6.68.17
शक्तीनां विमलाग्राणां तोमराणां तथास्यताम् निस्त्रिंशानां च पीतानां नीलोत्पलनिभाः प्रभाः
MBh 6.68.18
कवचानां विचित्राणां भूषणानां प्रभास्तथा खं दिशः प्रदिशश्चैव भासयामासुरोजसा विरराज तदा राजंस्तत्र तत्र रणाङ्गणम्
MBh 6.68.19
रथसिंहासनव्याघ्राः समायान्तश्च संयुगे विरेजुः समरे राजन्ग्रहा इव नभस्तले
MBh 6.68.20
भीष्मस्तु रथिनां श्रेष्ठो भीमसेनं महाबलम् अवारयत संक्रुद्धः सर्वसैन्यस्य पश्यतः
MBh 6.68.21
ततो भीष्मविनिर्मुक्ता रुक्मपुङ्खाः शिलाशिताः अभ्यघ्नन्समरे भीमं तैलधौताः सुतेजनाः
MBh 6.68.22
तस्य शक्तिं महावेगां भीमसेनो महाबलः क्रुद्धाशीविषसंकाशां प्रेषयामास भारत
MBh 6.68.23
तामापतन्तीं सहसा रुक्मदण्डां दुरासदाम् चिच्छेद समरे भीष्मः शरैः संनतपर्वभिः
MBh 6.68.24
ततोऽपरेण भल्लेन पीतेन निशितेन च कार्मुकं भीमसेनस्य द्विधा चिच्छेद भारत
MBh 6.68.25
सात्यकिस्तु ततस्तूर्णं भीष्ममासाद्य संयुगे शरैर्बहुभिरानर्छत्पितरं ते जनेश्वर
MBh 6.68.26
ततः संधाय वै तीक्ष्णं शरं परमदारुणम् वार्ष्णेयस्य रथाद्भीष्मः पातयामास सारथिम्
MBh 6.68.27
तस्याश्वाः प्रद्रुता राजन्निहते रथसारथौ तेन तेनैव धावन्ति मनोमारुतरंहसः
MBh 6.68.28
ततः सर्वस्य सैन्यस्य निस्वनस्तुमुलोऽभवत् हाहाकारश्च संजज्ञे पाण्डवानां महात्मनाम्
MBh 6.68.29
अभिद्रवत गृह्णीत हयान्यच्छत धावत इत्यासीत्तुमुलः शब्दो युयुधानरथं प्रति
MBh 6.68.30
एतस्मिन्नेव काले तु भीष्मः शांतनवः पुनः व्यहनत्पाण्डवीं सेनामासुरीमिव वृत्रहा
MBh 6.68.31
ते वध्यमाना भीष्मेण पाञ्चालाः सोमकैः सह आर्यां युद्धे मतिं कृत्वा भीष्ममेवाभिदुद्रुवुः
MBh 6.68.32
धृष्टद्युम्नमुखाश्चापि पार्थाः शांतनवं रणे अभ्यधावञ्जिगीषन्तस्तव पुत्रस्य वाहिनीम्
MBh 6.68.33
तथैव तावका राजन्भीष्मद्रोणमुखाः परान् अभ्यधावन्त वेगेन ततो युद्धमवर्तत

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 33 source-pinned Devanāgarī addresses to Bhīṣma-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 6.68local chapter route · Bhīṣma-ParvaBhīṣma-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesMBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷