🪷 Mahābhārata · Bhīṣma-Parva · Chapter 67

The Book of Bhīṣma · Parva 6 · 41 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 41 Shlokas

MBh 6.67.1
संजय उवाच दृष्ट्वा भीष्मेण संसक्तान्भ्रातॄनन्यांश्च पार्थिवान् तमभ्यधावद्गाङ्गेयमुद्यतास्त्रो धनंजयः
MBh 6.67.2
पाञ्चजन्यस्य निर्घोषं धनुषो गाण्डिवस्य च ध्वजं च दृष्ट्वा पार्थस्य सर्वान्नो भयमाविशत्
MBh 6.67.3
असज्जमानं वृक्षेषु धूमकेतुमिवोत्थितम् बहुवर्णं च चित्रं च दिव्यं वानरलक्षणम् अपश्याम महाराज ध्वजं गाण्डिवधन्वनः
MBh 6.67.4
विद्युतं मेघमध्यस्थां भ्राजमानामिवाम्बरे ददृशुर्गाण्डिवं योधा रुक्मपृष्ठं महारथे
MBh 6.67.5
अशुश्रुम भृशं चास्य शक्रस्येवाभिगर्जतः सुघोरं तलयोः शब्दं निघ्नतस्तव वाहिनीम्
MBh 6.67.6
चण्डवातो यथा मेघः सविद्युत्स्तनयित्नुमान् दिशः संप्लावयन्सर्वाः शरवर्षैः समन्ततः
MBh 6.67.7
अभ्यधावत गाङ्गेयं भैरवास्त्रो धनंजयः दिशं प्राचीं प्रतीचीं च न जानीमोऽस्त्रमोहिताः
MBh 6.67.8
कांदिग्भूताः श्रान्तपत्रा हतास्त्रा हतचेतसः अन्योन्यमभिसंश्लिष्य योधास्ते भरतर्षभ
MBh 6.67.9
भीष्ममेवाभिलीयन्त सह सर्वैस्तवात्मजैः तेषामार्तायनमभूद्भीष्मः शंतनवो रणे
MBh 6.67.10
समुत्पतन्त वित्रस्ता रथेभ्यो रथिनस्तदा सादिनश्चाश्वपृष्ठेभ्यो भूमौ चापि पदातयः
MBh 6.67.11
श्रुत्वा गाण्डीवनिर्घोषं विस्फूर्जितमिवाशनेः सर्वसैन्यानि भीतानि व्यवलीयन्त भारत
MBh 6.67.12
अथ काम्बोजमुख्यैस्तु बृहद्भिः शीघ्रगामिभिः गोपानां बहुसाहस्रैर्बलैर्गोवासनो वृतः
MBh 6.67.13
मद्रसौवीरगान्धारैस्त्रिगर्तैश्च विशां पते सर्वकालिङ्गमुख्यैश्च कलिङ्गाधिपतिर्वृतः
MBh 6.67.14
नागा नरगणौघाश्च दुःशासनपुरःसराः जयद्रथश्च नृपतिः सहितः सर्वराजभिः
MBh 6.67.15
हयारोहवराश्चैव तव पुत्रेण चोदिताः चतुर्दश सहस्राणि सौबलं पर्यवारयन्
MBh 6.67.16
ततस्ते सहिताः सर्वे विभक्तरथवाहनाः पाण्डवान्समरे जग्मुस्तावका भरतर्षभ
MBh 6.67.17
रथिभिर्वारणैरश्वैः पदातैश्च समीरितम् घोरमायोधनं जज्ञे महाभ्रसदृशं रजः
MBh 6.67.18
तोमरप्रासनाराचगजाश्वरथयोधिनाम् बलेन महता भीष्मः समसज्जत्किरीटिना
MBh 6.67.19
आवन्त्यः काशिराजेन भीमसेनेन सैन्धवः अजातशत्रुर्मद्राणामृषभेण यशस्विना सहपुत्रः सहामात्यः शल्येन समसज्जत
MBh 6.67.20
विकर्णः सहदेवेन चित्रसेनः शिखण्डिना मत्स्या दुर्योधनं जग्मुः शकुनिं च विशां पते
MBh 6.67.21
द्रुपदश्चेकितानश्च सात्यकिश्च महारथः द्रोणेन समसज्जन्त सपुत्रेण महात्मना कृपश्च कृतवर्मा च धृष्टकेतुमभिद्रुतौ
MBh 6.67.22
एवं प्रजविताश्वानि भ्रान्तनागरथानि च सैन्यानि समसज्जन्त प्रयुद्धानि समन्ततः
MBh 6.67.23
निरभ्रे विद्युतस्तीव्रा दिशश्च रजसावृताः प्रादुरासन्महोल्काश्च सनिर्घाता विशां पते
MBh 6.67.24
प्रववौ च महावातः पांसुवर्षं पपात च नभस्यन्तर्दधे सूर्यः सैन्येन रजसावृतः
MBh 6.67.25
प्रमोहः सर्वसत्त्वानामतीव समपद्यत रजसा चाभिभूतानामस्त्रजालैश्च तुद्यताम्
MBh 6.67.26
वीरबाहुविसृष्टानां सर्वावरणभेदिनाम् संघातः शरजालानां तुमुलः समपद्यत
MBh 6.67.27
प्रकाशं चक्रुराकाशमुद्यतानि भुजोत्तमैः नक्षत्रविमलाभानि शस्त्राणि भरतर्षभ
MBh 6.67.28
आर्षभाणि विचित्राणि रुक्मजालावृतानि च संपेतुर्दिक्षु सर्वासु चर्माणि भरतर्षभ
MBh 6.67.29
सूर्यवर्णैश्च निस्त्रिंशैः पात्यमानानि सर्वशः दिक्षु सर्वास्वदृश्यन्त शरीराणि शिरांसि च
MBh 6.67.30
भग्नचक्राक्षनीडाश्च निपातितमहाध्वजाः हताश्वाः पृथिवीं जग्मुस्तत्र तत्र महारथाः
MBh 6.67.31
परिपेतुर्हयाश्चात्र केचिच्छस्त्रकृतव्रणाः रथान्विपरिकर्षन्तो हतेषु रथयोधिषु
MBh 6.67.32
शराहता भिन्नदेहा बद्धयोक्त्रा हयोत्तमाः युगानि पर्यकर्षन्त तत्र तत्र स्म भारत
MBh 6.67.33
अदृश्यन्त ससूताश्च साश्वाः सरथयोधिनः एकेन बलिना राजन्वारणेन हता रथाः
MBh 6.67.34
गन्धहस्तिमदस्रावमाघ्राय बहवो रणे संनिपाते बलौघानां वीतमाददिरे गजाः
MBh 6.67.35
सतोमरमहामात्रैर्निपतद्भिर्गतासुभिः बभूवायोधनं छन्नं नाराचाभिहतैर्गजैः
MBh 6.67.36
संनिपाते बलौघानां प्रेषितैर्वरवारणैः निपेतुर्युधि संभग्नाः सयोधाः सध्वजा रथाः
MBh 6.67.37
नागराजोपमैर्हस्तैर्नागैराक्षिप्य संयुगे व्यदृश्यन्त महाराज संभग्ना रथकूबराः
MBh 6.67.38
विशीर्णरथजालाश्च केशेष्वाक्षिप्य दन्तिभिः द्रुमशाखा इवाविध्य निष्पिष्टा रथिनो रणे
MBh 6.67.39
रथेषु च रथान्युद्धे संसक्तान्वरवारणाः विकर्षन्तो दिशः सर्वाः संपेतुः सर्वशब्दगाः
MBh 6.67.40
तेषां तथा कर्षतां च गजानां रूपमाबभौ सरःसु नलिनीजालं विषक्तमिव कर्षताम्
MBh 6.67.41
एवं संछादितं तत्र बभूवायोधनं महत् सादिभिश्च पदातैश्च सध्वजैश्च महारथैः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 41 source-pinned Devanāgarī addresses to Bhīṣma-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 6.67local chapter route · Bhīṣma-ParvaBhīṣma-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesMBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷