🪷 Mahābhārata · Bhīṣma-Parva · Chapter 61

The Book of Bhīṣma · Parva 6 · 70 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 70 Shlokas

MBh 6.61.1
धृतराष्ट्र उवाच भयं मे सुमहज्जातं विस्मयश्चैव संजय श्रुत्वा पाण्डुकुमाराणां कर्म देवैः सुदुष्करम्
MBh 6.61.2
पुत्राणां च पराभवं श्रुत्वा संजय सर्वशः चिन्ता मे महती सूत भविष्यति कथं त्विति
MBh 6.61.3
ध्रुवं विदुरवाक्यानि धक्ष्यन्ति हृदयं मम यथा हि दृश्यते सर्वं दैवयोगेन संजय
MBh 6.61.4
यत्र भीष्ममुखाञ्शूरानस्त्रज्ञान्योधसत्तमान् पाण्डवानामनीकानि योधयन्ति प्रहारिणः
MBh 6.61.5
केनावध्या महात्मानः पाण्डुपुत्रा महाबलाः केन दत्तवरास्तात किं वा ज्ञानं विदन्ति ते येन क्षयं न गच्छन्ति दिवि तारागणा इव
MBh 6.61.6
पुनः पुनर्न मृष्यामि हतं सैन्यं स्म पाण्डवैः मय्येव दण्डः पतति दैवात्परमदारुणः
MBh 6.61.7
यथावध्याः पाण्डुसुता यथा वध्याश्च मे सुताः एतन्मे सर्वमाचक्ष्व यथातत्त्वेन संजय
MBh 6.61.8
न हि पारं प्रपश्यामि दुःखस्यास्य कथंचन समुद्रस्येव महतो भुजाभ्यां प्रतरन्नरः
MBh 6.61.9
पुत्राणां व्यसनं मन्ये ध्रुवं प्राप्तं सुदारुणम् घातयिष्यति मे पुत्रान्सर्वान्भीमो न संशयः
MBh 6.61.10
न हि पश्यामि तं वीरं यो मे रक्षेत्सुतान्रणे ध्रुवं विनाशः समरे पुत्राणां मम संजय
MBh 6.61.11
तस्मान्मे कारणं सूत युक्तिं चैव विशेषतः पृच्छतोऽद्य यथातत्त्वं सर्वमाख्यातुमर्हसि
MBh 6.61.12
दुर्योधनोऽपि यच्चक्रे दृष्ट्वा स्वान्विमुखान्रणे भीष्मद्रोणौ कृपश्चैव सौबलेयो जयद्रथः द्रौणिर्वापि महेष्वासो विकर्णो वा महाबलः
MBh 6.61.13
निश्चयो वापि कस्तेषां तदा ह्यासीन्महात्मनाम् विमुखेषु महाप्राज्ञ मम पुत्रेषु संजय
MBh 6.61.14
संजय उवाच शृणु राजन्नवहितः श्रुत्वा चैवावधारय नैव मन्त्रकृतं किंचिन्नैव मायां तथाविधाम् न वै विभीषिकां कांचिद्राजन्कुर्वन्ति पाण्डवाः
MBh 6.61.15
युध्यन्ति ते यथान्यायं शक्तिमन्तश्च संयुगे धर्मेण सर्वकार्याणि कीर्तितानीति भारत आरभन्ते सदा पार्थाः प्रार्थयाना महद्यशः
MBh 6.61.16
न ते युद्धान्निवर्तन्ते धर्मोपेता महाबलाः श्रिया परमया युक्ता यतो धर्मस्ततो जयः तेनावध्या रणे पार्था जययुक्ताश्च पार्थिव
MBh 6.61.17
तव पुत्रा दुरात्मानः पापेष्वभिरताः सदा निष्ठुरा हीनकर्माणस्तेन हीयन्ति संयुगे
MBh 6.61.18
सुबहूनि नृशंसानि पुत्रैस्तव जनेश्वर निकृतानीह पाण्डूनां नीचैरिव यथा नरैः
MBh 6.61.19
सर्वं च तदनादृत्य पुत्राणां तव किल्बिषम् सापह्नवाः सदैवासन्पाण्डवाः पाण्डुपूर्वज न चैनान्बहु मन्यन्ते पुत्रास्तव विशां पते
MBh 6.61.20
तस्य पापस्य सततं क्रियमाणस्य कर्मणः संप्राप्तं सुमहद्घोरं फलं किंपाकसंनिभम् स तद्भुङ्क्ष्व महाराज सपुत्रः ससुहृज्जनः
MBh 6.61.21
नावबुध्यसि यद्राजन्वार्यमाणः सुहृज्जनैः विदुरेणाथ भीष्मेण द्रोणेन च महात्मना
MBh 6.61.22
तथा मया चाप्यसकृद्वार्यमाणो न गृह्णसि वाक्यं हितं च पथ्यं च मर्त्यः पथ्यमिवौषधम् पुत्राणां मतमास्थाय जितान्मन्यसि पाण्डवान्
MBh 6.61.23
शृणु भूयो यथातत्त्वं यन्मां त्वं परिपृच्छसि कारणं भरतश्रेष्ठ पाण्डवानां जयं प्रति तत्तेऽहं कथयिष्यामि यथाश्रुतमरिंदम
MBh 6.61.24
दुर्योधनेन संपृष्ट एतमर्थं पितामहः दृष्ट्वा भ्रातॄन्रणे सर्वान्निर्जितान्सुमहारथान्
MBh 6.61.25
शोकसंमूढहृदयो निशाकाले स्म कौरवः पितामहं महाप्राज्ञं विनयेनोपगम्य ह यदब्रवीत्सुतस्तेऽसौ तन्मे शृणु जनेश्वर
MBh 6.61.26
दुर्योधन उवाच त्वं च द्रोणश्च शल्यश्च कृपो द्रौणिस्तथैव च कृतवर्मा च हार्दिक्यः काम्बोजश्च सुदक्षिणः
MBh 6.61.27
भूरिश्रवा विकर्णश्च भगदत्तश्च वीर्यवान् महारथाः समाख्याताः कुलपुत्रास्तनुत्यजः
MBh 6.61.28
त्रयाणामपि लोकानां पर्याप्ता इति मे मतिः पाण्डवानां समस्ताश्च न तिष्ठन्ति पराक्रमे
MBh 6.61.29
तत्र मे संशयो जातस्तन्ममाचक्ष्व पृच्छतः यं समाश्रित्य कौन्तेया जयन्त्यस्मान्पदे पदे
MBh 6.61.30
भीष्म उवाच शृणु राजन्वचो मह्यं यत्त्वां वक्ष्यामि कौरव बहुशश्च ममोक्तोऽसि न च मे तत्त्वया कृतम्
MBh 6.61.31
क्रियतां पाण्डवैः सार्धं शमो भरतसत्तम एतत्क्षममहं मन्ये पृथिव्यास्तव चाभिभो
MBh 6.61.32
भुञ्जेमां पृथिवीं राजन्भ्रातृभिः सहितः सुखी दुर्हृदस्तापयन्सर्वान्नन्दयंश्चापि बान्धवान्
MBh 6.61.33
न च मे क्रोशतस्तात श्रुतवानसि वै पुरा तदिदं समनुप्राप्तं यत्पाण्डूनवमन्यसे
MBh 6.61.34
यश्च हेतुरवध्यत्वे तेषामक्लिष्टकर्मणाम् तं शृणुष्व महाराज मम कीर्तयतः प्रभो
MBh 6.61.35
नास्ति लोकेषु तद्भूतं भविता नो भविष्यति यो जयेत्पाण्डवान्संख्ये पालिताञ्शार्ङ्गधन्वना
MBh 6.61.36
यत्तु मे कथितं तात मुनिभिर्भावितात्मभिः पुराणगीतं धर्मज्ञ तच्छृणुष्व यथातथम्
MBh 6.61.37
पुरा किल सुराः सर्वे ऋषयश्च समागताः पितामहमुपासेदुः पर्वते गन्धमादने
MBh 6.61.38
मध्ये तेषां समासीनः प्रजापतिरपश्यत विमानं जाज्वलद्भासा स्थितं प्रवरमम्बरे
MBh 6.61.39
ध्यानेनावेद्य तं ब्रह्मा कृत्वा च नियतोऽञ्जलिम् नमश्चकार हृष्टात्मा परमं परमेश्वरम्
MBh 6.61.40
ऋषयस्त्वथ देवाश्च दृष्ट्वा ब्रह्माणमुत्थितम् स्थिताः प्राञ्जलयः सर्वे पश्यन्तो महदद्भुतम्
MBh 6.61.41
यथावच्च तमभ्यर्च्य ब्रह्मा ब्रह्मविदां वरः जगाद जगतः स्रष्टा परं परमधर्मवित्
MBh 6.61.42
विश्वावसुर्विश्वमूर्तिर्विश्वेशो; विष्वक्सेनो विश्वकर्मा वशी च विश्वेश्वरो वासुदेवोऽसि तस्मा;द्योगात्मानं दैवतं त्वामुपैमि
MBh 6.61.43
जय विश्व महादेव जय लोकहिते रत जय योगीश्वर विभो जय योगपरावर
MBh 6.61.44
पद्मगर्भ विशालाक्ष जय लोकेश्वरेश्वर भूतभव्यभवन्नाथ जय सौम्यात्मजात्मज
MBh 6.61.45
असंख्येयगुणाजेय जय सर्वपरायण नारायण सुदुष्पार जय शार्ङ्गधनुर्धर
MBh 6.61.46
सर्वगुह्यगुणोपेत विश्वमूर्ते निरामय विश्वेश्वर महाबाहो जय लोकार्थतत्पर
MBh 6.61.47
महोरग वराहाद्य हरिकेश विभो जय हरिवास विशामीश विश्वावासामिताव्यय
MBh 6.61.48
व्यक्ताव्यक्तामितस्थान नियतेन्द्रिय सेन्द्रिय असंख्येयात्मभावज्ञ जय गम्भीर कामद
MBh 6.61.49
अनन्त विदितप्रज्ञ नित्यं भूतविभावन कृतकार्य कृतप्रज्ञ धर्मज्ञ विजयाजय
MBh 6.61.50
गुह्यात्मन्सर्वभूतात्मन्स्फुटसंभूतसंभव भूतार्थतत्त्व लोकेश जय भूतविभावन
MBh 6.61.51
आत्मयोने महाभाग कल्पसंक्षेपतत्पर उद्भावन मनोद्भाव जय ब्रह्मजनप्रिय
MBh 6.61.52
निसर्गसर्गाभिरत कामेश परमेश्वर अमृतोद्भव सद्भाव युगाग्ने विजयप्रद
MBh 6.61.53
प्रजापतिपते देव पद्मनाभ महाबल आत्मभूत महाभूत कर्मात्मञ्जय कर्मद
MBh 6.61.54
पादौ तव धरा देवी दिशो बाहुर्दिवं शिरः मूर्तिस्तेऽहं सुराः कायश्चन्द्रादित्यौ च चक्षुषी
MBh 6.61.55
बलं तपश्च सत्यं च धर्मः कामात्मजः प्रभो तेजोऽग्निः पवनः श्वास आपस्ते स्वेदसंभवाः
MBh 6.61.56
अश्विनौ श्रवणौ नित्यं देवी जिह्वा सरस्वती वेदाः संस्कारनिष्ठा हि त्वयीदं जगदाश्रितम्
MBh 6.61.57
न संख्यां न परीमाणं न तेजो न पराक्रमम् न बलं योगयोगीश जानीमस्ते न संभवम्
MBh 6.61.58
त्वद्भक्तिनिरता देव नियमैस्त्वा समाहिताः अर्चयामः सदा विष्णो परमेशं महेश्वरम्
MBh 6.61.59
ऋषयो देवगन्धर्वा यक्षराक्षसपन्नगाः पिशाचा मानुषाश्चैव मृगपक्षिसरीसृपाः
MBh 6.61.60
एवमादि मया सृष्टं पृथिव्यां त्वत्प्रसादजम् पद्मनाभ विशालाक्ष कृष्ण दुःस्वप्ननाशन
MBh 6.61.61
त्वं गतिः सर्वभूतानां त्वं नेता त्वं जगन्मुखम् त्वत्प्रसादेन देवेश सुखिनो विबुधाः सदा
MBh 6.61.62
पृथिवी निर्भया देव त्वत्प्रसादात्सदाभवत् तस्माद्भव विशालाक्ष यदुवंशविवर्धनः
MBh 6.61.63
धर्मसंस्थापनार्थाय दैतेयानां वधाय च जगतो धारणार्थाय विज्ञाप्यं कुरु मे प्रभो
MBh 6.61.64
यदेतत्परमं गुह्यं त्वत्प्रसादमयं विभो वासुदेव तदेतत्ते मयोद्गीतं यथातथम्
MBh 6.61.65
सृष्ट्वा संकर्षणं देवं स्वयमात्मानमात्मना कृष्ण त्वमात्मनास्राक्षीः प्रद्युम्नं चात्मसंभवम्
MBh 6.61.66
प्रद्युम्नाच्चानिरुद्धं त्वं यं विदुर्विष्णुमव्ययम् अनिरुद्धोऽसृजन्मां वै ब्रह्माणं लोकधारिणम्
MBh 6.61.67
वासुदेवमयः सोऽहं त्वयैवास्मि विनिर्मितः विभज्य भागशोऽऽत्मानं व्रज मानुषतां विभो
MBh 6.61.68
तत्रासुरवधं कृत्वा सर्वलोकसुखाय वै धर्मं स्थाप्य यशः प्राप्य योगं प्राप्स्यसि तत्त्वतः
MBh 6.61.69
त्वां हि ब्रह्मर्षयो लोके देवाश्चामितविक्रम तैस्तैश्च नामभिर्भक्ता गायन्ति परमात्मकम्
MBh 6.61.70
स्थिताश्च सर्वे त्वयि भूतसंघाः; कृत्वाश्रयं त्वां वरदं सुबाहो अनादिमध्यान्तमपारयोगं; लोकस्य सेतुं प्रवदन्ति विप्राः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 70 source-pinned Devanāgarī addresses to Bhīṣma-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 6.61local chapter route · Bhīṣma-ParvaBhīṣma-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesMBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷