🪷 Mahābhārata · Bhīṣma-Parva · Chapter 60
The Book of Bhīṣma · Parva 6 · 79 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 79 Shlokas
MBh 6.60.1
संजय उवाच
ततो भूरिश्रवा राजन्सात्यकिं नवभिः शरैः
अविध्यद्भृशसंक्रुद्धस्तोत्त्रैरिव महाद्विपम्
MBh 6.60.2
कौरवं सात्यकिश्चैव शरैः संनतपर्वभिः
अवाकिरदमेयात्मा सर्वलोकस्य पश्यतः
MBh 6.60.3
ततो दुर्योधनो राजा सोदर्यैः परिवारितः
सौमदत्तिं रणे यत्तः समन्तात्पर्यवारयत्
MBh 6.60.4
तथैव पाण्डवाः सर्वे सात्यकिं रभसं रणे
परिवार्य स्थिताः संख्ये समन्तात्सुमहौजसः
MBh 6.60.5
भीमसेनस्तु संक्रुद्धो गदामुद्यम्य भारत
दुर्योधनमुखान्सर्वान्पुत्रांस्ते पर्यवारयत्
MBh 6.60.6
रथैरनेकसाहस्रैः क्रोधामर्षसमन्वितः
नन्दकस्तव पुत्रस्तु भीमसेनं महाबलम्
विव्याध निशितैः षड्भिः कङ्कपत्रैः शिलाशितैः
MBh 6.60.7
दुर्योधनस्तु समरे भीमसेनं महाबलम्
आजघानोरसि क्रुद्धो मार्गणैर्निशितैस्त्रिभिः
MBh 6.60.8
ततो भीमो महाबाहुः स्वरथं सुमहाबलः
आरुरोह रथश्रेष्ठं विशोकं चेदमब्रवीत्
MBh 6.60.9
एते महारथाः शूरा धार्तराष्ट्रा महाबलाः
मामेव भृशसंक्रुद्धा हन्तुमभ्युद्यता युधि
MBh 6.60.10
एतानद्य हनिष्यामि पश्यतस्ते न संशयः
तस्मान्ममाश्वान्संग्रामे यत्तः संयच्छ सारथे
MBh 6.60.11
एवमुक्त्वा ततः पार्थः पुत्रं दुर्योधनं तव
विव्याध दशभिस्तीक्ष्णैः शरैः कनकभूषणैः
नन्दकं च त्रिभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे
MBh 6.60.12
तं तु दुर्योधनः षष्ट्या विद्ध्वा भीमं महाबलम्
त्रिभिरन्यैः सुनिशितैर्विशोकं प्रत्यविध्यत
MBh 6.60.13
भीमस्य च रणे राजन्धनुश्चिच्छेद भास्वरम्
मुष्टिदेशे शरैस्तीक्ष्णैस्त्रिभी राजा हसन्निव
MBh 6.60.14
भीमस्तु प्रेक्ष्य यन्तारं विशोकं संयुगे तदा
पीडितं विशिखैस्तीक्ष्णैस्तव पुत्रेण धन्विना
MBh 6.60.15
अमृष्यमाणः संक्रुद्धो धनुर्दिव्यं परामृशत्
पुत्रस्य ते महाराज वधार्थं भरतर्षभ
MBh 6.60.16
समादत्त च संरब्धः क्षुरप्रं लोमवाहिनम्
तेन चिच्छेद नृपतेर्भीमः कार्मुकमुत्तमम्
MBh 6.60.17
सोऽपविध्य धनुश्छिन्नं क्रोधेन प्रज्वलन्निव
अन्यत्कार्मुकमादत्त सत्वरं वेगवत्तरम्
MBh 6.60.18
संधत्त विशिखं घोरं कालमृत्युसमप्रभम्
तेनाजघान संक्रुद्धो भीमसेनं स्तनान्तरे
MBh 6.60.19
स गाढविद्धो व्यथितः स्यन्दनोपस्थ आविशत्
स निषण्णो रथोपस्थे मूर्छामभिजगाम ह
MBh 6.60.20
तं दृष्ट्वा व्यथितं भीममभिमन्युपुरोगमाः
नामृष्यन्त महेष्वासाः पाण्डवानां महारथाः
MBh 6.60.21
ततस्तु तुमुलां वृष्टिं शस्त्राणां तिग्मतेजसाम्
पातयामासुरव्यग्राः पुत्रस्य तव मूर्धनि
MBh 6.60.22
प्रतिलभ्य ततः संज्ञां भीमसेनो महाबलः
दुर्योधनं त्रिभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः
MBh 6.60.23
शल्यं च पञ्चविंशत्या शरैर्विव्याध पाण्डवः
रुक्मपुङ्खैर्महेष्वासः स विद्धो व्यपयाद्रणात्
MBh 6.60.24
प्रत्युद्ययुस्ततो भीमं तव पुत्राश्चतुर्दश
सेनापतिः सुषेणश्च जलसंधः सुलोचनः
MBh 6.60.25
उग्रो भीमरथो भीमो भीमबाहुरलोलुपः
दुर्मुखो दुष्प्रधर्षश्च विवित्सुर्विकटः समः
MBh 6.60.26
विसृजन्तो बहून्बाणान्क्रोधसंरक्तलोचनाः
भीमसेनमभिद्रुत्य विव्यधुः सहिता भृशम्
MBh 6.60.27
पुत्रांस्तु तव संप्रेक्ष्य भीमसेनो महाबलः
सृक्किणी विलिहन्वीरः पशुमध्ये वृको यथा
सेनापतेः क्षुरप्रेण शिरश्चिच्छेद पाण्डवः
MBh 6.60.28
जलसंधं विनिर्भिद्य सोऽनयद्यमसादनम्
सुषेणं च ततो हत्वा प्रेषयामास मृत्यवे
MBh 6.60.29
उग्रस्य सशिरस्त्राणं शिरश्चन्द्रोपमं भुवि
पातयामास भल्लेन कुण्डलाभ्यां विभूषितम्
MBh 6.60.30
भीमबाहुं च सप्तत्या साश्वकेतुं ससारथिम्
निनाय समरे भीमः परलोकाय मारिष
MBh 6.60.31
भीमं भीमरथं चोभौ भीमसेनो हसन्निव
भ्रातरौ रभसौ राजन्ननयद्यमसादनम्
MBh 6.60.32
ततः सुलोचनं भीमः क्षुरप्रेण महामृधे
मिषतां सर्वसैन्यानामनयद्यमसादनम्
MBh 6.60.33
पुत्रास्तु तव तं दृष्ट्वा भीमसेनपराक्रमम्
शेषा येऽन्येऽभवंस्तत्र ते भीमस्य भयार्दिताः
विप्रद्रुता दिशो राजन्वध्यमाना महात्मना
MBh 6.60.34
ततोऽब्रवीच्छांतनवः सर्वानेव महारथान्
एष भीमो रणे क्रुद्धो धार्तराष्ट्रान्महारथान्
MBh 6.60.35
यथाप्राग्र्यान्यथाज्येष्ठान्यथाशूरांश्च संगतान्
निपातयत्युग्रधन्वा तं प्रमथ्नीत पार्थिवाः
MBh 6.60.36
एवमुक्तास्ततः सर्वे धार्तराष्ट्रस्य सैनिकाः
अभ्यद्रवन्त संक्रुद्धा भीमसेनं महाबलम्
MBh 6.60.37
भगदत्तः प्रभिन्नेन कुञ्जरेण विशां पते
अपतत्सहसा तत्र यत्र भीमो व्यवस्थितः
MBh 6.60.38
आपतन्नेव च रणे भीमसेनं शिलाशितैः
अदृश्यं समरे चक्रे जीमूत इव भास्करम्
MBh 6.60.39
अभिमन्युमुखास्तत्र नामृष्यन्त महारथाः
भीमस्याच्छादनं संख्ये स्वबाहुबलमाश्रिताः
MBh 6.60.40
त एनं शरवर्षेण समन्तात्पर्यवारयन्
गजं च शरवृष्ट्या तं बिभिदुस्ते समन्ततः
MBh 6.60.41
स शस्त्रवृष्ट्याभिहतः प्राद्रवद्द्विगुणं पदम्
प्राग्ज्योतिषगजो राजन्नानालिङ्गैः सुतेजनैः
MBh 6.60.42
संजातरुधिरोत्पीडः प्रेक्षणीयोऽभवद्रणे
गभस्तिभिरिवार्कस्य संस्यूतो जलदो महान्
MBh 6.60.43
स चोदितो मदस्रावी भगदत्तेन वारणः
अभ्यधावत तान्सर्वान्कालोत्सृष्ट इवान्तकः
द्विगुणं जवमास्थाय कम्पयंश्चरणैर्महीम्
MBh 6.60.44
तस्य तत्सुमहद्रूपं दृष्ट्वा सर्वे महारथाः
असह्यं मन्यमानास्ते नातिप्रमनसोऽभवन्
MBh 6.60.45
ततस्तु नृपतिः क्रुद्धो भीमसेनं स्तनान्तरे
आजघान नरव्याघ्र शरेण नतपर्वणा
MBh 6.60.46
सोऽतिविद्धो महेष्वासस्तेन राज्ञा महारथः
मूर्छयाभिपरीताङ्गो ध्वजयष्टिमुपाश्रितः
MBh 6.60.47
तांस्तु भीतान्समालक्ष्य भीमसेनं च मूर्छितम्
ननाद बलवन्नादं भगदत्तः प्रतापवान्
MBh 6.60.48
ततो घटोत्कचो राजन्प्रेक्ष्य भीमं तथागतम्
संक्रुद्धो राक्षसो घोरस्तत्रैवान्तरधीयत
MBh 6.60.49
स कृत्वा दारुणां मायां भीरूणां भयवर्धिनीम्
अदृश्यत निमेषार्धाद्घोररूपं समाश्रितः
MBh 6.60.50
ऐरावतं समारुह्य स्वयं मायामयं कृतम्
तस्य चान्येऽपि दिङ्नागा बभूवुरनुयायिनः
MBh 6.60.51
अञ्जनो वामनश्चैव महापद्मश्च सुप्रभः
त्रय एते महानागा राक्षसैः समधिष्ठिताः
MBh 6.60.52
महाकायास्त्रिधा राजन्प्रस्रवन्तो मदं बहु
तेजोवीर्यबलोपेता महाबलपराक्रमाः
MBh 6.60.53
घटोत्कचस्तु स्वं नागं चोदयामास तं ततः
सगजं भगदत्तं तु हन्तुकामः परंतपः
MBh 6.60.54
ते चान्ये चोदिता नागा राक्षसैस्तैर्महाबलैः
परिपेतुः सुसंरब्धाश्चतुर्दंष्ट्राश्चतुर्दिशम्
भगदत्तस्य तं नागं विषाणैस्तेऽभ्यपीडयन्
MBh 6.60.55
संपीड्यमानस्तैर्नागैर्वेदनार्तः शरातुरः
सोऽनदत्सुमहानादमिन्द्राशनिसमस्वनम्
MBh 6.60.56
तस्य तं नदतो नादं सुघोरं भीमनिस्वनम्
श्रुत्वा भीष्मोऽब्रवीद्द्रोणं राजानं च सुयोधनम्
MBh 6.60.57
एष युध्यति संग्रामे हैडिम्बेन दुरात्मना
भगदत्तो महेष्वासः कृच्छ्रेण परिवर्तते
MBh 6.60.58
राक्षसश्च महामायः स च राजातिकोपनः
तौ समेतौ महावीर्यौ कालमृत्युसमावुभौ
MBh 6.60.59
श्रूयते ह्येष हृष्टानां पाण्डवानां महास्वनः
हस्तिनश्चैव सुमहान्भीतस्य रुवतो ध्वनिः
MBh 6.60.60
तत्र गच्छाम भद्रं वो राजानं परिरक्षितुम्
अरक्ष्यमाणः समरे क्षिप्रं प्राणान्विमोक्ष्यते
MBh 6.60.61
ते त्वरध्वं महावीर्याः किं चिरेण प्रयामहे
महान्हि वर्तते रौद्रः संग्रामो लोमहर्षणः
MBh 6.60.62
भक्तश्च कुलपुत्रश्च शूरश्च पृतनापतिः
युक्तं तस्य परित्राणं कर्तुमस्माभिरच्युताः
MBh 6.60.63
भीष्मस्य तद्वचः श्रुत्वा भारद्वाजपुरोगमाः
सहिताः सर्वराजानो भगदत्तपरीप्सया
उत्तमं जवमास्थाय प्रययुर्यत्र सोऽभवत्
MBh 6.60.64
तान्प्रयातान्समालोक्य युधिष्ठिरपुरोगमाः
पाञ्चालाः पाण्डवैः सार्धं पृष्ठतोऽनुययुः परान्
MBh 6.60.65
तान्यनीकान्यथालोक्य राक्षसेन्द्रः प्रतापवान्
ननाद सुमहानादं विस्फोटमशनेरिव
MBh 6.60.66
तस्य तं निनदं श्रुत्वा दृष्ट्वा नागांश्च युध्यतः
भीष्मः शांतनवो भूयो भारद्वाजमभाषत
MBh 6.60.67
न रोचते मे संग्रामो हैडिम्बेन दुरात्मना
बलवीर्यसमाविष्टः ससहायश्च सांप्रतम्
MBh 6.60.68
नैष शक्यो युधा जेतुमपि वज्रभृता स्वयम्
लब्धलक्ष्यः प्रहारी च वयं च श्रान्तवाहनाः
पाञ्चालैः पाण्डवेयैश्च दिवसं क्षतविक्षताः
MBh 6.60.69
तन्न मे रोचते युद्धं पाण्डवैर्जितकाशिभिः
घुष्यतामवहारोऽद्य श्वो योत्स्यामः परैः सह
MBh 6.60.70
पितामहवचः श्रुत्वा तथा चक्रुः स्म कौरवाः
उपायेनापयानं ते घटोत्कचभयार्दिताः
MBh 6.60.71
कौरवेषु निवृत्तेषु पाण्डवा जितकाशिनः
सिंहनादमकुर्वन्त शङ्खवेणुस्वनैः सह
MBh 6.60.72
एवं तदभवद्युद्धं दिवसं भरतर्षभ
पाण्डवानां कुरूणां च पुरस्कृत्य घटोत्कचम्
MBh 6.60.73
कौरवास्तु ततो राजन्प्रययुः शिबिरं स्वकम्
व्रीडमाना निशाकाले पाण्डवेयैः पराजिताः
MBh 6.60.74
शरविक्षतगात्राश्च पाण्डुपुत्रा महारथाः
युद्धे सुमनसो भूत्वा शिबिरायैव जग्मिरे
MBh 6.60.75
पुरस्कृत्य महाराज भीमसेनघटोत्कचौ
पूजयन्तस्तदान्योन्यं मुदा परमया युताः
MBh 6.60.76
नदन्तो विविधान्नादांस्तूर्यस्वनविमिश्रितान्
सिंहनादांश्च कुर्वाणा विमिश्राञ्शङ्खनिस्वनैः
MBh 6.60.77
विनदन्तो महात्मानः कम्पयन्तश्च मेदिनीम्
घट्टयन्तश्च मर्माणि तव पुत्रस्य मारिष
प्रयाताः शिबिरायैव निशाकाले परंतपाः
MBh 6.60.78
दुर्योधनस्तु नृपतिर्दीनो भ्रातृवधेन च
मुहूर्तं चिन्तयामास बाष्पशोकसमाकुलः
MBh 6.60.79
ततः कृत्वा विधिं सर्वं शिबिरस्य यथाविधि
प्रदध्यौ शोकसंतप्तो भ्रातृव्यसनकर्शितः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Bhīṣma-Parva chapter-index (117 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Bhīṣma-Parva Ch 59
- Next chapter · Bhīṣma-Parva Ch 61 →
Sources and Connected Readings
Continue from these 79 source-pinned Devanāgarī addresses to Bhīṣma-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 6.60local chapter route · Bhīṣma-ParvaBhīṣma-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesMBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷