🪷 Mahābhārata · Bhīṣma-Parva · Chapter 52
The Book of Bhīṣma · Parva 6 · 22 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 22 Shlokas
MBh 6.52.1
संजय उवाच
प्रभातायां तु शर्वर्यां भीष्मः शांतनवस्ततः
अनीकान्यनुसंयाने व्यादिदेशाथ भारत
MBh 6.52.2
गारुडं च महाव्यूहं चक्रे शांतनवस्तदा
पुत्राणां ते जयाकाङ्क्षी भीष्मः कुरुपितामहः
MBh 6.52.3
गरुडस्य स्वयं तुण्डे पिता देवव्रतस्तव
चक्षुषी च भरद्वाजः कृतवर्मा च सात्वतः
MBh 6.52.4
अश्वत्थामा कृपश्चैव शीर्षमास्तां यशस्विनौ
त्रिगर्तैर्मत्स्यकैकेयैर्वाटधानैश्च संयुतौ
MBh 6.52.5
भूरिश्रवाः शलः शल्यो भगदत्तश्च मारिष
मद्रकाः सिन्धुसौवीरास्तथा पञ्चनदाश्च ये
MBh 6.52.6
जयद्रथेन सहिता ग्रीवायां संनिवेशिताः
पृष्ठे दुर्योधनो राजा सोदरैः सानुगैर्वृतः
MBh 6.52.7
विन्दानुविन्दावावन्त्यौ काम्बोजश्च शकैः सह
पुच्छमासन्महाराज शूरसेनाश्च सर्वशः
MBh 6.52.8
मागधाश्च कलिङ्गाश्च दाशेरकगणैः सह
दक्षिणं पक्षमासाद्य स्थिता व्यूहस्य दंशिताः
MBh 6.52.9
काननाश्च विकुञ्जाश्च मुक्ताः पुण्ड्राविषस्तथा
बृहद्बलेन सहिता वामं पक्षमुपाश्रिताः
MBh 6.52.10
व्यूढं दृष्ट्वा तु तत्सैन्यं सव्यसाची परंतपः
धृष्टद्युम्नेन सहितः प्रत्यव्यूहत संयुगे
अर्धचन्द्रेण व्यूहेन व्यूहं तमतिदारुणम्
MBh 6.52.11
दक्षिणं शृङ्गमास्थाय भीमसेनो व्यरोचत
नानाशस्त्रौघसंपन्नैर्नानादेश्यैर्नृपैर्वृतः
MBh 6.52.12
तदन्वेव विराटश्च द्रुपदश्च महारथः
तदनन्तरमेवासीन्नीलो नीलायुधैः सह
MBh 6.52.13
नीलादनन्तरं चैव धृष्टकेतुर्महारथः
चेदिकाशिकरूषैश्च पौरवैश्चाभिसंवृतः
MBh 6.52.14
धृष्टद्युम्नः शिखण्डी च पाञ्चालाश्च प्रभद्रकाः
मध्ये सैन्यस्य महतः स्थिता युद्धाय भारत
MBh 6.52.15
तथैव धर्मराजोऽपि गजानीकेन संवृतः
ततस्तु सात्यकी राजन्द्रौपद्याः पञ्च चात्मजाः
MBh 6.52.16
अभिमन्युस्ततस्तूर्णमिरावांश्च ततः परम्
भैमसेनिस्ततो राजन्केकयाश्च महारथाः
MBh 6.52.17
ततोऽभूद्द्विपदां श्रेष्ठो वामं पार्श्वमुपाश्रितः
सर्वस्य जगतो गोप्ता गोप्ता यस्य जनार्दनः
MBh 6.52.18
एवमेतन्महाव्यूहं प्रत्यव्यूहन्त पाण्डवाः
वधार्थं तव पुत्राणां तत्पक्षं ये च संगताः
MBh 6.52.19
ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम्
तावकानां परेषां च निघ्नतामितरेतरम्
MBh 6.52.20
हयौघाश्च रथौघाश्च तत्र तत्र विशां पते
संपतन्तः स्म दृश्यन्ते निघ्नमानाः परस्परम्
MBh 6.52.21
धावतां च रथौघानां निघ्नतां च पृथक्पृथक्
बभूव तुमुलः शब्दो विमिश्रो दुन्दुभिस्वनैः
MBh 6.52.22
दिवस्पृङ्नरवीराणां निघ्नतामितरेतरम्
संप्रहारे सुतुमुले तव तेषां च भारत
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Bhīṣma-Parva chapter-index (117 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Bhīṣma-Parva Ch 51
- Next chapter · Bhīṣma-Parva Ch 53 →
Sources and Connected Readings
Continue from these 22 source-pinned Devanāgarī addresses to Bhīṣma-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 6.52local chapter route · Bhīṣma-ParvaBhīṣma-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesMBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷