🪷 Mahābhārata · Aśvamedhika-Parva · Chapter 82

The Book of the Horse-Sacrifice · Parva 14 · 32 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 32 Shlokas

MBh 14.82.1
अर्जुन उवाच किमागमनकृत्यं ते कौरव्यकुलनन्दिनि मणिपूरपतेर्मातुस्तथैव च रणाजिरे
MBh 14.82.2
कच्चित्कुशलकामासि राज्ञोऽस्य भुजगात्मजे मम वा चञ्चलापाङ्गे कच्चित्त्वं शुभमिच्छसि
MBh 14.82.3
कच्चित्ते पृथुलश्रोणि नाप्रियं शुभदर्शने अकार्षमहमज्ञानादयं वा बभ्रुवाहनः
MBh 14.82.4
कच्चिच्च राजपुत्री ते सपत्नी चैत्रवाहिनी चित्राङ्गदा वरारोहा नापराध्यति किंचन
MBh 14.82.5
तमुवाचोरगपतेर्दुहिता प्रहसन्त्यथ न मे त्वमपराद्धोऽसि न नृपो बभ्रुवाहनः न जनित्री तथास्येयं मम या प्रेष्यवत्स्थिता
MBh 14.82.6
श्रूयतां यद्यथा चेदं मया सर्वं विचेष्टितम् न मे कोपस्त्वया कार्यः शिरसा त्वां प्रसादये
MBh 14.82.7
त्वत्प्रीत्यर्थं हि कौरव्य कृतमेतन्मयानघ यत्तच्छृणु महाबाहो निखिलेन धनंजय
MBh 14.82.8
महाभारतयुद्धे यत्त्वया शांतनवो नृपः अधर्मेण हतः पार्थ तस्यैषा निष्कृतिः कृता
MBh 14.82.9
न हि भीष्मस्त्वया वीर युध्यमानो निपातितः शिखण्डिना तु संसक्तस्तमाश्रित्य हतस्त्वया
MBh 14.82.10
तस्य शान्तिमकृत्वा तु त्यजेस्त्वं यदि जीवितम् कर्मणा तेन पापेन पतेथा निरये ध्रुवम्
MBh 14.82.11
एषा तु विहिता शान्तिः पुत्राद्यां प्राप्तवानसि वसुभिर्वसुधापाल गङ्गया च महामते
MBh 14.82.12
पुरा हि श्रुतमेतद्वै वसुभिः कथितं मया गङ्गायास्तीरमागम्य हते शांतनवे नृपे
MBh 14.82.13
आप्लुत्य देवा वसवः समेत्य च महानदीम् इदमूचुर्वचो घोरं भागीरथ्या मते तदा
MBh 14.82.14
एष शांतनवो भीष्मो निहतः सव्यसाचिना अयुध्यमानः संग्रामे संसक्तोऽन्येन भामिनि
MBh 14.82.15
तदनेनाभिषङ्गेण वयमप्यर्जुनं शुभे शापेन योजयामेति तथास्त्विति च साब्रवीत्
MBh 14.82.16
तदहं पितुरावेद्य भृशं प्रव्यथितेन्द्रिया अभवं स च तच्छ्रुत्वा विषादमगमत्परम्
MBh 14.82.17
पिता तु मे वसून्गत्वा त्वदर्थं समयाचत पुनः पुनः प्रसाद्यैनांस्त एनमिदमब्रुवन्
MBh 14.82.18
पुनस्तस्य महाभाग मणिपूरेश्वरो युवा स एनं रणमध्यस्थं शरैः पातयिता भुवि
MBh 14.82.19
एवं कृते स नागेन्द्र मुक्तशापो भविष्यति गच्छेति वसुभिश्चोक्तो मम चेदं शशंस सः
MBh 14.82.20
तच्छ्रुत्वा त्वं मया तस्माच्छापादसि विमोक्षितः न हि त्वां देवराजोऽपि समरेषु पराजयेत्
MBh 14.82.21
आत्मा पुत्रः स्मृतस्तस्मात्तेनेहासि पराजितः नात्र दोषो मम मतः कथं वा मन्यसे विभो
MBh 14.82.22
इत्येवमुक्तो विजयः प्रसन्नात्माब्रवीदिदम् सर्वं मे सुप्रियं देवि यदेतत्कृतवत्यसि
MBh 14.82.23
इत्युक्त्वाथाब्रवीत्पुत्रं मणिपूरेश्वरं जयः चित्राङ्गदायाः शृण्वन्त्याः कौरव्यदुहितुस्तथा
MBh 14.82.24
युधिष्ठिरस्याश्वमेधः परां चैत्रीं भविष्यति तत्रागच्छेः सहामात्यो मातृभ्यां सहितो नृप
MBh 14.82.25
इत्येवमुक्तः पार्थेन स राजा बभ्रुवाहनः उवाच पितरं धीमानिदमस्राविलेक्षणः
MBh 14.82.26
उपयास्यामि धर्मज्ञ भवतः शासनादहम् अश्वमेधे महायज्ञे द्विजातिपरिवेषकः
MBh 14.82.27
मम त्वनुग्रहार्थाय प्रविशस्व पुरं स्वकम् भार्याभ्यां सह शत्रुघ्न मा भूत्तेऽत्र विचारणा
MBh 14.82.28
उषित्वेह विशल्यस्त्वं सुखं स्वे वेश्मनि प्रभो पुनरश्वानुगमनं कर्तासि जयतां वर
MBh 14.82.29
इत्युक्तः स तु पुत्रेण तदा वानरकेतनः स्मयन्प्रोवाच कौन्तेयस्तदा चित्राङ्गदासुतम्
MBh 14.82.30
विदितं ते महाबाहो यथा दीक्षां चराम्यहम् न स तावत्प्रवेक्ष्यामि पुरं ते पृथुलोचन
MBh 14.82.31
यथाकामं प्रयात्येष यज्ञियश्च तुरंगमः स्वस्ति तेऽस्तु गमिष्यामि न स्थानं विद्यते मम
MBh 14.82.32
स तत्र विधिवत्तेन पूजितः पाकशासनिः भार्याभ्यामभ्यनुज्ञातः प्रायाद्भरतसत्तमः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 32 source-pinned Devanāgarī addresses to Aśvamedhika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 14.82local chapter route · Aśvamedhika-ParvaAśvamedhika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷