🪷 Mahābhārata · Aśvamedhika-Parva · Chapter 81

The Book of the Horse-Sacrifice · Parva 14 · 21 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 21 Shlokas

MBh 14.81.1
वैशंपायन उवाच प्रायोपविष्टे नृपतौ मणिपूरेश्वरे तदा पितृशोकसमाविष्टे सह मात्रा परंतप
MBh 14.81.2
उलूपी चिन्तयामास तदा संजीवनं मणिम् स चोपातिष्ठत तदा पन्नगानां परायणम्
MBh 14.81.3
तं गृहीत्वा तु कौरव्य नागराजपतेः सुता मनःप्रह्लादनीं वाचं सैनिकानामथाब्रवीत्
MBh 14.81.4
उत्तिष्ठ मा शुचः पुत्र नैष जिष्णुस्त्वया हतः अजेयः पुरुषैरेष देवैर्वापि सवासवैः
MBh 14.81.5
मया तु मोहिनी नाम मायैषा संप्रयोजिता प्रियार्थं पुरुषेन्द्रस्य पितुस्तेऽद्य यशस्विनः
MBh 14.81.6
जिज्ञासुर्ह्येष वै पुत्र बलस्य तव कौरवः संग्रामे युध्यतो राजन्नागतः परवीरहा
MBh 14.81.7
तस्मादसि मया पुत्र युद्धार्थं परिचोदितः मा पापमात्मनः पुत्र शङ्केथास्त्वण्वपि प्रभो
MBh 14.81.8
ऋषिरेष महातेजाः पुरुषः शाश्वतोऽव्ययः नैनं शक्तो हि संग्रामे जेतुं शक्रोऽपि पुत्रक
MBh 14.81.9
अयं तु मे मणिर्दिव्यः समानीतो विशां पते मृतान्मृतान्पन्नगेन्द्रान्यो जीवयति नित्यदा
MBh 14.81.10
एतमस्योरसि त्वं तु स्थापयस्व पितुः प्रभो संजीवितं पुनः पुत्र ततो द्रष्टासि पाण्डवम्
MBh 14.81.11
इत्युक्तः स्थापयामास तस्योरसि मणिं तदा पार्थस्यामिततेजाः स पितुः स्नेहादपापकृत्
MBh 14.81.12
तस्मिन्न्यस्ते मणौ वीर जिष्णुरुज्जीवितः प्रभुः सुप्तोत्थित इवोत्तस्थौ मृष्टलोहितलोचनः
MBh 14.81.13
तमुत्थितं महात्मानं लब्धसंज्ञं मनस्विनम् समीक्ष्य पितरं स्वस्थं ववन्दे बभ्रुवाहनः
MBh 14.81.14
उत्थिते पुरुषव्याघ्रे पुनर्लक्ष्मीवति प्रभो दिव्याः सुमनसः पुण्या ववृषे पाकशासनः
MBh 14.81.15
अनाहता दुन्दुभयः प्रणेदुर्मेघनिस्वनाः साधु साध्विति चाकाशे बभूव सुमहान्स्वनः
MBh 14.81.16
उत्थाय तु महाबाहुः पर्याश्वस्तो धनंजयः बभ्रुवाहनमालिङ्ग्य समाजिघ्रत मूर्धनि
MBh 14.81.17
ददर्श चाविदूरेऽस्य मातरं शोककर्शिताम् उलूप्या सह तिष्ठन्तीं ततोऽपृच्छद्धनंजयः
MBh 14.81.18
किमिदं लक्ष्यते सर्वं शोकविस्मयहर्षवत् रणाजिरममित्रघ्न यदि जानासि शंस मे
MBh 14.81.19
जननी च किमर्थं ते रणभूमिमुपागता नागेन्द्रदुहिता चेयमुलूपी किमिहागता
MBh 14.81.20
जानाम्यहमिदं युद्धं त्वया मद्वचनात्कृतम् स्त्रीणामागमने हेतुमहमिच्छामि वेदितुम्
MBh 14.81.21
तमुवाच ततः पृष्टो मणिपूरपतिस्तदा प्रसाद्य शिरसा विद्वानुलूपी पृच्छ्यतामिति

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 21 source-pinned Devanāgarī addresses to Aśvamedhika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 14.81local chapter route · Aśvamedhika-ParvaAśvamedhika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷