🪷 Mahābhārata · Aśvamedhika-Parva · Chapter 68
The Book of the Horse-Sacrifice · Parva 14 · 24 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 24 Shlokas
MBh 14.68.1
वैशंपायन उवाच
सैवं विलप्य करुणं सोन्मादेव तपस्विनी
उत्तरा न्यपतद्भूमौ कृपणा पुत्रगृद्धिनी
MBh 14.68.2
तां तु दृष्ट्वा निपतितां हतबन्धुपरिच्छदाम्
चुक्रोश कुन्ती दुःखार्ता सर्वाश्च भरतस्त्रियः
MBh 14.68.3
मुहूर्तमिव तद्राजन्पाण्डवानां निवेशनम्
अप्रेक्षणीयमभवदार्तस्वरनिनादितम्
MBh 14.68.4
सा मुहूर्तं च राजेन्द्र पुत्रशोकाभिपीडिता
कश्मलाभिहता वीर वैराटी त्वभवत्तदा
MBh 14.68.5
प्रतिलभ्य तु सा संज्ञामुत्तरा भरतर्षभ
अङ्कमारोप्य तं पुत्रमिदं वचनमब्रवीत्
MBh 14.68.6
धर्मज्ञस्य सुतः संस्त्वमधर्ममवबुध्यसे
यस्त्वं वृष्णिप्रवीरस्य कुरुषे नाभिवादनम्
MBh 14.68.7
पुत्र गत्वा मम वचो ब्रूयास्त्वं पितरं तव
दुर्मरं प्राणिनां वीर काले प्राप्ते कथंचन
MBh 14.68.8
याहं त्वया विहीनाद्य पत्या पुत्रेण चैव ह
मर्तव्ये सति जीवामि हतस्वस्तिरकिंचना
MBh 14.68.9
अथ वा धर्मराज्ञाहमनुज्ञाता महाभुज
भक्षयिष्ये विषं तीक्ष्णं प्रवेक्ष्ये वा हुताशनम्
MBh 14.68.10
अथ वा दुर्मरं तात यदिदं मे सहस्रधा
पतिपुत्रविहीनाया हृदयं न विदीर्यते
MBh 14.68.11
उत्तिष्ठ पुत्र पश्येमां दुःखितां प्रपितामहीम्
आर्तामुपप्लुतां दीनां निमग्नां शोकसागरे
MBh 14.68.12
आर्यां च पश्य पाञ्चालीं सात्वतीं च तपस्विनीम्
मां च पश्य सुदुःखार्तां व्याधविद्धां मृगीमिव
MBh 14.68.13
उत्तिष्ठ पश्य वदनं लोकनाथस्य धीमतः
पुण्डरीकपलाशाक्षं पुरेव चपलेक्षणम्
MBh 14.68.14
एवं विप्रलपन्तीं तु दृष्ट्वा निपतितां पुनः
उत्तरां ताः स्त्रियः सर्वाः पुनरुत्थापयन्त्युत
MBh 14.68.15
उत्थाय तु पुनर्धैर्यात्तदा मत्स्यपतेः सुता
प्राञ्जलिः पुण्डरीकाक्षं भूमावेवाभ्यवादयत्
MBh 14.68.16
श्रुत्वा स तस्या विपुलं विलापं पुरुषर्षभः
उपस्पृश्य ततः कृष्णो ब्रह्मास्त्रं संजहार तत्
MBh 14.68.17
प्रतिजज्ञे च दाशार्हस्तस्य जीवितमच्युतः
अब्रवीच्च विशुद्धात्मा सर्वं विश्रावयञ्जगत्
MBh 14.68.18
न ब्रवीम्युत्तरे मिथ्या सत्यमेतद्भविष्यति
एष संजीवयाम्येनं पश्यतां सर्वदेहिनाम्
MBh 14.68.19
नोक्तपूर्वं मया मिथ्या स्वैरेष्वपि कदाचन
न च युद्धे परावृत्तस्तथा संजीवतामयम्
MBh 14.68.20
यथा मे दयितो धर्मो ब्राह्मणाश्च विशेषतः
अभिमन्योः सुतो जातो मृतो जीवत्वयं तथा
MBh 14.68.21
यथाहं नाभिजानामि विजयेन कदाचन
विरोधं तेन सत्येन मृतो जीवत्वयं शिशुः
MBh 14.68.22
यथा सत्यं च धर्मश्च मयि नित्यं प्रतिष्ठितौ
तथा मृतः शिशुरयं जीवतामभिमन्युजः
MBh 14.68.23
यथा कंसश्च केशी च धर्मेण निहतौ मया
तेन सत्येन बालोऽयं पुनरुज्जीवतामिह
MBh 14.68.24
इत्युक्तो वासुदेवेन स बालो भरतर्षभ
शनैः शनैर्महाराज प्रास्पन्दत सचेतनः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Aśvamedhika-Parva chapter-index (96 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Aśvamedhika-Parva Ch 67
- Next chapter · Aśvamedhika-Parva Ch 69 →
Sources and Connected Readings
Continue from these 24 source-pinned Devanāgarī addresses to Aśvamedhika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 14.68local chapter route · Aśvamedhika-ParvaAśvamedhika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷