🪷 Mahābhārata · Aśvamedhika-Parva · Chapter 67

The Book of the Horse-Sacrifice · Parva 14 · 24 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 24 Shlokas

MBh 14.67.1
वैशंपायन उवाच एवमुक्तस्तु राजेन्द्र केशिहा दुःखमूर्छितः तथेति व्याजहारोच्चैर्ह्लादयन्निव तं जनम्
MBh 14.67.2
वाक्येन तेन हि तदा तं जनं पुरुषर्षभः ह्लादयामास स विभुर्घर्मार्तं सलिलैरिव
MBh 14.67.3
ततः स प्राविशत्तूर्णं जन्मवेश्म पितुस्तव अर्चितं पुरुषव्याघ्र सितैर्माल्यैर्यथाविधि
MBh 14.67.4
अपां कुम्भैः सुपूर्णैश्च विन्यस्तैः सर्वतोदिशम् घृतेन तिन्दुकालातैः सर्षपैश्च महाभुज
MBh 14.67.5
शस्त्रैश्च विमलैर्न्यस्तैः पावकैश्च समन्ततः वृद्धाभिश्चाभिरामाभिः परिचारार्थमच्युतः
MBh 14.67.6
दक्षैश्च परितो वीर भिषग्भिः कुशलैस्तथा ददर्श च स तेजस्वी रक्षोघ्नान्यपि सर्वशः द्रव्याणि स्थापितानि स्म विधिवत्कुशलैर्जनैः
MBh 14.67.7
तथायुक्तं च तद्दृष्ट्वा जन्मवेश्म पितुस्तव हृष्टोऽभवद्धृषीकेशः साधु साध्विति चाब्रवीत्
MBh 14.67.8
तथा ब्रुवति वार्ष्णेये प्रहृष्टवदने तदा द्रौपदी त्वरिता गत्वा वैराटीं वाक्यमब्रवीत्
MBh 14.67.9
अयमायाति ते भद्रे श्वशुरो मधुसूदनः पुराणर्षिरचिन्त्यात्मा समीपमपराजितः
MBh 14.67.10
सापि बाष्पकलां वाचं निगृह्याश्रूणि चैव ह सुसंवीताभवद्देवी देववत्कृष्णमीक्षती
MBh 14.67.11
सा तथा दूयमानेन हृदयेन तपस्विनी दृष्ट्वा गोविन्दमायान्तं कृपणं पर्यदेवयत्
MBh 14.67.12
पुण्डरीकाक्ष पश्यस्व बालाविह विनाकृतौ अभिमन्युं च मां चैव हतौ तुल्यं जनार्दन
MBh 14.67.13
वार्ष्णेय मधुहन्वीर शिरसा त्वां प्रसादये द्रोणपुत्रास्त्रनिर्दग्धं जीवयैनं ममात्मजम्
MBh 14.67.14
यदि स्म धर्मराज्ञा वा भीमसेनेन वा पुनः त्वया वा पुण्डरीकाक्ष वाक्यमुक्तमिदं भवेत्
MBh 14.67.15
अजानतीमिषीकेयं जनित्रीं हन्त्विति प्रभो अहमेव विनष्टा स्यां नेदमेवंगतं भवेत्
MBh 14.67.16
गर्भस्थस्यास्य बालस्य ब्रह्मास्त्रेण निपातनम् कृत्वा नृशंसं दुर्बुद्धिर्द्रौणिः किं फलमश्नुते
MBh 14.67.17
सा त्वा प्रसाद्य शिरसा याचे शत्रुनिबर्हण प्राणांस्त्यक्ष्यामि गोविन्द नायं संजीवते यदि
MBh 14.67.18
अस्मिन्हि बहवः साधो ये ममासन्मनोरथाः ते द्रोणपुत्रेण हताः किं नु जीवामि केशव
MBh 14.67.19
आसीन्मम मतिः कृष्ण पूर्णोत्सङ्गा जनार्दन अभिवादयिष्ये दिष्ट्येति तदिदं वितथीकृतम्
MBh 14.67.20
चपलाक्षस्य दायादे मृतेऽस्मिन्पुरुषर्षभ विफला मे कृताः कृष्ण हृदि सर्वे मनोरथाः
MBh 14.67.21
चपलाक्षः किलातीव प्रियस्ते मधुसूदन सुतं पश्यस्व तस्येमं ब्रह्मास्त्रेण निपातितम्
MBh 14.67.22
कृतघ्नोऽयं नृशंसोऽयं यथास्य जनकस्तथा यः पाण्डवीं श्रियं त्यक्त्वा गतोऽद्य यमसादनम्
MBh 14.67.23
मया चैतत्प्रतिज्ञातं रणमूर्धनि केशव अभिमन्यौ हते वीर त्वामेष्याम्यचिरादिति
MBh 14.67.24
तच्च नाकरवं कृष्ण नृशंसा जीवितप्रिया इदानीमागतां तत्र किं नु वक्ष्यति फाल्गुनिः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 24 source-pinned Devanāgarī addresses to Aśvamedhika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 14.67local chapter route · Aśvamedhika-ParvaAśvamedhika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷