🪷 Mahābhārata · Aśvamedhika-Parva · Chapter 37
The Book of the Horse-Sacrifice · Parva 14 · 17 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 17 Shlokas
MBh 14.37.1
ब्रह्मोवाच
रजोऽहं वः प्रवक्ष्यामि याथातथ्येन सत्तमाः
निबोधत महाभागा गुणवृत्तं च सर्वशः
MBh 14.37.2
संघातो रूपमायासः सुखदुःखे हिमातपौ
ऐश्वर्यं विग्रहः संधिर्हेतुवादोऽरतिः क्षमा
MBh 14.37.3
बलं शौर्यं मदो रोषो व्यायामकलहावपि
ईर्ष्येप्सा पैशुनं युद्धं ममत्वं परिपालनम्
MBh 14.37.4
वधबन्धपरिक्लेशाः क्रयो विक्रय एव च
निकृन्त छिन्धि भिन्धीति परमर्मावकर्तनम्
MBh 14.37.5
उग्रं दारुणमाक्रोशः परवित्तानुशासनम्
लोकचिन्ता विचिन्ता च मत्सरः परिभाषणम्
MBh 14.37.6
मृषावादो मृषादानं विकल्पः परिभाषणम्
निन्दा स्तुतिः प्रशंसा च प्रतापः परितर्पणम्
MBh 14.37.7
परिचर्या च शुश्रूषा सेवा तृष्णा व्यपाश्रयः
व्यूहोऽनयः प्रमादश्च परितापः परिग्रहः
MBh 14.37.8
संस्कारा ये च लोकेऽस्मिन्प्रवर्तन्ते पृथक्पृथक्
नृषु नारीषु भूतेषु द्रव्येषु शरणेषु च
MBh 14.37.9
संतापोऽप्रत्ययश्चैव व्रतानि नियमाश्च ये
प्रदानमाशीर्युक्तं च सततं मे भवत्विति
MBh 14.37.10
स्वधाकारो नमस्कारः स्वाहाकारो वषट्क्रिया
याजनाध्यापने चोभे तथैवाहुः परिग्रहम्
MBh 14.37.11
इदं मे स्यादिदं मे स्यात्स्नेहो गुणसमुद्भवः
अभिद्रोहस्तथा माया निकृतिर्मान एव च
MBh 14.37.12
स्तैन्यं हिंसा परीवादः परितापः प्रजागरः
स्तम्भो दम्भोऽथ रागश्च भक्तिः प्रीतिः प्रमोदनम्
MBh 14.37.13
द्यूतं च जनवादश्च संबन्धाः स्त्रीकृताश्च ये
नृत्तवादित्रगीतानि प्रसङ्गा ये च केचन
सर्व एते गुणा विप्रा राजसाः संप्रकीर्तिताः
MBh 14.37.14
भूतभव्यभविष्याणां भावानां भुवि भावनाः
त्रिवर्गनिरता नित्यं धर्मोऽर्थः काम इत्यपि
MBh 14.37.15
कामवृत्ताः प्रमोदन्ते सर्वकामसमृद्धिभिः
अर्वाक्स्रोतस इत्येते तैजसा रजसावृताः
MBh 14.37.16
अस्मिँल्लोके प्रमोदन्ते जायमानाः पुनः पुनः
प्रेत्यभाविकमीहन्त इह लौकिकमेव च
ददति प्रतिगृह्णन्ति जपन्त्यथ च जुह्वति
MBh 14.37.17
रजोगुणा वो बहुधानुकीर्तिता; यथावदुक्तं गुणवृत्तमेव च
नरो हि यो वेद गुणानिमान्सदा; स राजसैः सर्वगुणैर्विमुच्यते
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Aśvamedhika-Parva chapter-index (96 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Aśvamedhika-Parva Ch 36
- Next chapter · Aśvamedhika-Parva Ch 38 →
Sources and Connected Readings
Continue from these 17 source-pinned Devanāgarī addresses to Aśvamedhika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 14.37local chapter route · Aśvamedhika-ParvaAśvamedhika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷