🪷 Mahābhārata · Āśramavāsika-Parva · Chapter 7

The Book of Hermitage Residence · Parva 15 · 19 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 19 Shlokas

MBh 15.7.1
धृतराष्ट्र उवाच स्पृश मां पाणिना भूयः परिष्वज च पाण्डव जीवामीव हि संस्पर्शात्तव राजीवलोचन
MBh 15.7.2
मूर्धानं च तवाघ्रातुमिच्छामि मनुजाधिप पाणिभ्यां च परिस्प्रष्टुं प्राणा हि न जहुर्मम
MBh 15.7.3
अष्टमो ह्यद्य कालोऽयमाहारस्य कृतस्य मे येनाहं कुरुशार्दूल न शक्नोमि विचेष्टितुम्
MBh 15.7.4
व्यायामश्चायमत्यर्थं कृतस्त्वामभियाचता ततो ग्लानमनास्तात नष्टसंज्ञ इवाभवम्
MBh 15.7.5
तवामृतसमस्पर्शं हस्तस्पर्शमिमं विभो लब्ध्वा संजीवितोऽस्मीति मन्ये कुरुकुलोद्वह
MBh 15.7.6
वैशंपायन उवाच एवमुक्तस्तु कौन्तेयः पित्रा ज्येष्ठेन भारत पस्पर्श सर्वगात्रेषु सौहार्दात्तं शनैस्तदा
MBh 15.7.7
उपलभ्य ततः प्राणान्धृतराष्ट्रो महीपतिः बाहुभ्यां संपरिष्वज्य मूर्ध्न्याजिघ्रत पाण्डवम्
MBh 15.7.8
विदुरादयश्च ते सर्वे रुरुदुर्दुःखिता भृशम् अतिदुःखाच्च राजानं नोचुः किंचन पाण्डवाः
MBh 15.7.9
गान्धारी त्वेव धर्मज्ञा मनसोद्वहती भृशम् दुःखान्यवारयद्राजन्मैवमित्येव चाब्रवीत्
MBh 15.7.10
इतरास्तु स्त्रियः सर्वाः कुन्त्या सह सुदुःखिताः नेत्रैरागतविक्लेदैः परिवार्य स्थिताभवन्
MBh 15.7.11
अथाब्रवीत्पुनर्वाक्यं धृतराष्ट्रो युधिष्ठिरम् अनुजानीहि मां राजंस्तापस्ये भरतर्षभ
MBh 15.7.12
ग्लायते मे मनस्तात भूयो भूयः प्रजल्पतः न मामतः परं पुत्र परिक्लेष्टुमिहार्हसि
MBh 15.7.13
तस्मिंस्तु कौरवेन्द्रे तं तथा ब्रुवति पाण्डवम् सर्वेषामवरोधानामार्तनादो महानभूत्
MBh 15.7.14
दृष्ट्वा कृशं विवर्णं च राजानमतथोचितम् उपवासपरिश्रान्तं त्वगस्थिपरिवारितम्
MBh 15.7.15
धर्मपुत्रः स पितरं परिष्वज्य महाभुजः शोकजं बाष्पमुत्सृज्य पुनर्वचनमब्रवीत्
MBh 15.7.16
न कामये नरश्रेष्ठ जीवितं पृथिवीं तथा यथा तव प्रियं राजंश्चिकीर्षामि परंतप
MBh 15.7.17
यदि त्वहमनुग्राह्यो भवतो दयितोऽपि वा क्रियतां तावदाहारस्ततो वेत्स्यामहे वयम्
MBh 15.7.18
ततोऽब्रवीन्महातेजा धर्मपुत्रं स पार्थिवः अनुज्ञातस्त्वया पुत्र भुञ्जीयामिति कामये
MBh 15.7.19
इति ब्रुवति राजेन्द्रे धृतराष्ट्रे युधिष्ठिरम् ऋषिः सत्यवतीपुत्रो व्यासोऽभ्येत्य वचोऽब्रवीत्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 19 source-pinned Devanāgarī addresses to Āśramavāsika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 15.7local chapter route · Āśramavāsika-ParvaĀśramavāsika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷