🪷 Mahābhārata · Āśramavāsika-Parva · Chapter 37

The Book of Hermitage Residence · Parva 15 · 18 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 18 Shlokas

MBh 15.37.1
वैशंपायन उवाच तच्छ्रुत्वा विविधं तस्य राजर्षेः परिदेवितम् पुनर्नवीकृतः शोको गान्धार्या जनमेजय
MBh 15.37.2
कुन्त्या द्रुपदपुत्र्याश्च सुभद्रायास्तथैव च तासां च वरनारीणां वधूनां कौरवस्य ह
MBh 15.37.3
पुत्रशोकसमाविष्टा गान्धारी त्विदमब्रवीत् श्वशुरं बद्धनयना देवी प्राञ्जलिरुत्थिता
MBh 15.37.4
षोडशेमानि वर्षाणि गतानि मुनिपुंगव अस्य राज्ञो हतान्पुत्राञ्शोचतो न शमो विभो
MBh 15.37.5
पुत्रशोकसमाविष्टो निःश्वसन्ह्येष भूमिपः न शेते वसतीः सर्वा धृतराष्ट्रो महामुने
MBh 15.37.6
लोकानन्यान्समर्थोऽसि स्रष्टुं सर्वांस्तपोबलात् किमु लोकान्तरगतान्राज्ञो दर्शयितुं सुतान्
MBh 15.37.7
इयं च द्रौपदी कृष्णा हतज्ञातिसुता भृशम् शोचत्यतीव साध्वी ते स्नुषाणां दयिता स्नुषा
MBh 15.37.8
तथा कृष्णस्य भगिनी सुभद्रा भद्रभाषिणी सौभद्रवधसंतप्ता भृशं शोचति भामिनी
MBh 15.37.9
इयं च भूरिश्रवसो भार्या परमदुःखिता भर्तृव्यसनशोकार्ता न शेते वसतीः प्रभो
MBh 15.37.10
यस्यास्तु श्वशुरो धीमान्बाह्लीकः स कुरूद्वहः निहतः सोमदत्तश्च पित्रा सह महारणे
MBh 15.37.11
श्रीमच्चास्य महाबुद्धेः संग्रामेष्वपलायिनः पुत्रस्य ते पुत्रशतं निहतं यद्रणाजिरे
MBh 15.37.12
तस्य भार्याशतमिदं पुत्रशोकसमाहतम् पुनः पुनर्वर्धयानं शोकं राज्ञो ममैव च तेनारम्भेण महता मामुपास्ते महामुने
MBh 15.37.13
ये च शूरा महात्मानः श्वशुरा मे महारथाः सोमदत्तप्रभृतयः का नु तेषां गतिः प्रभो
MBh 15.37.14
तव प्रसादाद्भगवन्विशोकोऽयं महीपतिः कुर्यात्कालमहं चैव कुन्ती चेयं वधूस्तव
MBh 15.37.15
इत्युक्तवत्यां गान्धार्यां कुन्ती व्रतकृशानना प्रच्छन्नजातं पुत्रं तं सस्मारादित्यसंभवम्
MBh 15.37.16
तामृषिर्वरदो व्यासो दूरश्रवणदर्शनः अपश्यद्दुःखितां देवीं मातरं सव्यसाचिनः
MBh 15.37.17
तामुवाच ततो व्यासो यत्ते कार्यं विवक्षितम् तद्ब्रूहि त्वं महाप्राज्ञे यत्ते मनसि वर्तते
MBh 15.37.18
ततः कुन्ती श्वशुरयोः प्रणम्य शिरसा तदा उवाच वाक्यं सव्रीडं विवृण्वाना पुरातनम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 18 source-pinned Devanāgarī addresses to Āśramavāsika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 15.37local chapter route · Āśramavāsika-ParvaĀśramavāsika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷