🪷 Mahābhārata · Āśramavāsika-Parva · Chapter 36

The Book of Hermitage Residence · Parva 15 · 33 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 33 Shlokas

MBh 15.36.1
जनमेजय उवाच वनवासं गते विप्र धृतराष्ट्रे महीपतौ सभार्ये नृपशार्दूले वध्वा कुन्त्या समन्विते
MBh 15.36.2
विदुरे चापि संसिद्धे धर्मराजं व्यपाश्रिते वसत्सु पाण्डुपुत्रेषु सर्वेष्वाश्रममण्डले
MBh 15.36.3
यत्तदाश्चर्यमिति वै करिष्यामीत्युवाच ह व्यासः परमतेजस्वी महर्षिस्तद्वदस्व मे
MBh 15.36.4
वनवासे च कौरव्यः कियन्तं कालमच्युतः युधिष्ठिरो नरपतिर्न्यवसत्सजनो द्विज
MBh 15.36.5
किमाहाराश्च ते तत्र ससैन्या न्यवसन्प्रभो सान्तःपुरा महात्मान इति तद्ब्रूहि मेऽनघ
MBh 15.36.6
वैशंपायन उवाच तेऽनुज्ञातास्तदा राजन्कुरुराजेन पाण्डवाः विविधान्यन्नपानानि विश्राम्यानुभवन्ति ते
MBh 15.36.7
मासमेकं विजह्रुस्ते ससैन्यान्तःपुरा वने अथ तत्रागमद्व्यासो यथोक्तं ते मयानघ
MBh 15.36.8
तथा तु तेषां सर्वेषां कथाभिर्नृपसंनिधौ व्यासमन्वासतां राजन्नाजग्मुर्मुनयोऽपरे
MBh 15.36.9
नारदः पर्वतश्चैव देवलश्च महातपाः विश्वावसुस्तुम्बुरुश्च चित्रसेनश्च भारत
MBh 15.36.10
तेषामपि यथान्यायं पूजां चक्रे महामनाः धृतराष्ट्राभ्यनुज्ञातः कुरुराजो युधिष्ठिरः
MBh 15.36.11
निषेदुस्ते ततः सर्वे पूजां प्राप्य युधिष्ठिरात् आसनेष्वथ पुण्येषु बर्हिष्केषु वरेषु च
MBh 15.36.12
तेषु तत्रोपविष्टेषु स तु राजा महामतिः पाण्डुपुत्रैः परिवृतो निषसाद कुरूद्वहः
MBh 15.36.13
गान्धारी चैव कुन्ती च द्रौपदी सात्वती तथा स्त्रियश्चान्यास्तथान्याभिः सहोपविविशुस्ततः
MBh 15.36.14
तेषां तत्र कथा दिव्या धर्मिष्ठाश्चाभवन्नृप ऋषीणां च पुराणानां देवासुरविमिश्रिताः
MBh 15.36.15
ततः कथान्ते व्यासस्तं प्रज्ञाचक्षुषमीश्वरम् प्रोवाच वदतां श्रेष्ठः पुनरेव स तद्वचः प्रीयमाणो महातेजाः सर्ववेदविदां वरः
MBh 15.36.16
विदितं मम राजेन्द्र यत्ते हृदि विवक्षितम् दह्यमानस्य शोकेन तव पुत्रकृतेन वै
MBh 15.36.17
गान्धार्याश्चैव यद्दुःखं हृदि तिष्ठति पार्थिव कुन्त्याश्च यन्महाराज द्रौपद्याश्च हृदि स्थितम्
MBh 15.36.18
यच्च धारयते तीव्रं दुःखं पुत्रविनाशजम् सुभद्रा कृष्णभगिनी तच्चापि विदितं मम
MBh 15.36.19
श्रुत्वा समागममिमं सर्वेषां वस्ततो नृप संशयच्छेदनायाहं प्राप्तः कौरवनन्दन
MBh 15.36.20
इमे च देवगन्धर्वाः सर्वे चैव महर्षयः पश्यन्तु तपसो वीर्यमद्य मे चिरसंभृतम्
MBh 15.36.21
तदुच्यतां महाबाहो कं कामं प्रदिशामि ते प्रवणोऽस्मि वरं दातुं पश्य मे तपसो बलम्
MBh 15.36.22
एवमुक्तः स राजेन्द्रो व्यासेनामितबुद्धिना मुहूर्तमिव संचिन्त्य वचनायोपचक्रमे
MBh 15.36.23
धन्योऽस्म्यनुगृहीतोऽस्मि सफलं जीवितं च मे यन्मे समागमोऽद्येह भवद्भिः सह साधुभिः
MBh 15.36.24
अद्य चाप्यवगच्छामि गतिमिष्टामिहात्मनः भवद्भिर्ब्रह्मकल्पैर्यत्समेतोऽहं तपोधनाः
MBh 15.36.25
दर्शनादेव भवतां पूतोऽहं नात्र संशयः विद्यते न भयं चापि परलोकान्ममानघाः
MBh 15.36.26
किं तु तस्य सुदुर्बुद्धेर्मन्दस्यापनयैर्भृशम् दूयते मे मनो नित्यं स्मरतः पुत्रगृद्धिनः
MBh 15.36.27
अपापाः पाण्डवा येन निकृताः पापबुद्धिना घातिता पृथिवी चेयं सहसा सनरद्विपा
MBh 15.36.28
राजानश्च महात्मानो नानाजनपदेश्वराः आगम्य मम पुत्रार्थे सर्वे मृत्युवशं गताः
MBh 15.36.29
ये ते पुत्रांश्च दाराश्च प्राणांश्च मनसः प्रियान् परित्यज्य गताः शूराः प्रेतराजनिवेशनम्
MBh 15.36.30
का नु तेषां गतिर्ब्रह्मन्मित्रार्थे ये हता मृधे तथैव पुत्रपौत्राणां मम ये निहता युधि
MBh 15.36.31
दूयते मे मनोऽभीक्ष्णं घातयित्वा महाबलम् भीष्मं शांतनवं वृद्धं द्रोणं च द्विजसत्तमम्
MBh 15.36.32
मम पुत्रेण मूढेन पापेन सुहृदद्विषा क्षयं नीतं कुलं दीप्तं पृथिवीराज्यमिच्छता
MBh 15.36.33
एतत्सर्वमनुस्मृत्य दह्यमानो दिवानिशम् न शान्तिमधिगच्छामि दुःखशोकसमाहतः इति मे चिन्तयानस्य पितः शर्म न विद्यते

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 33 source-pinned Devanāgarī addresses to Āśramavāsika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 15.36local chapter route · Āśramavāsika-ParvaĀśramavāsika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷