🪷 Mahābhārata · Āśramavāsika-Parva · Chapter 34

The Book of Hermitage Residence · Parva 15 · 26 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 26 Shlokas

MBh 15.34.1
वैशंपायन उवाच एवं सा रजनी तेषामाश्रमे पुण्यकर्मणाम् शिवा नक्षत्रसंपन्ना सा व्यतीयाय भारत
MBh 15.34.2
तत्र तत्र कथाश्चासंस्तेषां धर्मार्थलक्षणाः विचित्रपदसंचारा नानाश्रुतिभिरन्विताः
MBh 15.34.3
पाण्डवास्त्वभितो मातुर्धरण्यां सुषुपुस्तदा उत्सृज्य सुमहार्हाणि शयनानि नराधिप
MBh 15.34.4
यदाहारोऽभवद्राजा धृतराष्ट्रो महामनाः तदाहारा नृवीरास्ते न्यवसंस्तां निशां तदा
MBh 15.34.5
व्यतीतायां तु शर्वर्यां कृतपूर्वाह्णिकक्रियः भ्रातृभिः सह कौन्तेयो ददर्शाश्रममण्डलम्
MBh 15.34.6
सान्तःपुरपरीवारः सभृत्यः सपुरोहितः यथासुखं यथोद्देशं धृतराष्ट्राभ्यनुज्ञया
MBh 15.34.7
ददर्श तत्र वेदीश्च संप्रज्वलितपावकाः कृताभिषेकैर्मुनिभिर्हुताग्निभिरुपस्थिताः
MBh 15.34.8
वानेयपुष्पनिकरैराज्यधूमोद्गमैरपि ब्राह्मेण वपुषा युक्ता युक्ता मुनिगणैश्च ताः
MBh 15.34.9
मृगयूथैरनुद्विग्नैस्तत्र तत्र समाश्रितैः अशङ्कितैः पक्षिगणैः प्रगीतैरिव च प्रभो
MBh 15.34.10
केकाभिर्नीलकण्ठानां दात्यूहानां च कूजितैः कोकिलानां च कुहरैः शुभैः श्रुतिमनोहरैः
MBh 15.34.11
प्राधीतद्विजघोषैश्च क्वचित्क्वचिदलंकृतम् फलमूलसमुद्वाहैर्महद्भिश्चोपशोभितम्
MBh 15.34.12
ततः स राजा प्रददौ तापसार्थमुपाहृतान् कलशान्काञ्चनान्राजंस्तथैवौदुम्बरानपि
MBh 15.34.13
अजिनानि प्रवेणीश्च स्रुक्स्रुवं च महीपतिः कमण्डलूंस्तथा स्थालीः पिठराणि च भारत
MBh 15.34.14
भाजनानि च लौहानि पात्रीश्च विविधा नृप यद्यदिच्छति यावच्च यदन्यदपि काङ्क्षितम्
MBh 15.34.15
एवं स राजा धर्मात्मा परीत्याश्रममण्डलम् वसु विश्राण्य तत्सर्वं पुनरायान्महीपतिः
MBh 15.34.16
कृताह्निकं च राजानं धृतराष्ट्रं मनीषिणम् ददर्शासीनमव्यग्रं गान्धारीसहितं तदा
MBh 15.34.17
मातरं चाविदूरस्थां शिष्यवत्प्रणतां स्थिताम् कुन्तीं ददर्श धर्मात्मा सततं धर्मचारिणीम्
MBh 15.34.18
स तमभ्यर्च्य राजानं नाम संश्राव्य चात्मनः निषीदेत्यभ्यनुज्ञातो बृस्यामुपविवेश ह
MBh 15.34.19
भीमसेनादयश्चैव पाण्डवाः कौरवर्षभम् अभिवाद्योपसंगृह्य निषेदुः पार्थिवाज्ञया
MBh 15.34.20
स तैः परिवृतो राजा शुशुभेऽतीव कौरवः बिभ्रद्ब्राह्मीं श्रियं दीप्तां देवैरिव बृहस्पतिः
MBh 15.34.21
तथा तेषूपविष्टेषु समाजग्मुर्महर्षयः शतयूपप्रभृतयः कुरुक्षेत्रनिवासिनः
MBh 15.34.22
व्यासश्च भगवान्विप्रो देवर्षिगणपूजितः वृतः शिष्यैर्महातेजा दर्शयामास तं नृपम्
MBh 15.34.23
ततः स राजा कौरव्यः कुन्तीपुत्रश्च वीर्यवान् भीमसेनादयश्चैव समुत्थायाभ्यपूजयन्
MBh 15.34.24
समागतस्ततो व्यासः शतयूपादिभिर्वृतः धृतराष्ट्रं महीपालमास्यतामित्यभाषत
MBh 15.34.25
नवं तु विष्टरं कौश्यं कृष्णाजिनकुशोत्तरम् प्रतिपेदे तदा व्यासस्तदर्थमुपकल्पितम्
MBh 15.34.26
ते च सर्वे द्विजश्रेष्ठा विष्टरेषु समन्ततः द्वैपायनाभ्यनुज्ञाता निषेदुर्विपुलौजसः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 26 source-pinned Devanāgarī addresses to Āśramavāsika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 15.34local chapter route · Āśramavāsika-ParvaĀśramavāsika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷