🪷 Mahābhārata · Āśramavāsika-Parva · Chapter 24

The Book of Hermitage Residence · Parva 15 · 24 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 24 Shlokas

MBh 15.24.1
वैशंपायन उवाच कुन्त्यास्तु वचनं श्रुत्वा पाण्डवा राजसत्तम व्रीडिताः संन्यवर्तन्त पाञ्चाल्या सहितानघाः
MBh 15.24.2
ततः शब्दो महानासीत्सर्वेषामेव भारत अन्तःपुराणां रुदतां दृष्ट्वा कुन्तीं तथागताम्
MBh 15.24.3
प्रदक्षिणमथावृत्य राजानं पाण्डवास्तदा अभिवाद्य न्यवर्तन्त पृथां तामनिवर्त्य वै
MBh 15.24.4
ततोऽब्रवीन्महाराजो धृतराष्ट्रोऽम्बिकासुतः गान्धारीं विदुरं चैव समाभाष्य निगृह्य च
MBh 15.24.5
युधिष्ठिरस्य जननी देवी साधु निवर्त्यताम् यथा युधिष्ठिरः प्राह तत्सर्वं सत्यमेव हि
MBh 15.24.6
पुत्रैश्वर्यं महदिदमपास्य च महाफलम् का नु गच्छेद्वनं दुर्गं पुत्रानुत्सृज्य मूढवत्
MBh 15.24.7
राज्यस्थया तपस्तप्तं दानं दत्तं व्रतं कृतम् अनया शक्यमद्येह श्रूयतां च वचो मम
MBh 15.24.8
गान्धारि परितुष्टोऽस्मि वध्वाः शुश्रूषणेन वै तस्मात्त्वमेनां धर्मज्ञे समनुज्ञातुमर्हसि
MBh 15.24.9
इत्युक्ता सौबलेयी तु राज्ञा कुन्तीमुवाच ह तत्सर्वं राजवचनं स्वं च वाक्यं विशेषवत्
MBh 15.24.10
न च सा वनवासाय देवीं कृतमतिं तदा शक्नोत्युपावर्तयितुं कुन्तीं धर्मपरां सतीम्
MBh 15.24.11
तस्यास्तु तं स्थिरं ज्ञात्वा व्यवसायं कुरुस्त्रियः निवृत्तांश्च कुरुश्रेष्ठान्दृष्ट्वा प्ररुरुदुस्तदा
MBh 15.24.12
उपावृत्तेषु पार्थेषु सर्वेष्वन्तःपुरेषु च ययौ राजा महाप्राज्ञो धृतराष्ट्रो वनं तदा
MBh 15.24.13
पाण्डवा अपि दीनास्ते दुःखशोकपरायणाः यानैः स्त्रीसहिताः सर्वे पुरं प्रविविशुस्तदा
MBh 15.24.14
तदहृष्टमिवाकूजं गतोत्सवमिवाभवत् नगरं हास्तिनपुरं सस्त्रीवृद्धकुमारकम्
MBh 15.24.15
सर्वे चासन्निरुत्साहाः पाण्डवा जातमन्यवः कुन्त्या हीनाः सुदुःखार्ता वत्सा इव विनाकृताः
MBh 15.24.16
धृतराष्ट्रस्तु तेनाह्ना गत्वा सुमहदन्तरम् ततो भागीरथीतीरे निवासमकरोत्प्रभुः
MBh 15.24.17
प्रादुष्कृता यथान्यायमग्नयो वेदपारगैः व्यराजन्त द्विजश्रेष्ठैस्तत्र तत्र तपोधनैः प्रादुष्कृताग्निरभवत्स च वृद्धो नराधिपः
MBh 15.24.18
स राजाग्नीन्पर्युपास्य हुत्वा च विधिवत्तदा संध्यागतं सहस्रांशुमुपातिष्ठत भारत
MBh 15.24.19
विदुरः संजयश्चैव राज्ञः शय्यां कुशैस्ततः चक्रतुः कुरुवीरस्य गान्धार्याश्चाविदूरतः
MBh 15.24.20
गान्धार्याः संनिकर्षे तु निषसाद कुशेष्वथ युधिष्ठिरस्य जननी कुन्ती साधुव्रते स्थिता
MBh 15.24.21
तेषां संश्रवणे चापि निषेदुर्विदुरादयः याजकाश्च यथोद्देशं द्विजा ये चानुयायिनः
MBh 15.24.22
प्राधीतद्विजमुख्या सा संप्रज्वालितपावका बभूव तेषां रजनी ब्राह्मीव प्रीतिवर्धनी
MBh 15.24.23
ततो रात्र्यां व्यतीतायां कृतपूर्वाह्णिकक्रियाः हुत्वाग्निं विधिवत्सर्वे प्रययुस्ते यथाक्रमम् उदङ्मुखा निरीक्षन्त उपवासपरायणाः
MBh 15.24.24
स तेषामतिदुःखोऽभून्निवासः प्रथमेऽहनि शोचतां शोच्यमानानां पौरजानपदैर्जनैः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 24 source-pinned Devanāgarī addresses to Āśramavāsika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 15.24local chapter route · Āśramavāsika-ParvaĀśramavāsika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷