🪷 Mahābhārata · Āśramavāsika-Parva · Chapter 17

The Book of Hermitage Residence · Parva 15 · 23 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 23 Shlokas

MBh 15.17.1
वैशंपायन उवाच व्युषितायां रजन्यां तु धृतराष्ट्रोऽम्बिकासुतः विदुरं प्रेषयामास युधिष्ठिरनिवेशनम्
MBh 15.17.2
स गत्वा राजवचनादुवाचाच्युतमीश्वरम् युधिष्ठिरं महातेजाः सर्वबुद्धिमतां वरः
MBh 15.17.3
धृतराष्ट्रो महाराज वनवासाय दीक्षितः गमिष्यति वनं राजन्कार्त्तिकीमागतामिमाम्
MBh 15.17.4
स त्वा कुरुकुलश्रेष्ठ किंचिदर्थमभीप्सति श्राद्धमिच्छति दातुं स गाङ्गेयस्य महात्मनः
MBh 15.17.5
द्रोणस्य सोमदत्तस्य बाह्लीकस्य च धीमतः पुत्राणां चैव सर्वेषां ये चास्य सुहृदो हताः यदि चाभ्यनुजानीषे सैन्धवापसदस्य च
MBh 15.17.6
एतच्छ्रुत्वा तु वचनं विदुरस्य युधिष्ठिरः हृष्टः संपूजयामास गुडाकेशश्च पाण्डवः
MBh 15.17.7
न तु भीमो दृढक्रोधस्तद्वचो जगृहे तदा विदुरस्य महातेजा दुर्योधनकृतं स्मरन्
MBh 15.17.8
अभिप्रायं विदित्वा तु भीमसेनस्य फल्गुनः किरीटी किंचिदानम्य भीमं वचनमब्रवीत्
MBh 15.17.9
भीम राजा पिता वृद्धो वनवासाय दीक्षितः दातुमिच्छति सर्वेषां सुहृदामौर्ध्वदेहिकम्
MBh 15.17.10
भवता निर्जितं वित्तं दातुमिच्छति कौरवः भीष्मादीनां महाबाहो तदनुज्ञातुमर्हसि
MBh 15.17.11
दिष्ट्या त्वद्य महाबाहो धृतराष्ट्रः प्रयाचति याचितो यः पुरास्माभिः पश्य कालस्य पर्ययम्
MBh 15.17.12
योऽसौ पृथिव्याः कृत्स्नाया भर्ता भूत्वा नराधिपः परैर्विनिहतापत्यो वनं गन्तुमभीप्सति
MBh 15.17.13
मा तेऽन्यत्पुरुषव्याघ्र दानाद्भवतु दर्शनम् अयशस्यमतोऽन्यत्स्यादधर्म्यं च महाभुज
MBh 15.17.14
राजानमुपतिष्ठस्व ज्येष्ठं भ्रातरमीश्वरम् अर्हस्त्वमसि दातुं वै नादातुं भरतर्षभ एवं ब्रुवाणं कौन्तेयं धर्मराजोऽभ्यपूजयत्
MBh 15.17.15
भीमसेनस्तु सक्रोधः प्रोवाचेदं वचस्तदा वयं भीष्मस्य कुर्मेह प्रेतकार्याणि फल्गुन
MBh 15.17.16
सोमदत्तस्य नृपतेर्भूरिश्रवस एव च बाह्लीकस्य च राजर्षेर्द्रोणस्य च महात्मनः
MBh 15.17.17
अन्येषां चैव सुहृदां कुन्ती कर्णाय दास्यति श्राद्धानि पुरुषव्याघ्र मादात्कौरवको नृपः
MBh 15.17.18
इति मे वर्तते बुद्धिर्मा वो नन्दन्तु शत्रवः कष्टात्कष्टतरं यान्तु सर्वे दुर्योधनादयः यैरियं पृथिवी सर्वा घातिता कुलपांसनैः
MBh 15.17.19
कुतस्त्वमद्य विस्मृत्य वैरं द्वादशवार्षिकम् अज्ञातवासगमनं द्रौपदीशोकवर्धनम् क्व तदा धृतराष्ट्रस्य स्नेहोऽस्मास्वभवत्तदा
MBh 15.17.20
कृष्णाजिनोपसंवीतो हृताभरणभूषणः सार्धं पाञ्चालपुत्र्या त्वं राजानमुपजग्मिवान् क्व तदा द्रोणभीष्मौ तौ सोमदत्तोऽपि वाभवत्
MBh 15.17.21
यत्र त्रयोदश समा वने वन्येन जीवसि न तदा त्वा पिता ज्येष्ठः पितृत्वेनाभिवीक्षते
MBh 15.17.22
किं ते तद्विस्मृतं पार्थ यदेष कुलपांसनः दुर्वृत्तो विदुरं प्राह द्यूते किं जितमित्युत
MBh 15.17.23
तमेवंवादिनं राजा कुन्तीपुत्रो युधिष्ठिरः उवाच भ्रातरं धीमाञ्जोषमास्वेति भर्त्सयन्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 23 source-pinned Devanāgarī addresses to Āśramavāsika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 15.17local chapter route · Āśramavāsika-ParvaĀśramavāsika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷