🪷 Mahābhārata · Āśramavāsika-Parva · Chapter 16

The Book of Hermitage Residence · Parva 15 · 27 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 27 Shlokas

MBh 15.16.1
ब्राह्मण उवाच न तद्दुर्योधनकृतं न च तद्भवता कृतम् न कर्णसौबलाभ्यां च कुरवो यत्क्षयं गताः
MBh 15.16.2
दैवं तत्तु विजानीमो यन्न शक्यं प्रबाधितुम् दैवं पुरुषकारेण न शक्यमतिवर्तितुम्
MBh 15.16.3
अक्षौहिण्यो महाराज दशाष्टौ च समागताः अष्टादशाहेन हता दशभिर्योधपुंगवैः
MBh 15.16.4
भीष्मद्रोणकृपाद्यैश्च कर्णेन च महात्मना युयुधानेन वीरेण धृष्टद्युम्नेन चैव ह
MBh 15.16.5
चतुर्भिः पाण्डुपुत्रैश्च भीमार्जुनयमैर्नृप जनक्षयोऽयं नृपते कृतो दैवबलात्कृतैः
MBh 15.16.6
अवश्यमेव संग्रामे क्षत्रियेण विशेषतः कर्तव्यं निधनं लोके शस्त्रेण क्षत्रबन्धुना
MBh 15.16.7
तैरियं पुरुषव्याघ्रैर्विद्याबाहुबलान्वितैः पृथिवी निहता सर्वा सहया सरथद्विपा
MBh 15.16.8
न स राजापराध्नोति पुत्रस्तव महामनाः न भवान्न च ते भृत्या न कर्णो न च सौबलः
MBh 15.16.9
यद्विनष्टाः कुरुश्रेष्ठा राजानश्च सहस्रशः सर्वं दैवकृतं तद्वै कोऽत्र किं वक्तुमर्हति
MBh 15.16.10
गुरुर्मतो भवानस्य कृत्स्नस्य जगतः प्रभुः धर्मात्मानमतस्तुभ्यमनुजानीमहे सुतम्
MBh 15.16.11
लभतां वीरलोकान्स ससहायो नराधिपः द्विजाग्र्यैः समनुज्ञातस्त्रिदिवे मोदतां सुखी
MBh 15.16.12
प्राप्स्यते च भवान्पुण्यं धर्मे च परमां स्थितिम् वेद पुण्यं च कार्त्स्न्येन सम्यग्भरतसत्तम
MBh 15.16.13
दृष्टापदानाश्चास्माभिः पाण्डवाः पुरुषर्षभाः समर्थास्त्रिदिवस्यापि पालने किं पुनः क्षितेः
MBh 15.16.14
अनुवत्स्यन्ति चापीमाः समेषु विषमेषु च प्रजाः कुरुकुलश्रेष्ठ पाण्डवाञ्शीलभूषणान्
MBh 15.16.15
ब्रह्मदेयाग्रहारांश्च परिहारांश्च पार्थिव पूर्वराजातिसर्गांश्च पालयत्येव पाण्डवः
MBh 15.16.16
दीर्घदर्शी कृतप्रज्ञः सदा वैश्रवणो यथा अक्षुद्रसचिवश्चायं कुन्तीपुत्रो महामनाः
MBh 15.16.17
अप्यमित्रे दयावांश्च शुचिश्च भरतर्षभ ऋजु पश्यति मेधावी पुत्रवत्पाति नः सदा
MBh 15.16.18
विप्रियं च जनस्यास्य संसर्गाद्धर्मजस्य वै न करिष्यन्ति राजर्षे तथा भीमार्जुनादयः
MBh 15.16.19
मन्दा मृदुषु कौरव्यास्तीक्ष्णेष्वाशीविषोपमाः वीर्यवन्तो महात्मानः पौराणां च हिते रताः
MBh 15.16.20
न कुन्ती न च पाञ्चाली न चोलूपी न सात्वती अस्मिञ्जने करिष्यन्ति प्रतिकूलानि कर्हिचित्
MBh 15.16.21
भवत्कृतमिमं स्नेहं युधिष्ठिरविवर्धितम् न पृष्ठतः करिष्यन्ति पौरजानपदा जनाः
MBh 15.16.22
अधर्मिष्ठानपि सतः कुन्तीपुत्रा महारथाः मानवान्पालयिष्यन्ति भूत्वा धर्मपरायणाः
MBh 15.16.23
स राजन्मानसं दुःखमपनीय युधिष्ठिरात् कुरु कार्याणि धर्म्याणि नमस्ते भरतर्षभ
MBh 15.16.24
वैशंपायन उवाच तस्य तद्वचनं धर्म्यमनुबन्धगुणोत्तरम् साधु साध्विति सर्वः स जनः प्रतिगृहीतवान्
MBh 15.16.25
धृतराष्ट्रश्च तद्वाक्यमभिपूज्य पुनः पुनः विसर्जयामास तदा सर्वास्तु प्रकृतीः शनैः
MBh 15.16.26
स तैः संपूजितो राजा शिवेनावेक्षितस्तदा प्राञ्जलिः पूजयामास तं जनं भरतर्षभ
MBh 15.16.27
ततो विवेश भुवनं गान्धार्या सहितो नृपः व्युष्टायां चैव शर्वर्यां यच्चकार निबोध तत्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 27 source-pinned Devanāgarī addresses to Āśramavāsika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 15.16local chapter route · Āśramavāsika-ParvaĀśramavāsika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷