🪷 Mahābhārata · Anuśāsana-Parva · Chapter 74

The Book of the Final Teaching · Parva 13 · 39 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 39 Shlokas

MBh 13.74.1
युधिष्ठिर उवाच विस्रम्भितोऽहं भवता धर्मान्प्रवदता विभो प्रवक्ष्यामि तु संदेहं तन्मे ब्रूहि पितामह
MBh 13.74.2
व्रतानां किं फलं प्रोक्तं कीदृशं वा महाद्युते नियमानां फलं किं च स्वधीतस्य च किं फलम्
MBh 13.74.3
दमस्येह फलं किं च वेदानां धारणे च किम् अध्यापने फलं किं च सर्वमिच्छामि वेदितुम्
MBh 13.74.4
अप्रतिग्राहके किं च फलं लोके पितामह तस्य किं च फलं दृष्टं श्रुतं यः संप्रयच्छति
MBh 13.74.5
स्वकर्मनिरतानां च शूराणां चापि किं फलम् सत्ये च किं फलं प्रोक्तं ब्रह्मचर्ये च किं फलम्
MBh 13.74.6
पितृशुश्रूषणे किं च मातृशुश्रूषणे तथा आचार्यगुरुशुश्रूषास्वनुक्रोशानुकम्पने
MBh 13.74.7
एतत्सर्वमशेषेण पितामह यथातथम् वेत्तुमिच्छामि धर्मज्ञ परं कौतूहलं हि मे
MBh 13.74.8
भीष्म उवाच यो व्रतं वै यथोद्दिष्टं तथा संप्रतिपद्यते अखण्डं सम्यगारब्धं तस्य लोकाः सनातनाः
MBh 13.74.9
नियमानां फलं राजन्प्रत्यक्षमिह दृश्यते नियमानां क्रतूनां च त्वयावाप्तमिदं फलम्
MBh 13.74.10
स्वधीतस्यापि च फलं दृश्यतेऽमुत्र चेह च इहलोकेऽर्थवान्नित्यं ब्रह्मलोके च मोदते
MBh 13.74.11
दमस्य तु फलं राजञ्शृणु त्वं विस्तरेण मे दान्ताः सर्वत्र सुखिनो दान्ताः सर्वत्र निर्वृताः
MBh 13.74.12
यत्रेच्छागामिनो दान्ताः सर्वशत्रुनिषूदनाः प्रार्थयन्ति च यद्दान्ता लभन्ते तन्न संशयः
MBh 13.74.13
युज्यन्ते सर्वकामैर्हि दान्ताः सर्वत्र पाण्डव स्वर्गे तथा प्रमोदन्ते तपसा विक्रमेण च
MBh 13.74.14
दानैर्यज्ञैश्च विविधैर्यथा दान्ताः क्षमान्विताः दाता कुप्यति नो दान्तस्तस्माद्दानात्परो दमः
MBh 13.74.15
यस्तु दद्यादकुप्यन्हि तस्य लोकाः सनातनाः क्रोधो हन्ति हि यद्दानं तस्माद्दानात्परो दमः
MBh 13.74.16
अदृश्यानि महाराज स्थानान्ययुतशो दिवि ऋषीणां सर्वलोकेषु यानीतो यान्ति देवताः
MBh 13.74.17
दमेन यानि नृपते गच्छन्ति परमर्षयः कामयाना महत्स्थानं तस्माद्दानात्परो दमः
MBh 13.74.18
अध्यापकः परिक्लेशादक्षयं फलमश्नुते विधिवत्पावकं हुत्वा ब्रह्मलोके नराधिप
MBh 13.74.19
अधीत्यापि हि यो वेदान्न्यायविद्भ्यः प्रयच्छति गुरुकर्मप्रशंसी च सोऽपि स्वर्गे महीयते
MBh 13.74.20
क्षत्रियोऽध्ययने युक्तो यजने दानकर्मणि युद्धे यश्च परित्राता सोऽपि स्वर्गे महीयते
MBh 13.74.21
वैश्यः स्वकर्मनिरतः प्रदानाल्लभते महत् शूद्रः स्वकर्मनिरतः स्वर्गं शुश्रूषयार्च्छति
MBh 13.74.22
शूरा बहुविधाः प्रोक्तास्तेषामर्थांश्च मे शृणु शूरान्वयानां निर्दिष्टं फलं शूरस्य चैव ह
MBh 13.74.23
यज्ञशूरा दमे शूराः सत्यशूरास्तथापरे युद्धशूरास्तथैवोक्ता दानशूराश्च मानवाः
MBh 13.74.24
बुद्धिशूरास्तथैवान्ये क्षमाशूरास्तथापरे आर्जवे च तथा शूराः शमे वर्तन्ति मानवाः
MBh 13.74.25
तैस्तैस्तु नियमैः शूरा बहवः सन्ति चापरे वेदाध्ययनशूराश्च शूराश्चाध्यापने रताः
MBh 13.74.26
गुरुशुश्रूषया शूराः पितृशुश्रूषयापरे मातृशुश्रूषया शूरा भैक्ष्यशूरास्तथापरे
MBh 13.74.27
सांख्यशूराश्च बहवो योगशूरास्तथापरे अरण्ये गृहवासे च शूराश्चातिथिपूजने सर्वे यान्ति पराँल्लोकान्स्वकर्मफलनिर्जितान्
MBh 13.74.28
धारणं सर्ववेदानां सर्वतीर्थावगाहनम् सत्यं च ब्रुवतो नित्यं समं वा स्यान्न वा समम्
MBh 13.74.29
अश्वमेधसहस्रं च सत्यं च तुलया धृतम् अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते
MBh 13.74.30
सत्येन सूर्यस्तपति सत्येनाग्निः प्रदीप्यते सत्येन मारुतो वाति सर्वं सत्ये प्रतिष्ठितम्
MBh 13.74.31
सत्येन देवान्प्रीणाति पितॄन्वै ब्राह्मणांस्तथा सत्यमाहुः परं धर्मं तस्मात्सत्यं न लङ्घयेत्
MBh 13.74.32
मुनयः सत्यनिरता मुनयः सत्यविक्रमाः मुनयः सत्यशपथास्तस्मात्सत्यं विशिष्यते सत्यवन्तः स्वर्गलोके मोदन्ते भरतर्षभ
MBh 13.74.33
दमः सत्यफलावाप्तिरुक्ता सर्वात्मना मया असंशयं विनीतात्मा सर्वः स्वर्गे महीयते
MBh 13.74.34
ब्रह्मचर्यस्य तु गुणाञ्शृणु मे वसुधाधिप आ जन्ममरणाद्यस्तु ब्रह्मचारी भवेदिह न तस्य किंचिदप्राप्यमिति विद्धि जनाधिप
MBh 13.74.35
बह्व्यः कोट्यस्त्वृषीणां तु ब्रह्मलोके वसन्त्युत सत्ये रतानां सततं दान्तानामूर्ध्वरेतसाम्
MBh 13.74.36
ब्रह्मचर्यं दहेद्राजन्सर्वपापान्युपासितम् ब्राह्मणेन विशेषेण ब्राह्मणो ह्यग्निरुच्यते
MBh 13.74.37
प्रत्यक्षं च तवाप्येतद्ब्राह्मणेषु तपस्विषु बिभेति हि यथा शक्रो ब्रह्मचारिप्रधर्षितः तद्ब्रह्मचर्यस्य फलमृषीणामिह दृश्यते
MBh 13.74.38
मातापित्रोः पूजने यो धर्मस्तमपि मे शृणु शुश्रूषते यः पितरं न चासूयेत्कथंचन मातरं वानहंवादी गुरुमाचार्यमेव च
MBh 13.74.39
तस्य राजन्फलं विद्धि स्वर्लोके स्थानमुत्तमम् न च पश्येत नरकं गुरुशुश्रूषुरात्मवान्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 39 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 13.74local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷