🪷 Mahābhārata · Anuśāsana-Parva · Chapter 72
The Book of the Final Teaching · Parva 13 · 48 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 48 Shlokas
MBh 13.72.1
ब्रह्मोवाच
योऽयं प्रश्नस्त्वया पृष्टो गोप्रदानाधिकारवान्
नास्य प्रष्टास्ति लोकेऽस्मिंस्त्वत्तोऽन्यो हि शतक्रतो
MBh 13.72.2
सन्ति नानाविधा लोका यांस्त्वं शक्र न पश्यसि
पश्यामि यानहं लोकानेकपत्न्यश्च याः स्त्रियः
MBh 13.72.3
कर्मभिश्चापि सुशुभैः सुव्रता ऋषयस्तथा
सशरीरा हि तान्यान्ति ब्राह्मणाः शुभवृत्तयः
MBh 13.72.4
शरीरन्यासमोक्षेण मनसा निर्मलेन च
स्वप्नभूतांश्च ताँल्लोकान्पश्यन्तीहापि सुव्रताः
MBh 13.72.5
ते तु लोकाः सहस्राक्ष शृणु यादृग्गुणान्विताः
न तत्र क्रमते कालो न जरा न च पापकम्
तथान्यन्नाशुभं किंचिन्न व्याधिस्तत्र न क्लमः
MBh 13.72.6
यद्यच्च गावो मनसा तस्मिन्वाञ्छन्ति वासव
तत्सर्वं प्रापयन्ति स्म मम प्रत्यक्षदर्शनात्
कामगाः कामचारिण्यः कामात्कामांश्च भुञ्जते
MBh 13.72.7
वाप्यः सरांसि सरितो विविधानि वनानि च
गृहाणि पर्वताश्चैव यावद्द्रव्यं च किंचन
MBh 13.72.8
मनोज्ञं सर्वभूतेभ्यः सर्वं तत्र प्रदृश्यते
ईदृशान्विद्धि ताँल्लोकान्नास्ति लोकस्ततोऽधिकः
MBh 13.72.9
तत्र सर्वसहाः क्षान्ता वत्सला गुरुवर्तिनः
अहंकारैर्विरहिता यान्ति शक्र नरोत्तमाः
MBh 13.72.10
यः सर्वमांसानि न भक्षयीत; पुमान्सदा यावदन्ताय युक्तः
मातापित्रोरर्चिता सत्ययुक्तः; शुश्रूषिता ब्राह्मणानामनिन्द्यः
MBh 13.72.11
अक्रोधनो गोषु तथा द्विजेषु; धर्मे रतो गुरुशुश्रूषकश्च
यावज्जीवं सत्यवृत्ते रतश्च; दाने रतो यः क्षमी चापराधे
MBh 13.72.12
मृदुर्दान्तो देवपरायणश्च; सर्वातिथिश्चापि तथा दयावान्
ईदृग्गुणो मानवः संप्रयाति; लोकं गवां शाश्वतं चाव्ययं च
MBh 13.72.13
न पारदारी पश्यति लोकमेनं; न वै गुरुघ्नो न मृषाप्रलापी
सदापवादी ब्राह्मणः शान्तवेदो; दोषैरन्यैर्यश्च युक्तो दुरात्मा
MBh 13.72.14
न मित्रध्रुङ्नैकृतिकः कृतघ्नः; शठोऽनृजुर्धर्मविद्वेषकश्च
न ब्रह्महा मनसापि प्रपश्ये;द्गवां लोकं पुण्यकृतां निवासम्
MBh 13.72.15
एतत्ते सर्वमाख्यातं नैपुणेन सुरेश्वर
गोप्रदानरतानां तु फलं शृणु शतक्रतो
MBh 13.72.16
दायाद्यलब्धैरर्थैर्यो गाः क्रीत्वा संप्रयच्छति
धर्मार्जितधनक्रीतान्स लोकानश्नुतेऽक्षयान्
MBh 13.72.17
यो वै द्यूते धनं जित्वा गाः क्रीत्वा संप्रयच्छति
स दिव्यमयुतं शक्र वर्षाणां फलमश्नुते
MBh 13.72.18
दायाद्या यस्य वै गावो न्यायपूर्वैरुपार्जिताः
प्रदत्तास्ताः प्रदातॄणां संभवन्त्यक्षया ध्रुवाः
MBh 13.72.19
प्रतिगृह्य च यो दद्याद्गाः सुशुद्धेन चेतसा
तस्यापीहाक्षयाँल्लोकान्ध्रुवान्विद्धि शचीपते
MBh 13.72.20
जन्मप्रभृति सत्यं च यो ब्रूयान्नियतेन्द्रियः
गुरुद्विजसहः क्षान्तस्तस्य गोभिः समा गतिः
MBh 13.72.21
न जातु ब्राह्मणो वाच्यो यदवाच्यं शचीपते
मनसा गोषु न द्रुह्येद्गोवृत्तिर्गोनुकम्पकः
MBh 13.72.22
सत्ये धर्मे च निरतस्तस्य शक्र फलं शृणु
गोसहस्रेण समिता तस्य धेनुर्भवत्युत
MBh 13.72.23
क्षत्रियस्य गुणैरेभिरन्वितस्य फलं शृणु
तस्यापि शततुल्या गौर्भवतीति विनिश्चयः
MBh 13.72.24
वैश्यस्यैते यदि गुणास्तस्य पञ्चाशतं भवेत्
शूद्रस्यापि विनीतस्य चतुर्भागफलं स्मृतम्
MBh 13.72.25
एतच्चैवं योऽनुतिष्ठेत युक्तः; सत्येन युक्तो गुरुशुश्रूषया च
दान्तः क्षान्तो देवतार्ची प्रशान्तः; शुचिर्बुद्धो धर्मशीलोऽनहंवाक्
MBh 13.72.26
महत्फलं प्राप्नुते स द्विजाय; दत्त्वा दोग्ध्रीं विधिनानेन धेनुम्
नित्यं दद्यादेकभक्तः सदा च; सत्ये स्थितो गुरुशुश्रूषिता च
MBh 13.72.27
वेदाध्यायी गोषु यो भक्तिमांश्च; नित्यं दृष्ट्वा योऽभिनन्देत गाश्च
आ जातितो यश्च गवां नमेत; इदं फलं शक्र निबोध तस्य
MBh 13.72.28
यत्स्यादिष्ट्वा राजसूये फलं तु; यत्स्यादिष्ट्वा बहुना काञ्चनेन
एतत्तुल्यं फलमस्याहुरग्र्यं; सर्वे सन्तस्त्वृषयो ये च सिद्धाः
MBh 13.72.29
योऽग्रं भक्तान्किंचिदप्राश्य दद्या;द्गोभ्यो नित्यं गोव्रती सत्यवादी
शान्तो बुद्धो गोसहस्रस्य पुण्यं; संवत्सरेणाप्नुयात्पुण्यशीलः
MBh 13.72.30
य एकं भक्तमश्नीयाद्दद्यादेकं गवां च यत्
दश वर्षाण्यनन्तानि गोव्रती गोनुकम्पकः
MBh 13.72.31
एकेनैव च भक्तेन यः क्रीत्वा गां प्रयच्छति
यावन्ति तस्य प्रोक्तानि दिवसानि शतक्रतो
तावच्छतानां स गवां फलमाप्नोति शाश्वतम्
MBh 13.72.32
ब्राह्मणस्य फलं हीदं क्षत्रियेऽभिहितं शृणु
पञ्चवार्षिकमेतत्तु क्षत्रियस्य फलं स्मृतम्
ततोऽर्धेन तु वैश्यस्य शूद्रो वैश्यार्धतः स्मृतः
MBh 13.72.33
यश्चात्मविक्रयं कृत्वा गाः क्रीत्वा संप्रयच्छति
यावतीः स्पर्शयेद्गा वै तावत्तु फलमश्नुते
लोम्नि लोम्नि महाभाग लोकाश्चास्याक्षयाः स्मृताः
MBh 13.72.34
संग्रामेष्वर्जयित्वा तु यो वै गाः संप्रयच्छति
आत्मविक्रयतुल्यास्ताः शाश्वता विद्धि कौशिक
MBh 13.72.35
अलाभे यो गवां दद्यात्तिलधेनुं यतव्रतः
दुर्गात्स तारितो धेन्वा क्षीरनद्यां प्रमोदते
MBh 13.72.36
न त्वेवासां दानमात्रं प्रशस्तं; पात्रं कालो गोविशेषो विधिश्च
कालज्ञानं विप्र गवान्तरं हि; दुःखं ज्ञातुं पावकादित्यभूतम्
MBh 13.72.37
स्वाध्यायाढ्यं शुद्धयोनिं प्रशान्तं; वैतानस्थं पापभीरुं कृतज्ञम्
गोषु क्षान्तं नातितीक्ष्णं शरण्यं; वृत्तिग्लानं तादृशं पात्रमाहुः
MBh 13.72.38
वृत्तिग्लाने सीदति चातिमात्रं; कृष्यर्थं वा होमहेतोः प्रसूत्याम्
गुर्वर्थं वा बालसंवृद्धये वा; धेनुं दद्याद्देशकाले विशिष्टे
MBh 13.72.39
अन्तर्जाताः सुक्रयज्ञानलब्धाः; प्राणक्रीता निर्जिताश्चौकजाश्च
कृच्छ्रोत्सृष्टाः पोषणाभ्यागताश्च; द्वारैरेतैर्गोविशेषाः प्रशस्ताः
MBh 13.72.40
बलान्विताः शीलवयोपपन्नाः; सर्वाः प्रशंसन्ति सुगन्धवत्यः
यथा हि गङ्गा सरितां वरिष्ठा; तथार्जुनीनां कपिला वरिष्ठा
MBh 13.72.41
तिस्रो रात्रीस्त्वद्भिरुपोष्य भूमौ; तृप्ता गावस्तर्पितेभ्यः प्रदेयाः
वत्सैः पुष्टैः क्षीरपैः सुप्रचारा;स्त्र्यहं दत्त्वा गोरसैर्वर्तितव्यम्
MBh 13.72.42
दत्त्वा धेनुं सुव्रतां साधुवत्सां; कल्याणवृत्तामपलायिनीं च
यावन्ति लोमानि भवन्ति तस्या;स्तावन्ति वर्षाणि वसत्यमुत्र
MBh 13.72.43
तथानड्वाहं ब्राह्मणायाथ धुर्यं; दत्त्वा युवानं बलिनं विनीतम्
हलस्य वोढारमनन्तवीर्यं; प्राप्नोति लोकान्दशधेनुदस्य
MBh 13.72.44
कान्तारे ब्राह्मणान्गाश्च यः परित्राति कौशिक
क्षेमेण च विमुच्येत तस्य पुण्यफलं शृणु
अश्वमेधक्रतोस्तुल्यं फलं भवति शाश्वतम्
MBh 13.72.45
मृत्युकाले सहस्राक्ष यां वृत्तिमनुकाङ्क्षते
लोकान्बहुविधान्दिव्यान्यद्वास्य हृदि वर्तते
MBh 13.72.46
तत्सर्वं समवाप्नोति कर्मणा तेन मानवः
गोभिश्च समनुज्ञातः सर्वत्र स महीयते
MBh 13.72.47
यस्त्वेतेनैव विधिना गां वनेष्वनुगच्छति
तृणगोमयपर्णाशी निःस्पृहो नियतः शुचिः
MBh 13.72.48
अकामं तेन वस्तव्यं मुदितेन शतक्रतो
मम लोके सुरैः सार्धं लोके यत्रापि चेच्छति
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Anuśāsana-Parva chapter-index (154 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Anuśāsana-Parva Ch 71
- Next chapter · Anuśāsana-Parva Ch 73 →
Sources and Connected Readings
Continue from these 48 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 13.72local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷