🪷 Mahābhārata · Anuśāsana-Parva · Chapter 58

The Book of the Final Teaching · Parva 13 · 40 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 40 Shlokas

MBh 13.58.1
युधिष्ठिर उवाच यानीमानि बहिर्वेद्यां दानानि परिचक्षते तेभ्यो विशिष्टं किं दानं मतं ते कुरुपुंगव
MBh 13.58.2
कौतूहलं हि परमं तत्र मे वर्तते प्रभो दातारं दत्तमन्वेति यद्दानं तत्प्रचक्ष्व मे
MBh 13.58.3
भीष्म उवाच अभयं सर्वभूतेभ्यो व्यसने चाप्यनुग्रहम् यच्चाभिलषितं दद्यात्तृषितायाभियाचते
MBh 13.58.4
दत्तं मन्येत यद्दत्त्वा तद्दानं श्रेष्ठमुच्यते दत्तं दातारमन्वेति यद्दानं भरतर्षभ
MBh 13.58.5
हिरण्यदानं गोदानं पृथिवीदानमेव च एतानि वै पवित्राणि तारयन्त्यपि दुष्कृतम्
MBh 13.58.6
एतानि पुरुषव्याघ्र साधुभ्यो देहि नित्यदा दानानि हि नरं पापान्मोक्षयन्ति न संशयः
MBh 13.58.7
यद्यदिष्टतमं लोके यच्चास्य दयितं गृहे तत्तद्गुणवते देयं तदेवाक्षयमिच्छता
MBh 13.58.8
प्रियाणि लभते लोके प्रियदः प्रियकृत्तथा प्रियो भवति भूतानामिह चैव परत्र च
MBh 13.58.9
याचमानमभीमानादाशावन्तमकिंचनम् यो नार्चति यथाशक्ति स नृशंसो युधिष्ठिर
MBh 13.58.10
अमित्रमपि चेद्दीनं शरणैषिणमागतम् व्यसने योऽनुगृह्णाति स वै पुरुषसत्तमः
MBh 13.58.11
कृशाय ह्रीमते तात वृत्तिक्षीणाय सीदते अपहन्यात्क्षुधं यस्तु न तेन पुरुषः समः
MBh 13.58.12
ह्रिया तु नियतान्साधून्पुत्रदारैश्च कर्शितान् अयाचमानान्कौन्तेय सर्वोपायैर्निमन्त्रय
MBh 13.58.13
आशिषं ये न देवेषु न मर्त्येषु च कुर्वते अर्हन्तो नित्यसत्त्वस्था यथालब्धोपजीविनः
MBh 13.58.14
आशीविषसमेभ्यश्च तेभ्यो रक्षस्व भारत तान्युक्तैरुपजिज्ञास्य तथा द्विजवरोत्तमान्
MBh 13.58.15
कृतैरावसथैर्नित्यं सप्रेष्यैः सपरिच्छदैः निमन्त्रयेथाः कौरव्य सर्वकामसुखावहैः
MBh 13.58.16
यदि ते प्रतिगृह्णीयुः श्रद्धापूतं युधिष्ठिर कार्यमित्येव मन्वाना धार्मिकाः पुण्यकर्मिणः
MBh 13.58.17
विद्यास्नाता व्रतस्नाता ये व्यपाश्रित्यजीविनः गूढस्वाध्यायतपसो ब्राह्मणाः संशितव्रताः
MBh 13.58.18
तेषु शुद्धेषु दान्तेषु स्वदारनिरतेषु च यत्करिष्यसि कल्याणं तत्त्वा लोकेषु धास्यति
MBh 13.58.19
यथाग्निहोत्रं सुहुतं सायं प्रातर्द्विजातिना तथा भवति दत्तं वै द्विजेभ्योऽथ कृतात्मना
MBh 13.58.20
एष ते विततो यज्ञः श्रद्धापूतः सदक्षिणः विशिष्टः सर्वयज्ञेभ्यो ददतस्तात वर्तताम्
MBh 13.58.21
निवापो दानसदृशस्तादृशेषु युधिष्ठिर निवपन्पूजयंश्चैव तेष्वानृण्यं निगच्छति
MBh 13.58.22
य एव नो न कुप्यन्ति न लुभ्यन्ति तृणेष्वपि त एव नः पूज्यतमा ये चान्ये प्रियवादिनः
MBh 13.58.23
ये नो न बहु मन्यन्ते न प्रवर्तन्ति चापरे पुत्रवत्परिपाल्यास्ते नमस्तेभ्यस्तथाभयम्
MBh 13.58.24
ऋत्विक्पुरोहिताचार्या मृदुब्रह्मधरा हि ते क्षत्रेणापि हि संसृष्टं तेजः शाम्यति वै द्विजे
MBh 13.58.25
अस्ति मे बलवानस्मि राजास्मीति युधिष्ठिर ब्राह्मणान्मा स्म पर्यश्नीर्वासोभिरशनेन च
MBh 13.58.26
यच्छोभार्थं बलार्थं वा वित्तमस्ति तवानघ तेन ते ब्राह्मणाः पूज्याः स्वधर्ममनुतिष्ठता
MBh 13.58.27
नमस्कार्यास्त्वया विप्रा वर्तमाना यथातथम् यथासुखं यथोत्साहं ललन्तु त्वयि पुत्रवत्
MBh 13.58.28
को ह्यन्यः सुप्रसादानां सुहृदामल्पतोषिणाम् वृत्तिमर्हत्युपक्षेप्तुं त्वदन्यः कुरुसत्तम
MBh 13.58.29
यथा पत्याश्रयो धर्मः स्त्रीणां लोके सनातनः स देवः सा गतिर्नान्या तथास्माकं द्विजातयः
MBh 13.58.30
यदि नो ब्राह्मणास्तात संत्यजेयुरपूजिताः पश्यन्तो दारुणं कर्म सततं क्षत्रिये स्थितम्
MBh 13.58.31
अवेदानामकीर्तीनामलोकानामयज्वनाम् कोऽस्माकं जीवितेनार्थस्तद्धि नो ब्राह्मणाश्रयम्
MBh 13.58.32
अत्र ते वर्तयिष्यामि यथा धर्मः सनातनः राजन्यो ब्राह्मणं राजन्पुरा परिचचार ह वैश्यो राजन्यमित्येव शूद्रो वैश्यमिति श्रुतिः
MBh 13.58.33
दूराच्छूद्रेणोपचर्यो ब्राह्मणोऽग्निरिव ज्वलन् संस्पर्शपरिचर्यस्तु वैश्येन क्षत्रियेण च
MBh 13.58.34
मृदुभावान्सत्यशीलान्सत्यधर्मानुपालकान् आशीविषानिव क्रुद्धांस्तानुपाचरत द्विजान्
MBh 13.58.35
अपरेषां परेषां च परेभ्यश्चैव ये परे क्षत्रियाणां प्रतपतां तेजसा च बलेन च ब्राह्मणेष्वेव शाम्यन्ति तेजांसि च तपांसि च
MBh 13.58.36
न मे पिता प्रियतरो न त्वं तात तथा प्रियः न मे पितुः पिता राजन्न चात्मा न च जीवितम्
MBh 13.58.37
त्वत्तश्च मे प्रियतरः पृथिव्यां नास्ति कश्चन त्वत्तोऽपि मे प्रियतरा ब्राह्मणा भरतर्षभ
MBh 13.58.38
ब्रवीमि सत्यमेतच्च यथाहं पाण्डुनन्दन तेन सत्येन गच्छेयं लोकान्यत्र स शंतनुः
MBh 13.58.39
पश्येयं च सतां लोकाञ्छुचीन्ब्रह्मपुरस्कृतान् तत्र मे तात गन्तव्यमह्नाय च चिराय च
MBh 13.58.40
सोऽहमेतादृशाँल्लोकान्दृष्ट्वा भरतसत्तम यन्मे कृतं ब्राह्मणेषु न तप्ये तेन पार्थिव

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 40 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 13.58local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷